SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 352 अधोलोकेऽपि भवनाधीशानां सप्तकोटयः । लक्षा द्विसप्ततिश्चोक्ता, भवनानां पुराऽत्र याः ।। २९२ ।। प्रत्येकं चैत्यमेकैकं, तत्रेति सप्त कोटयः । लक्षा द्विसप्ततिश्चाधोलोके चैत्यानि संख्यया ।। २९३ ॥ त्रयोदश कोटिशतान्येकोननवतिं तथा । कोटी: षष्टिं च लक्षाणि, तत्रार्चानां स्मराम्यहम् ॥ २९४ ॥ ऊर्ध्वलोकेऽपि सौधर्मात्प्रभृत्यनुत्तरावधि । विमानसंख्या चतुरशीतिर्लक्षाणि वक्ष्यते ॥ २९५ ।। सहस्राः सप्तनवतिस्त्रयोविंशतिरेव च । तावन्त्येवात्र चैत्यानि, प्रत्येकमेकयोगतः ॥ २९६ ।। एकं कोटिशतं पूर्णं, द्विपञ्चाशच्च कोटयः । लक्षैश्चतुर्नवत्याढ्याः, सहसैरपि संयुताः ॥ २९७ ॥ चतुश्चत्वारिंशतैव, षष्ट्याढ्यैः सप्तभिः शतैः । अर्चयामो जिनार्चानामूर्द्ध्वलोके सुरार्चिताः ॥ २९८ ॥ लक्षाणि सप्तपञ्चाशदित्येवमष्ट कोटयः । त्रैलोक्ये नित्यचैत्यानां सद्व्यशीति शतद्वयम् ।। २९९ ।। कोटीशतानीह पञ्चदशोपरि च कोटयः । द्विचत्वारिंशदेवाष्टपञ्चाशल्लक्षसंयुताः ॥ ३०० ॥ सहस्राणि च षट्त्रिंशत्साशीतीनि जगत्त्रये । नौमि नित्यजिनार्चानां, करवै सफलं जनुः ॥ ३०१ ॥ उत्सेधाङ्गुलनिष्पन्नसप्तहस्तमिताः खलु । शाश्वत्यः प्रतिमा जैन्य, ऊर्ध्वाधोलोकयोर्मताः ॥ ३०२ ॥ तिर्यग्लोके तु निखिलास्ताः पञ्चभिर्धनुः शतैः । मिता निरूपितास्तत्त्वपरिच्छेदपयोधिभिः ॥ ३०३ ॥ तथाहु: “उस्सेहमंगुलेणं अहउड्ढमसेससत्तरयणीओ । तिरिलोए पणधणुसय सासयपडिमा पणिवयामि” ॥ राजप्रश्नीयोपाङ्गवृत्तौ सूर्याभविमाने तु - 'जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ' अस्य व्याख्याने जिनोत्सेधप्रमाणमात्रा:, जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानि, जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यंते इत्युक्तमिति ज्ञेयं । वैमानिकविमानेषु, द्वीपे नन्दीश्वरेऽपि च । कुण्डले रुचकद्वीपे प्रासादा ये स्युरर्हताम् ॥ ३०४ ॥ योजनानां शतं दीर्घाः, पञ्चाशतं च विस्तृताः । उत्तुङ्गाः कथिताः प्राज्ञैर्योजनानां द्विसप्ततिम् ॥ ३०५ ॥ देवकुरुत्तरकुरुसुमेरुकाननेषु च 1 वक्षस्कारभूधरेषु, गजदन्ताचलेष्वपि ॥ ३०६ ॥ इषुकाराद्रिषु वर्षधरेषु मानुषोत्तरे । असुराणां निवासेषु ये प्रागुक्ता जिनालयाः ॥ ३०७ ॥ पञ्चाशतं योजनानि, दीर्घास्तदर्द्धविस्तृताः । षट्त्रिंशतं योजनानि, ते चोत्तुङ्गाः प्रकीर्त्तिताः ॥ ३०८ ॥ नागादीनां निकायानां, नवानां भवनेषु ये । जिनालया योजनानां दीर्घास्ते पञ्चविंशतिम् ॥ ३०९ ॥ तानि द्वादश सार्द्धानि, पृथवोऽष्टादशोच्छ्रिताः । त्रिधाप्येतदर्द्धमाना, व्यन्तराणां जिनालयाः || ३१० ॥ ज्योतिष्कगतचैत्यानां, न मानमुपलभ्यते । प्रायः क्वाप्यागमे तस्मादस्माभिरपि नोदितम् ॥ ३११ ॥ येऽथ मेरुचूलिकासु, तथैव यमकाद्रिषु । काञ्चनाद्रिदीर्घवृत्तवैताढ्येषु हूदेषु च ॥ ३१२ ॥ १ शिष्यते विशिष्यते इति शेषा उत्कृष्टा न तथा अशेषा इति व्याख्याने न विरोधः, तिर्यग्लोके तु एक एव पक्षः पञ्चधनुः शतात्मकः । -
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy