________________
351
उपपाताभिषेकाख्ये, अलङ्कारसभापि च । व्यवसायसुधर्माख्ये, भान्ति पञ्चाप्यमूः सभाः ॥ २६६ ॥ द्वारैस्त्रिभिस्त्रिभिरि, द्वारेऽर्चाभिश्चतसृभिः । भाति स्तूपः प्रतिसभं, द्वादश द्वादशेति ताः ॥ २६७ ॥ षष्टिः पञ्चानां सभानामिति प्रतिसुरालयम् । प्राग्वदिशं शतं चैत्ये, इत्यशीतियुतं शतम् ॥ २६८ ॥ एवमाद्धादशस्वगं, साशीतिप्रतिमाशतम् । प्रैवेयकादिषु शतं, विंशं चानुत्तरावधि ॥ २६९ ॥ अथ प्रकृतंपञ्चानामिति मेरुणां, पञ्चाशीतिर्जिनालया: । जिनार्चानां सहस्राणि, दशोपरि शतद्वयम् ॥ २७० ॥ शेषेषु सर्वगिरिषु, स्यादेकैको जिनालयः । सहस्रं ते चतुश्चत्वारिंशैस्त्रिभिः शतैर्युतम् ॥ २७१ ॥ सहजैरेकषष्ट्याढयं, लक्षमेकं शतद्वयम् । अशीत्याभ्यधिकं चात्र, जिनार्चाः प्रणिदध्महे ॥ २७२ ॥ यानि दिग्गजकूटानि, चत्वारिंशदिहोचिरे । तेष्वेकैकं चैत्यमष्टचत्वारिंशच्छतानि च ॥ २७३ ॥ अस्तित्र नमस्कुर्मा, भवेच्चैत्यमथैककम् । दशस्वपि कुरुष्व शतानि द्वादशात्र च ॥ २७४ ॥ जम्बूप्रभूतयो येऽत्र, महावृक्षा दशोदिता: । शतं सप्तदशं तेषु, प्रत्येकं स्युर्जिनालया: ॥ २७५ ॥ एकस्तत्र मुख्यवृक्षे, शतमष्टाधिकं पुनः । अष्टाधिके वृक्षशते, तत्परिक्षेपवर्तिनि ॥२७६ ॥ तद्दिग्विदिग्वतिकूटेष्वेकैक इति मीलिताः । एकादशशती सप्तत्याढ्या वृक्षजिनालयाः ॥ २७७ ॥ लक्षमेकं सहस्राणि, चत्वारिंशदथोपरि । चतुःशी जिनार्चानां, वृक्षेषु दशसु स्तुवे ॥ २७८ ॥ चतुःशतीह कुण्डाना, या पञ्चाशा निरुपिता । तत्र प्रासाद एकैकः, प्रतिमास्तत्र चाहताम् ॥ २७९ ॥ चतुष्पञ्चाशत्सहसमिता नमस्करोम्यहम् । प्राक्तनैस्त्वत्र कुण्डानां, साशीतिस्त्रिशतीरिता ॥ २८० ॥ पृथग्महानदीचैत्यसप्ततिश्च मया पुनः । महानदीष्वपि कुण्डेष्वेव प्रासादसंभवः ॥ २८१ ॥ इत्थं संभाव्य पञ्चाशा, चतुःशती यदीरिता । कुण्डचैत्यानां तदत्र, नदीचैत्यविवक्षया ॥ २८२ ॥ यदि चान्यत्र कुण्डेभ्यो, नदीषु चैत्यसंभवः । तदा वृद्धोक्तिरेवास्तु, प्रमाणं नाग्रहो मम ॥ २८३ ॥ अशीतिर्हदचैत्यानि, प्रत्येकमेकयोगतः । अर्चा नव सहस्राणि, तेषु वन्दे शतानि षट् ॥ २८४ ॥ एवं मनुष्यक्षेत्रेऽस्मिश्चैत्यानां सर्वसंख्यया । शतानि सैकोनाशीतीन्येकत्रिंशद्भवन्ति हि ॥ २८५ ॥ लक्षास्तिस्रो जिनार्चानां तथैकाशीतिमेषु च । सहस्राणि नमस्यामि, साशीतिं च चतुःशतीम् ॥ २८६ ॥ नरक्षेत्रात्तु परतश्चत्वारि मानुषोत्तरे । नन्दीश्चरेऽष्टषष्टिश्च, रुचके कुण्डलेऽपि च ॥ २८७ ॥ चत्वारि चत्वारि चैत्यान्यशीतिरेवमत्र च । सहस्राणि नवार्चानां, चत्वारिंशाष्टशत्यपि ॥ २८८ ॥ एवं च तिर्यग्लोकेम्मिश्चैत्यानां सर्वसंख्यया । सहस्राणि त्रीणि शतद्वयी चैकोनषष्टियुक् ॥ २८९ ॥ सहस्राण्येकनवति, लक्षास्तिस्रः शतत्रयम् । विंशमत्र जिना नां, तिर्यग्लोके नमाम्यहम् ॥ २९० ॥ ज्योतिष्काणां व्यन्तराणामसंख्येयेष्वसंख्यश: । विमानेषु नगरेषु, चैत्यान्यर्चाश्च संस्तुवे ॥ २९१ ॥