________________
350
पञ्चाक्षैकाक्षरत्नानां, चत्वारिंशं शतं भवेत् । जघन्येनोत्कर्षतश्च सपञ्चाशं सहस्रकम् ॥ २४१ ॥ शतं सप्तत्या समेतं, चक्रिजेतव्यभूमयः । भरताद्या दशक्षेत्री, विजया: षष्टियुक् शतम् ॥ २४२ ॥ आभियोगिकविद्याभृच्छ्रेणीनां सर्वसंख्यया । साशीतीनि षट् शतानि, विद्याभृतां पुराणि च ॥ २४३ ॥ अष्टादश सहस्राणि, शतानि सप्त चोपरि । अयोध्यादिराजधान्यः, शतं सप्ततिसंयुतम् ॥ २४४ ॥ ढे पङ्क्ती इह चन्द्राणां, द्वे च पती विवस्वताम् । एकैकान्तरिता एवं, चतन इह पयः ॥ २४५ ॥ प्रतिपति च षट्षष्टिसंख्याका: शशिभास्कराः । सूचीश्रेण्या स्थिता जम्बूद्वीपेन्दुरविभिः समम् ॥ २४६ ॥ एवं पङ्क्त्यश्चतस्रोऽपि, पर्यटन्ति दीवानिशम् । मृगयन्त्य इवाशेषवञ्चकं कालतस्करम् ॥ २४७ ॥ द्वात्रिंशं शतमित्येवं, नरक्षेत्रे हिमांशवः । द्वात्रिंशं शतमाश्च, शोभन्तेऽदभ्रतेजसः ॥ २४८ ॥ नक्षत्राणां पतयश्च, षट्पञ्चाशद्भवेदिह । प्रतिपङ्क्ति च षट्षष्टिः, षट्षष्टिः स्युरुडून्यपि ॥ २४९ ॥ जम्बूदीपस्थतत्तद्भः, पङ्क्त्या चरन्त्यमून्यपि । जम्बूद्वीपग्रहैः पङ्क्त्या , चरन्त्येवं ग्रहा अपि ॥ २५० ॥ ग्रहाणां पतयश्चात्र, षट्सप्तत्यधिकं शतम् । प्रतिपति च षट्षष्टिः, षट्षष्टिः स्युहा अपि ।। २५१ ।। एवं चभानां शतानि षट्त्रिंशत्, षण्णवत्यधिकान्यथ । एकादश ग्रहसहस्रा: शता: षोडशाश्च षट् ॥ २५२ ॥ स्युस्तारा: कोटिकोट्योऽत्राष्टाशीत्या लक्षकैर्मिता: । सहस्रैरपि चत्वारिंशता शतैश्च सप्तभिः ॥ २५३ ॥ अथात्र यानि चैत्यानि, शाश्वतान्यथ तेषु याः । अर्हतां प्रतिमा वन्दे, ता: संख्याय श्रुतोदिताः ॥ २५४ ॥ शतास्त्रयोदशैकोनपञ्चाशा ये पुरोदिताः । गिरिणां तेषु ये पञ्च, मेरव: प्राग्निरूपिताः ॥ २५५ ॥ मेरौ मेरौ काननेषु, चतुर्पु दिक्चतुष्टये । चैत्यमेकैकमेकं च, मूर्जि सप्तदशेति च ॥ २५६ ॥ प्रतिमा: प्रतिचैत्यं च, विंशं शतमिहोदिता: । त्रिद्धारेषु हि चैत्येषु, भवन्तीयत्य एव ताः ॥ २५७ ॥ प्रतिद्धारं शाश्वतेषु, यच्चैत्येष्वखिलेष्वपि । स्युः षट् षट् स्थानानि तथा, ह्येकः स्यान्मुखमण्डपः ॥ २५८ ।। ततो रङ्गमण्डप: स्यात्पीठं मणिमयं ततः । स्तूपस्तदुपरि चतुःप्रतिमालङ्कृतोऽभितः ॥ २५९ ॥ ततोऽशोकतरोः पीठं, पीठं केतोस्ततः परम् । ततोऽप्यग्रे भवेदापी, स्वर्वापीवामलोदका ॥ २६० ॥ एवं त्रयाणां दाराणां, प्रतिमा द्वादशाभवन् । अष्टोत्तरं शतं गर्भगृहे विंशं शतं ततः ॥ २६१ ॥ चतुर्द्धाराणां च तेषामर्चा द्वारेषु षोडश । गर्भालये साष्टशतं, चतुर्विंशं शतं ततः ॥ २६२ ॥ नन्दीश्वरे द्विपञ्चाशत्कुण्डले रुचकेऽपि च । चत्वारि चत्वारि षष्टरित्येवं सर्वसंख्यया ॥ २६३ ॥ चतुर्दाराणि चैत्यानि, शेषाणि तु जगत्त्रये । त्रिद्धाराण्येव चैत्यानि, विज्ञेयान्यखिलान्यपि ॥ २६४ ॥ ज्योतिष्कभवनाधीशव्यन्तरावसथेषु च । सभार्चाभिस्सहैषु स्यात्साशीति प्रतिमाशतम् ॥ २६५ ॥ तच्चैवं