SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ 357 तत्तत्पङ्क्तिस्थपरिधौ, स्वस्वभान्विन्दुभाजिते । लब्धमन्तरमर्केन्द्रोदिजमिन्द्रोस्तथाऽर्कयोः ॥ ५७ ॥ यथाऽऽद्यपङ्क्तिसंबन्धिपूर्वोक्तपरिधौ किल । चतुश्चत्वारिंशशताऽकेंदुभक्ते भवेदिदम् ॥ ५८ ॥ लक्षमेकं सहसं च, स्फुटं सप्तदशोत्तरम् । चतुश्चत्वारिंशशतभक्तस्य योजनस्य च ॥ ५९॥ एकोनत्रिंशदशाचा-केन्द्रोरेतन्मिथोऽन्तरम् । अस्मिश्च द्विगुणेऽन्योऽन्यं, भान्वोरिन्द्रोश्च तद्भवेत् ॥ ६०॥ बैगुण्यायात्र भागानां, दाभ्यां खल्वपवर्त्यते । छेदकात् छेदके तष्टे, ह्यशराशिर्भवेन्महान् ॥ ६ ॥ मतेऽस्मिंश्च प्रतिद्धीपं वार्डीन्दुतिग्मरोचिषाम् । संख्याभिधायि करणं, न प्रोक्तं विस्तृतेभिया ॥६२ ॥ तदर्थिभिस्तु करणविभावना विभाव्यताम् । पूर्वसंग्रहणीटीका, कृता वा मलयर्षिभिः ॥ ६३ ॥ ___ एतन्मतसंग्राहिके च गाथे इमे– “चोयालसयं पढमिल्लुयाएँ पंतीइ चंदसूराणं । तेण परं पंतीओ, चउत्तिरियाएँ वुड्ढीए ॥ बावत्तरि चंदाणं, बावत्तरि सूरियाण पंतीओ । पढमाए अंतरं पुण, चंदा चंदस्स लक्खदुर्ग” ॥ [बृहत्संग्रहणी गा. ८३, ८४] __ अत्र 'लक्खदुगं'ति लक्षद्धिकं विंशत्या शतैश्चतुस्त्रिशैर्योजनस्य द्विसप्ततितमैरे कोनत्रिंशद्भागैरधिकं बोद्धव्यं । श्रेणिः परिरयाख्यैव, मतयोरेतयोर्द्धयोः । न तु सूचीश्रेणिरत्र, वेत्ति तत्त्वं तु केवली ॥६४ ॥ योगशास्त्रचतुर्थप्रकाशवृत्तावप्युक्तं मानुषोत्तरात्परत: पञ्चाशता योजनसहनैः परस्परमन्तरिताश्चन्द्रान्तरिताः सूर्याः सूर्यान्तरिताश्चन्द्रा मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणाद् यथोत्तरं क्षेत्रपरिघेवृद्ध्या संख्येया वर्द्धमानाः शुभलेश्या ग्रहनक्षत्रतारापरिवारा घण्टाकारा असङ्खयेया आस्वयंभूरमणाल्लक्षयोजनान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ती"ति, तथा परिशिष्टपर्वण्यपि श्रीहेमचन्द्रसूरिभिः परिरयश्रेणिरेवोपमिता, तथाहि __राजगृहवप्रवर्णने- तत्र राजतसौवर्णैः, प्राकारः कपिशीर्षकैः । भाति चन्द्रांशुमद्धिम्बैर्मोत्तर इवाचलः ॥” इति श्रीपरिरयश्रेणिः ॥ परत: पुष्करद्वीपात्पुष्करोदः पयोनिधिः । समन्ततो द्वीपमेनमवगृह्य प्रतिष्ठितः ॥६५॥ अतिपथ्यमतिस्वच्छं, जात्यं लघु मनोरमम् । स्फुटस्फटिकरत्नाभमस्य वारि सुधोपमम् ॥ ६६ ॥ सदा सपरिवाराभ्यां, भासुराभ्यां महौजसा । श्रीधरश्रीप्रभाभिख्यदेवताभ्यामहर्निशम् ॥६७ ॥ इन्दर्काभ्यां पुष्करवदिभात्यस्योदकं यतः । पुष्करोदस्तत एष, भुवि ख्यातः पयोनिधिः ॥ ६॥ अस्य योजनलक्षाणि, द्वात्रिंशच्चक्रवालतः । विस्तारः परिधिस्त्वस्य, भाव्यो व्यासानुसारतः ॥ ६९ ॥ परत: पुष्कराम्भोधेर्दापोऽस्ति वारुणीवरः । सद्धारुणीव वाप्यादौ, जलमस्येत्यसौ तथा ॥ ७० ॥ देवौ द्रावत्र वरुणवरुणप्रभसंज्ञितौ । तत्स्वामिकत्वादरुणवरोऽप्येष निगद्यते ॥७१ ॥ चतुःषष्ठियोजनानां, लक्षाणि चैष विस्तृतः । चक्रवालतया ज्ञेयः, परिधिस्त्वस्य पूर्ववत् ॥७२॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy