SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 354 तथाहर्जम्बूद्वीपप्रज्ञप्तिसूत्रे—'बहिया णं भंते ! माणुसुत्तस्स्स पव्वयस्स जे चंदिम जाव तारारुवा तं चेण णेयब्वं, णाणत्तं णो, विमाणोचवण्णगा णो, चारोववण्णगा णो, चारहिइया णो, गइरइया, पक्किट्ठगसंठाणसंठिएहिं जोअणसयसाहस्सिएहिं तावखित्तेहिं जाव ओभासंति.' इत्यमेतज्जीवाभिगमसूत्रवत्त्योरपि, जम्बूदीपप्रज्ञप्तिवृत्तौ त्वेतदेवं भावितं, तथाहि-"इयमत्र भावना-मानुषोत्तरपर्वतायोजनलक्षातिक्रमे करणविभावनोक्तकरणानुसारेण प्रथमा चन्द्रसूर्यपङ्क्तिः, ततो योजनलक्षातिक्रमे द्वितीया पङ्किः तेन प्रश्चमपतिमतचन्द्रसूर्याणामेतायास्तापक्षेत्रस्यायामः विस्तास्थ एकसूर्यादपरसूर्यो लक्षयोजनातिक्रमे तेन लक्षयोजनप्रमाणः, इयं च भावना प्रथमपक्त्यपेक्षया बोद्धव्या, एवमग्रेऽपि भाव्यमित्यादि.” एवं चात्र पूर्वोक्तं द्विविधमन्तरं कथं संगच्छते ? तथाऽऽतपक्षेत्रं भिन्नमतेन अन्तरं च भिन्नमतेन, तदपि कथं युक्तमित्यादि बहुश्रुतेभ्यो भावनीयं ॥ अस्मिन्नद्धे संख्ययाऽर्काश्चन्द्राश्च स्युर्दिसप्ततिः । द्वीपे संपूर्णेऽत्र चतुश्चत्वारिंशं शतं हि ते ॥१३॥ तथाहिकालोदवाड़ेरारभ्य, संख्यां शीतोष्णरोचिषाम् । निश्चेतुमेतत्करणं, पूर्वाचार्यः प्ररुपितम् ॥१४॥ विवक्षितदीपवाद्धौ, ये स्युः शीतोष्णरोचिषः । त्रिजास्ते प्राक्तनैर्जम्बूदीपादिद्वीपवाद्धिगैः ॥ १५ ॥ सूर्येन्दुभिर्मीलिताः स्युर्यावन्तः शशिभास्कराः । अनन्तरानन्तरे स्युर्डीपे तावन्त एव ते ॥ १६ ॥ चतुश्चत्वारिंशमेवं, शतं स्युः पुष्करेऽखिले । दयोस्तदर्द्धयोस्तस्माद, द्विसप्ततिदिसप्ततिः ॥ १७ ॥ एवं शेषेष्वपि दीपवाद्धिविन्दुविवस्वताम् । अनेनैव करणेन, कार्य: संख्याविनिश्चयः ॥ १८ ॥ यतो मूलसंग्रहण्यां, तथा क्षेत्रसमासके । सर्वद्वीपोदधिगतार्केन्दुसंख्याभिधायकम् ॥ १९ ॥ करणं ह्येतदेवोक्तं, जिनभद्रगणीश्वरैः । न चोक्तमपरं किञ्चित्करुणावरुणालयैः ॥ २० ॥ तथा च मूलसंग्रहणीटीकायां हरिभद्रसूरिः- "एवंऽणंतराणंतरे खित्ते पुक्खरदीवे चोयालं चंदसयं हवइ, एवं शेषेष्वप्यमुनोपायेन चन्द्रादिसंख्या विज्ञेयेति” युक्ता चेयं व्याख्या, चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्ती जीवाभिगमे च सकलपुष्करवरदीपमाश्रित्येत्थमेव चन्द्रादिसंख्याभिधानात्, तथाहि तद्ग्रंथ:-"पुक्खरखरदीवे णं भंते !" दीवे केवड्या चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा ?, गो० ! चोयालं चंदसयं पभासिंसु या पभासंति वा पभासिस्संति वा चोयालं सूरियाण सयं तविंसु वा तवंति वा तविस्संति वा.” इत्यादि. तथा तस्मिन्नेवार्थ सूर्यप्रज्ञप्तौ संग्रहणी गाथा:- “चोयालं चंदसयं, चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे, चरंति एए पगासंता ॥ चत्तारि सहस्साई, बत्तीसं चेव होति नक्खत्ता । छच्च सया बावत्तर, महागहा बास्स सहस्सा ॥ छन्वउइ सयसहस्सा, चोयालीसं भवे सहस्साई। चत्तारिं च सयाई, तारागणकोडिकोडीणं" ॥ १. शशिशशिनो रविरव्योश्चान्तरं लक्षं परस्परं चालतं यदुक्तं तन्नासंगतं, पङ्क्तयोश्च लक्षान्तरितत्वान्नातपान्तरयोभिन्नमतत्वं ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy