SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ 361 चतुर्दिशं त्रिसोपानप्रतिरूपकबन्धुराः । चतुर्दिशं च प्रत्येकं, रम्यास्ता रनतोरणैः ॥ १४० ॥ दलच्छतदलश्रेणिगलन्मरन्दलेपतः । अन्योऽन्यमितरभ्रान्तिभ्रमद्भङ्गतदङ्गनाः ॥ १४१ ॥ अनरालैर्मरालत्तैर्मृणालैललितान्तराः । आमुक्तव्यक्तशृङ्गारहारैखि मनोहराः ॥१४२ ॥ सोपानावतरत्स्वःस्त्रीनूपुरध्वनिबोधितैः । मरालैर्मधुरध्वानैर्मुदोपवीणिता इव ॥१४३ ॥ क्रीडाद्दिव्याङ्गनोत्तुङ्गवक्षोजास्फालनोज्जितैः । आत्तरङ्गैः सत्तरङ्गैरिवाङ्गीकृतताण्डवाः ॥ १४४ ॥ अर्हदर्चार्चनोयुक्तस्नातस्वःस्त्रीस्तनच्युतैः । कस्तूरीचन्द्रघुसृणैः, शोभन्ते चित्रिता इव ॥ १४५ ॥ नन्दिषेणा तथाऽमोघा, गोस्तूपा च सुदर्शना । स्युर्वाप्यो देवरमणात्पूर्वादिदिक्चतुष्टये ॥ १४६ ॥ नन्दोत्तरा तथा नन्दा, सुनन्दा नन्दिवर्द्धना । पुष्करिण्यश्चतस्रः स्युनित्योद्योताश्चतुर्दिशम् ॥ १४७ ॥ भद्रा विशाला कुमुदा, चतुर्थी पुण्डरीकिणी । स्वयंप्रभगिरेः पूर्वादिषु दिदिवति वापिकाः ॥ १४८ ॥ विजया वैजयन्ती च, जयन्ती चापराजिता । वाप्यः प्राच्यादिषु दिक्षु, रमणीयाञ्जनागिरेः ॥ १४९ ॥ ____ अयं नन्दीश्वरस्तवनन्दीश्वरकल्पाभिप्रायेण षोडशानामपि पुष्करिणीनां नामक्रमः, __ स्थानाङ्गजीवाभिगमाभिप्रायेण त्वेवंनन्दोत्तरा तथा नंदा, चानन्दा नन्दिवर्द्धना । चतुर्दिशं पुष्करिण्यः, पौरस्त्वस्याञ्जनागिरेः ॥ १५० ॥ भद्रा विशाला कुमुदा, चतुर्थी पुण्डरीकिणी । चतुर्दिशं पुष्करिण्यो, दाक्षिणात्यञ्जनागिरेः ॥ १५१ ॥ नन्दिषेणा तथाऽमोघा, गोस्तूपा च सुदर्शना । चतुर्दिशं पुष्करिण्यः, प्रतीचीनाञ्चनागिरेः ॥ १५२ ॥ उदीच्ये तूभयोरपि मतयोस्तुल्यमेव ॥ एकैकस्याः पुष्करिण्या, व्यतीत्य दिक्चतुष्टये । योजनानां पञ्च शतान्येकैकमस्ति काननम् ॥ १५३ ॥ अस्त्यशोकवनं प्राच्यां सप्तपर्णवनं ततः । याम्यां प्रत्यक् चम्पकानामथाम्राणामुदग् वनम् ॥ १५४ ॥ योजनानां लक्षमेकमायतान्यखिलान्यपि । शतानि पञ्च पृथुलान्यद्भुतान्यद्भुतश्रिया ॥ १५५ ॥ सच्छायैः सुमनोरम्यैर्महास्कन्धैः समुन्नतैः । विभान्ति तरुभिस्तानि, कुलानीव नरोत्तमैः ॥ १५६ ॥ सौरभ्याकृष्टमधुपा, लीलानर्तितपल्लवा: । उबुद्धकुसुमास्तेषु, लताः पण्याङ्गना इव ॥ १५७ ॥ तेषां कुञ्जेषु निश्छिद्रपरिच्छदाद्रिभित्तिषु । न विशन्तीशगेहेषु, चौरा इव करा रखेः ॥ १५८ ॥ षोडशानामप्यमूषां, वापिकानां किलोदरे । स्यादेकैको दधिमुखः, स्फारस्फटिकरत्नजः ॥ १५९ ॥ मुखं शिखरमेतेषां, यतो दधिवदुज्ज्वलम् । ततो ह्येते दधिमुखा, रौप्यशृङ्गमनोरमाः ॥ १६० ॥ धान्यपल्यसमाकाराः, सर्वतः सदृशा इमे । उपर्यधो योजनानां, सहस्राणि दशातताः ॥ १६१ ॥ चतुःषष्टि सहस्राणि, कीर्तितास्ते समुच्छ्रिताः । सहस्रं च योजनानामुद्भिद्धा वसुधान्तरे ॥ १६२ ।।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy