________________
344
विष्कम्भायामत: कुण्डान्येतासां जगदुर्जिना: । षष्ट्याढ्यानि योजनानां, शतानीह नव श्रुते ॥ १०३ ॥ अष्टाविंशं शतं दीपाश्चैतासां विस्तृतायता: । जिहिका विस्तृतोद्धिद्धाश्चासां मूलप्रवाहवत् ॥ १०४ ॥ शैलात्ततः परं क्षेत्रं, हरिवर्षं विराजते । तद्गन्धापातिवैताढ्येनाञ्चितं विस्तृतं मुख्ने ॥ १०५ ॥ लक्षाणि षड् योजनानां, पञ्चषष्टिं सहस्रकान् । द्धे शते सप्तसप्तत्याऽधिके द्वादश चांशकान् ॥ १०६ ॥ अष्टौ लक्षाः सहस्राणि, षट्पञ्चाशच्छतद्वयम् । सप्तोत्तरं योजनानां, मध्येऽशाश्चतुरस्ततम् ॥ १०७ ॥ सहनैः सप्तचत्वारिंशताढ्या दशलक्षिका: । षट्त्रिंशं च योजनानां, शतमंशशतद्वयम् ॥ १०८ ॥ अष्टाढ्यं विस्तीर्णमन्ते, स्वरुपमपरं पुन: । जम्बूद्धीपहरिवर्षवदिहापि विभाव्यताम् ॥ १०९ ॥ इतः परश्च निषधः, पर्वत: सर्वतः स्फुरन् । हूदेनालङ्कृतो मूर्जि, सदब्जेन तिगिञ्छिना ॥ ११० ॥ सप्तषष्टिं सहस्राणि, साष्टषष्टि शतत्रयम् । योजनानां लवान् द्वात्रिंशतं स्यादेष विस्तृतः ॥ १११ ॥ तिगिञ्छिस्तु योजनानां, सहस्राण्यष्ट विस्तृतः । सहस्राणि षोडशेष, भवेदायामत: पुन: ॥ ११२ ॥ एतस्याद्धरिसलिला, शीतोदेति निरीयतुः । दक्षिणस्यामुदीच्यां च, पर्वतोपर्यमू उभे ॥ ११३ ॥ एकोनत्रिंशतं गत्वा, सहस्रान् षट् शतानि च । योजनानां सचतुरशीतीन् षोडश चांशकान् ॥ ११४ ॥ पततः स्वस्वकुण्डान्तहरिवर्षान्तराध्वना । पूर्वार्द्धाद्धरिसलिला, प्राप्नोति मानुषोत्तरम् ॥ ११५ ॥ पश्चिमार्द्धगता सा तु, कालोदमुपसर्पति । सर्वासां दिग्विनिमय, एवं पूर्वापरार्द्धयोः ॥ ११६ ॥ पूर्वार्द्धशीतोदा प्रत्यग्विदेहार्द्धविभेदिनी । कालोदमन्यार्द्धस्था तु, प्राप्नोति मानुषोत्तरम् ॥ ११७ ॥ एताश्चतस्रो विस्तीर्णा, द्वे शते हुदनिर्गमे । चत्वार्युण्डा योजनानि, प्रान्ते दशगुणास्ततः ॥ ११८ ॥ विस्तीर्णान्यायतान्यासां, कुण्डानि च चतसृणाम् । सविंशानि योजनानां, शतान्येकोनविंशतिम् ॥ ११९ ॥ एतत्कुण्डान्तर्गताच, दीपा: प्रोक्ता महर्षिभिः । षट्पञ्चाशे योजनानां, द्वे शते विस्तृतायताः ॥ १२० ॥ सर्व कुण्डगता द्वीपाः, क्रोशद्धयोच्छ्रिता इति । तैर्जम्बूद्वीपगैस्तुल्या, उच्छ्रयेण नगा इव ॥ १२१ ॥ यथेदमद्धं व्याख्यातं, याम्यं पूर्वापरार्द्धयोः । तथा ज्ञेयमुदीच्यार्द्धमपि मानस्वरुपतः ॥ १२२ ॥ किन्तूदीच्येषुकाराद्रेः, परत: पार्श्वयोर्द्धयोः । स्यादेकैकमैरवतक्षेत्रं भरतसन्निभम् ॥ १२३ ॥ पुण्डरीकहूदोपेतस्ततश्च शिखरी गिरिः । तस्माद्रक्ता रक्तवती, स्वर्णकूला विनिर्ययुः ॥ १२४ ॥ तत्रादिमे द्वे सरितौ, क्षेत्रमैरवतं गते । जगाम हैरण्यवतं, स्वर्णकूला तु वाहिनी ॥ १२५ ॥ ततश्च हैरण्यवतं, विकटापातिनाऽडितम् । ततो महापुण्डरीकहूदवान् रुक्मिपर्वतः ॥ १२६ ॥ एतद्भवा रूप्यकूला, हैरण्यवतगामिनी । रम्यकान्तर्नरकान्त, प्रयात्येतत्समुद्भवा ॥ १२७ ॥ ततोऽर्वाग् रम्यकक्षेत्रं, माल्यववृत्तभूधरम् । केसरिहदवन्नीलवन्नामा पर्वतस्ततः ॥ १२८ ॥ प्रवर्त्तते विदेहान्तः, शीतैतन्नगसम्भवा । नारीकान्ता रम्यकान्तः, प्रसर्पत्येतदुद्गता ॥ १२९ ॥