________________
349
उत्कर्षतो जिना अत्र, स्युः सप्तत्यधिकं शतम् । ते द्वितीयार्हतः काले, विहरन्तोऽभवन्निह ॥ २२६ ॥ केवलज्ञानिनामेवमुत्कर्षान्नव कोटयः । नव कोटिसहस्राणि, तथोत्कर्षण साधवः ॥ २२७ ॥ जघन्यतो विंशतिः स्युर्भगवन्तोऽधुनापि ते । विदेहेष्वेव चत्वारश्चत्वारो विहरन्ति हि ॥ २२८ ॥
ते चामी-सीमंधरं १ स्तौमि युगंधरं २ च, बाहुं ३ सुबाहुं ४ च सुजातदेवम् ५ । स्वयंप्रभं ६ श्रीवृषभाननाख्य ७ मनन्तवीर्यं ८ च विशालनाथम् ९ ॥ २२९ ॥
सूरप्रभं १० वज्रधरं ११ च चंद्राननं १२ नमामि प्रभुभद्रबाहुम् १३ ।
भुजङ्ग १४ नेमिप्रभ १५ तीर्थनाथावथेश्वरं १६ श्री जिनवीरसेनम् १७ ॥ २३० ॥ स्तवीमि च महाभद्रं १८, श्रीदेवयशसं १९ तथा । अर्हन्तमजितवीर्यं २०, वन्दे विंशतिमहताम् ॥ २३१ ॥ पञ्चस्वपि विदेहेषु, पूर्वापरार्द्धयोः किल । एकैकस्य विहरतः, संभवाज्जगदीशितुः ॥ २३२ ॥ दशैव विहरन्तः स्युर्जघन्येन जिनेश्वराः । इत्यूचुः सूरयः केचित्, तत्त्वं वेत्ति त्रिकालवित् ॥ २३३ ॥ तथोक्तं प्रवचनसारोद्धारसूत्रे–'सत्तरिसयमुक्कोसं जहन्न वीसा य दस य विहरंति' इति, [श्लोक ३२७] उक्ताज्जघन्यादूनास्तु, विहरन्तो भवन्ति न । ततोऽन्येऽपि यथास्थानं, स्युर्गार्हस्थ्याद्यवस्थया ॥ २३४ ॥ कोटिद्वयं केवलिनो, द्वे च कोटिसहस्रके । साधवः स्युर्जघन्येन, न्यूना इतो भवन्ति न ॥ २३५ ॥ योकः केवली तेभ्यः, सिद्धयेत्साधुर्दिवं व्रजेत् । तदाऽवश्यं भवेदन्यः, केवली प्रव्रजेत्परः ॥ २३६ ॥ चक्रिशार्डिशीरिणां च, शतं पञ्चाशताधिकम् । उत्कर्षतो जघन्येन, ते भवन्तीह विंशतिः ॥ २३७ ॥ तथोक्तं—प्रवचनसारोद्धारे“उक्कोसेणं चक्की सयं दिवड्ढं च कम्मभूमीसुं । वीसं जहन्नभावे के सवसंखावि एमेव” ॥
जम्बूदीपप्रज्ञप्त्या अप्ययमेवाभिप्रायः, श्रीसमवाया) तु-“धायईसंडे णं दीवे अडसटिं चक्विविजया य अडसटुिं रायहाणीओ, तत्थ णं उक्कोसपए अडसटुिं अरहंता समुप्पजिसु वा ३, एवं चक्कवट्टी समुप्पञ्जिसु वा ३, एवं बलदेवा वासुदेवा समु०, पुखरदीवड्ढेणं अडसट्टि
विजया, एवं अरिहंता समु० जाव वासुदेवा,” इत्युक्तमिति ज्ञेयं । स्यान्निधीनां पञ्चदशशती त्रिंशात्र सत्तया । जघन्यतश्चक्रिभोग्यं, तेषां शतमशीतियुक् ॥ २३८ ॥ उत्कर्षतश्चक्रिभोग्यनिधीनां पुनरेकदा । पञ्चाशताधिकानीह, स्युः शतानि त्रयोदश ॥ २३९ ॥ उत्कर्षतोऽत्र रत्नानां, स्युः शतान्येकविंशतिः । जघन्यतः पुनस्तेषां, द्विशत्यशीतिसंयुता ॥ २४० ॥
१ भिन्न कालापक्षेयैतत, प्राक्तनं त्वेककालपेक्षमिति न विरुद्धता, मूलागम एव विदेहेषु चक्रिकालासंभविवासुदेवचतुष्कोक्तेः ।