________________
356
तथाहि —— पङ्क्ङ्क्योर्द्वयोर्योजनानां, लक्षमन्तरमेकतः । परतोऽप्यन्तरं तावत्ततो लक्षद्धयाधिके ॥ ३७ ॥ विष्कम्भे पूर्वविष्कम्भात्, प्रतिपङ्क्ति विवर्द्धते । लक्षद्वयं योजनानां तस्यायं परिधिर्भवेत् ॥ ३८ ॥ लक्षाणि षड् योजनानां, द्वात्रिंशच्च सहस्रकाः । पञ्चपञ्चाशदाढ्यानि चत्वार्येव शतानि च ॥ ३९ ॥ पूर्वपूर्वपङ्क्तिगतपरिधिष्वस्य योजनात् । अग्ग्राग्ग्रपङ्क्तिपरिधिः, सर्वत्र क्षेप एष वै ॥ ४० ॥ अथैतस्यादिमपङ्क्तिपरिधौ क्षेपतः किल । द्वितीयपङ्क्तिसंबंधी, परिधिः स भवेदियान् ॥ ४१ ॥ एकपञ्चाशता लक्षैरेका कोटी समन्विता । अष्टसप्तत्या सहसैर्द्धात्रिंशैर्नवभि शतैः ॥ ४२ ॥ षडेव लक्षाः पूर्वस्मात्परिधेरधिकास्ततः । षण्णां वृद्धिः प्रतिलक्षमेकैकार्केदुवृद्धितः ॥ ४३ ॥ एवंपङ्क्तौ द्वितीयस्यां संमिता लक्षसंख्यया । प्रत्येकमेकपञ्चाशं शतमिन्दुदिवाकराः ॥ ४४ ॥ द्वितीयपङ्क्तिपरिधौ, ततः क्षेपायोगतः । तृतीयपङ्क्तिपरिधिरेतावानिह जायते ॥ ४५ ॥ एका कोट्यष्टपञ्चाशल्लक्षाण्येकादशापि च । सहस्राणि त्रिशती च, सप्ताशीतिसमन्विताः ॥ ४६ ॥ पूर्वस्मात्परिधेः सप्त, लक्षा जाता इहाधिका: । वृद्धिस्ततस्तृतीयस्यां सप्तानामिन्दुभास्वताम् ॥ ४७ ॥ तुर्यापञ्चम्योस्तु पङ्क्तयोः, षण्णां षण्णां ततः परम् ।
वृद्धिः षष्ठ्यां तु सप्तानां षष्णां षण्णां तता द्वयोः ॥ ४८ ॥
लोकान्तं यावदाधिक्यमेवमिन्दुविवस्वताम् । वाच्यमेवं पुष्करोत्तरार्द्धेऽष्टास्वपि पङ्क्तिषु ॥ ४९ ॥ सप्तत्रिंशदधिकानि शतान्येव त्रयोदश । प्रत्येकमिन्दुसूर्याणां भवन्ति सर्वसंख्यया ॥ ५० ॥ एतदर्थसंग्राहिकाच पूर्वाचार्यकृता एव इमा गाथा :- “माणुसनगाओ परओ, लक्खद्धे होई खेत्तविक्खंभो । छायालीसं लक्खा, परिही तस्सेगकोडी उ” ॥ पणयालीसं लक्खा छायालीसं च जोअणसहस्सा । चउरो सयाई तह सत्तहत्तरी जोअणाणं तु ॥ साहिअजोअणलक्खद्धेगंतरठिय ससीण सूराणं । पंतीए पढमाए, पणयालसयं तु पत्तेयं ॥ तप्परओ पंतीओ, जोअणलक्खंतराओ सव्वाओ । जो जइलक्ख दीवुदहि, तत्थ तावइय पंतीओ ॥ वुड्ढी दुड्यगपंतीओ, छण्ह तइयाए होड़ सत्तण्हं । तप्परओ दुदु पंती, छगवुड्ढी तइय सगवुड्ढी ” ॥
मतान्तरं करणविभावनायामिदं स्मृतम् । लक्षार्द्धातिक्रमे पङ्क्तिराद्यामर्त्योत्तराचलात् ॥ ५१ ॥ द्विसप्ततिः शशभृतां द्विसप्ततिश्च भास्वताम् । चतुश्चत्वारिंशमाद्यपङ्क्तावेवं शतं भवेत् ॥ ५२ ॥ यावद्योजनलक्षाणि, द्वीपः पाथोनिधिश्च यः । पङ्क्तयस्तत्र तावत्यो, मतेऽत्रापि समं ह्यदः ॥ ५३ ॥ भान्विन्दोः समुदितयोस्ततः शेषासु पङ्क्तिषु । चतुष्कस्य चतुष्कस्य, वृद्धिर्लोकान्तसीमया ॥ ५४ ॥ एवं च पङ्क्तावष्टम्यां, द्वीपार्थेऽत्रेन्दुभास्वताम् । संजातं समुदितानां द्विसप्तत्यधिकं शतम् ।। ५५ ।। एवं च पुष्करार्द्धेऽस्मिन्, समुदितेन्दुभास्वताम् । शतानि द्वादश चतुःषष्टिश्च सर्वसंख्यया ॥ ५६ ॥