________________
345
एषु क्षेत्रेषु पूर्वार्द्धान्नद्यो याः पूर्वसंमुखाः । ता मानुषोत्तरं यान्ति, कालोदं पश्चिमामुखाः ॥ १३० ॥ पश्चिमार्द्धात्तु कालोदं, प्रयान्ति पूर्वसंमुखा: । पश्चिमाभिमुखास्तास्तु, प्रयान्ति मानुषोत्तरम् ।। १३१ ॥ मध्ये क्षेत्रं विदेहाख्यं, नीलवन्निषधागयोः । एकैकं मेरुणोपेतं, भाति पूर्वापरार्द्धयोः ॥ १३२ ॥ अष्टाचत्वारिंशदंशान्, लक्षाः षड्विंशतिं मुखे । योजनान्येकषष्टिं सहस्रान् साष्टशतं ततम् ॥ १३३ ॥ तथा लक्षाश्चतुस्त्रिंशद्योजनानां समन्विताः । चतुर्विंशत्या सहस्रैरष्टाविंशं शताष्टकम् ॥ १३४ ॥ षोडशांशाश्च विस्तीर्णं, मध्ये तस्य च विस्तृतिः । लक्षाण्यथैकचत्वारिंशदष्टाशीतिरेव च ।। १३५ ॥ सहस्राणि सप्तचत्वारिंशा पञ्चशती तथा । योजनानामंशशतं, षण्णवत्या समन्वितम् ॥ १३६ ॥ सहस्राणि योजनानामेकोनविंशतिस्तथा । सचतुर्नवतिः सप्तशती क्रोशस्तथोपरि ॥ १३७ ॥ विष्कम्भः प्रतिविजयं, प्रत्येकमर्द्धयोर्द्धयोः । योजनानां द्वे सहस्रे, वक्षस्काराद्रि विस्तृतिः ॥ १३८ ॥ प्रत्येकमन्तर्नद्यश्च, शतानि पञ्च विस्तृता: । स्वरुपं सर्वमत्रान्यद्धातकीखण्डवद्भवेत् ॥ १३९ ॥ अष्टानां वनमुखानां विस्तृतिः स्याल्लघीयसी । एकोनविंशतिभवाश्चत्वारो योजनांशकाः ॥ १४० ॥ एकादश सहस्राणि, योजनानां शतानि षट् । साष्टाशीतीनि चैतेषां विस्तृतिः स्याद्गरीयसी ॥ १४१ ॥ उपवर्षधरं गुर्वी, लघ्वी च सरिदन्तिके । तेषां चतुर्णां कालोदबहिर्भागस्पृशां भवेत् ॥ १४२ ॥ चतुर्णां तु नरनगासन्नानां विस्तृतिर्गुरुः । शीताशीतोदान्तिकेऽन्या, नीलवन्निषधान्तिके ॥ १४३ ॥ पूर्वापरं भद्रसालवनायामः समन्वितः । मेरुविष्कम्भेण सह, गर्भभागात्मको भवेत् ॥ १४४॥ चत्वारिंशत्सहस्राणि लक्षाश्चतस एव च । योजनानां नवशती, निर्दिष्टा षोडशोत्तरा ॥ १४५ ॥ षोडशानां विजयानां व्याससंकलना त्वियम् । तिस्रो लक्षा योजनानां, सहस्राणि च षोडश ॥ १४६ ॥ सप्तशत्यष्टोत्तराऽथ, वक्षस्कारमहीभृताम् । अष्टानां तत्संकलना, स्युः सहस्राणि षोडश ॥ १४७ ॥ षण्णामन्तर्नदीनां तु, व्याससङ्कलना भवेत् । सहस्राणि त्रीणि वनमुखयोरुभयोस्त्वियम् ॥ १४८ ॥ षट्सप्ततिस्पृक् त्रिशती, सहस्रास्त्र्यक्षि संमिताः । द्वीपव्यासोऽष्ट लक्षाणि, सर्वसंकलने भवेत् ॥ १४९ ॥ अत्रापीष्टान्यविष्कम्भवर्जितद्वीपविस्तृतेः । स्वस्वसङ्ख्याविभक्ताया, लभ्यतेऽभीष्टविस्तृतिः ॥ १५० ॥ भावना धातकीखण्डवत् ।
महाविदेहविष्कम्भे, यथेष्टस्थानगोचरे । शीताशीतोदान्यतरव्यासहीनेऽर्द्धिते सति ।। १५१ ।। विजयांतर्नदीवक्षस्कारान्तिमवनायतिः । ज्ञायते सा तत्र तत्र, स्थाने भाव्या स्वयं बुधैः ॥ १५२ ॥ अथ देवकुरुणां यः, प्राच्यां सौमनसो गिरिः । तथोत्तरकुरूणां यः, पूर्वस्यां माल्यवानिमौ ॥ १५३ ॥ त्रिचत्वारिंशत्सहस्रान्, लक्षा विंशतिमायतौ । एकोनविंशां द्विशर्ती, योजनानामुभावपि ॥ १५४ ॥ देवोत्तरकुरुभ्यश्च प्रतीच्यां यौ व्यवस्थितौ । विद्युत्प्रभगिरिर्गन्धमादनश्चायतावुभौ ।। १५५ ।।