________________
355
ज्योतिष्करण्डकेऽप्याहुः — “धायइसंडप्पभिई, उद्दिट्ठा तिगुणिया भवे चंदा । आइल्लचंदसहिया, ते हुंति अनंतरं परओ ॥ आइच्चापि भवे, एमेव विही अणेण कायव्वा । दीवेसु समुद्देसु अ एमेव परंपरा जाण” ॥ [ श्लोक १२१, १२२]
अनन्तरं नरक्षेत्रात्सूर्यचंद्राः कथं स्थिताः । तदागमेषु गदितं, सांप्रतं नोपलभ्यते ॥ २१ ॥ केवलं चन्द्रसूर्याणां यत्प्राक्कथितमन्तरम् । तदेव सांप्रतं चन्द्रप्रज्ञप्त्यादिषु दृश्यते ॥ २२ ॥ तथोक्तं चन्द्रप्रज्ञप्तिसूत्रे जीवाभिगमसूत्रे च — “चंदाओ सूरस्स य, सूरा चंदस्स अंतरं होई । पन्नास सहस्साइं, जोअणाणं अणूणाई ॥ सूरस्स य सूस्स्स य, ससिणो ससिणो य अंतरं दि । बहियाउ माणुसनगस्स, जोयणाणं सयसहस्सं ॥ सूरंतरिया चंदा चंदंतरिया य दियरा दित्ता । चित्तंतरलेसागा, सुहलेसा मंदलेसा य" ॥
ततश्च
एषां संभाव्यते चन्द्रप्रज्ञप्त्याद्यनुसारतः । सूचीश्रेण्या स्थितिर्नैव, श्रेण्या परिरयाख्यया ॥ २३ ॥ तथोक्तं जीवाभिगमवृत्तौ सूर्यसूर्यान्तरसूत्रव्याख्याने— “ एतच्चैवमन्तरपरिमाणं सूचीश्रेण्या प्रतिपत्तव्यं, न वलयाकारश्रेण्ये" ति, संग्रहणीलघुवृत्तेरूच्ययमेवाभिप्रायः,
यथागमं भावनीयमन्यथा वा बहुश्रुतैः । श्रेयसेऽभिनिवेशोऽर्थे, न ह्यागमाविनिश्चिते ॥ २४ ॥ चन्द्रार्क पङ्क्तिविषये, नरक्षेत्राद्बहिः किल । मतान्तराणि दृश्यन्ते, भूयांसि तत्र कानिचित् ॥ २५ ॥ अनुग्रहार्थं शिष्याणां दर्श्यन्ते प्रथमं त्विदम् । दिगंबराणां तत्कर्मप्रकृत्यादिषु दर्शनात् ॥ २६ ॥ लक्षार्द्धात्तिक्रमे मर्त्योत्तरशैलादनन्तरम् । वृत्तक्षेत्रस्य विष्कम्भः, संपद्यते इयानिह ॥ २७ ॥ षट्चत्वारिंशता लक्षैर्मितोऽस्य परिधिः पुनः । कोट्येका पञ्चचत्वारिंशता लक्षैः समन्विता ॥ २८ ॥ षट्चत्वारिंशत्सहस्राः, शतैश्चतुर्भिरन्विताः । सप्तसप्तत्यभ्यधिका योजनानामुदीरिताः ॥ २९ ॥ प्रतियोजनलक्षं चैकैक्रसूर्येन्दुभावतः । प्रत्येकमप्याल्यां पञ्चचत्वारिंशं शतं तयोः ॥ ३० ॥ पूर्वोक्तपरिधौ कोटेर्लक्षेभ्यश्चाधिकस्य तु । विभक्तम्य नक्त्याढ्यद्विशत्या शशिभास्करैः ॥ ३१ ॥ लब्धे क्षिप्ते चन्द्रसूर्यान्तरेषु स्यात्तदन्तरम् । लक्षार्द्धं किञ्चिदधिकषष्टियुक्तशताधिकम् ॥ ३२ ॥ लक्षान्तरे द्वितीयैवं, कान्तखीमया । योजनलक्षान्तरात्ताः स्युः सर्वा अपि पङ्क्तयः ॥ ३३ ॥
तथा
यावल्लक्षप्रमाणो यो, दीपो वाऽप्यथवाऽम्बुधिः । स्युस्तावत्यः परिरयश्रेण्यस्तत्रेन्दुभास्वताम् ॥ ३४ ॥ वृद्धिः पङ्क्तौ द्वितीयस्यामाद्यफङ्क्तेरनन्तरम् । षण्णां प्रत्येक्रमर्काणामिन्दूनां च निरुपिता ॥ ३५ ॥ तृतीयस्यां तु सप्तानां वृद्धिः षण्णां ततो दयोः । पुनः पङ्क्तौ तृतीयस्यां सप्तानां वृद्धिरेव हि ॥ ३६ ॥