SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 346 योजनानां षोडशैव, लक्षाः षड्विंशतिं तथा । सहस्राणि शतमेकं, संपूर्णं षोडशोत्तरम् ॥ १५६ ॥ इदं मानं पुष्करार्द्धप्राचीनार्धव्यपेक्षया । पश्चिमार्द्ध विपर्यासो, धातकीखंडवत् स तु ॥ १५७ ॥ अष्टाप्येते गजदन्ता, नीलवन्निषधान्तिके । सहस्रद्वयविस्तीर्णाः, सूक्ष्माश्च मन्दरान्तिके ॥ १५८ ।। विदेहमध्यविष्कम्भान्मेरुव्यासे विशोधिते । शेषेऽर्द्धिते च विष्कम्भः, प्रत्येतव्य कुरुद्धये ॥ १५९ ।। लक्षाः सप्तदश सप्त, सहस्राणि शतानि च । चतुर्दशानि सप्तैव, योजनानां लवाष्टकम् ॥ १६० ॥ मेरुयुक्तभद्रसालायामात्प्रागुपदर्शितात् । गजदन्तद्धयहीनाच्छेषं जीवा कुरुद्धये ।। १६१ ।। लक्षाश्चतस्रः षट्त्रिंशत्, सहस्राणि शतानि च । नवैव षोडशाढ्यानि, योजनानीति तन्मितिः ॥ १६२ ॥ आयाममानयोः प्राच्यप्रतीच्यगजदन्तयोः । योगे भवेद्धनुः पृष्ठं, कुरुदय इदं तु तत् ॥ १६३ ॥ लक्षाः षट्त्रिंशदेकोनसप्ततिश्च सहस्रका: । शतत्रयं योजनानां पञ्चत्रिंशत्समन्वितम् ॥ १६४ ॥ धातकीखण्डवदिहाप्यग्रतो नीलवगिरेः । यमकावुदक्कुरुषु, सहस्रं विस्तृतायतौ ॥ १६५ ॥ ततः परं हूदाः पञ्च, स्युर्दक्षिणोत्तरायताः । सहस्रांश्चतुरो दीर्घा, द्वे सहस्रे च विस्तृताः ॥ १६६ ॥ नीलवतो यमकयोस्ताभ्यामाद्यहूदस्य च । मिथो हूदानां क्षेत्रान्तसीम्नश्च पञ्चमहूदात् ॥ १६७ ॥ सप्ताप्येतान्यन्तराणि, तुल्यान्यैकैकं पुनः । लक्षद्वयं योजनानां चत्वारिंशत्सहस्रकाः ।। १६८ ।। शतानि नव सैकोनषष्टीनि योजनस्य च । सप्तक्षुण्णस्यैकभागस्तत्रोपपत्तिरुच्यते ।। १६९ ।। दैर्घ्यं हूदानां पञ्चानां यत्सहस्राणि विंशतिः । सहस्रयमकव्यासयुक्तं तत्कुरुविस्तृतेः ॥ १७० ॥ विशोध्यतेऽथ यच्छेषं, तत्सप्तभिर्विभज्यते । सप्तानां व्यवधानानामेवं मानं यथोदितम् ॥ १७१ ॥ उदक्कुरुषु पूर्वार्द्धे, पद्मनामा महातरुः । पश्चिमार्द्धे महापद्मस्तौ जम्बूवृक्षसोदरौ ॥ १७२ ।। पद्मनाम्नो भूमिरुहः, पद्मनामा सुरः पतिः । महापद्मस्य तु स्वामी, पुण्डरीकः सुरोत्तमः ॥ १७३ ॥ स्युर्देवकुखोऽप्येवं, किंत्वत्र निषधात्परौ । विचित्रचित्रावचलौ, ततः पञ्च हूदाः क्रमात् ॥ १७४ ॥ पूर्वार्द्ध चापरार्द्धे च स्यातां शाल्मलिनाविह । जम्बूवृक्षसधर्माणावेतावपि स्वरूपतः ॥ १७५ ॥ पुष्करार्द्धेऽथ यौ मेरू, स्यातां पूर्वापरार्द्धयोः । धातकीखण्डस्थमेरूसमानौ तौ तु सर्वथा ॥ १७६ ॥ किंत्वेतयोर्भद्रसालवनयोरायतिर्भवेत् । लक्षद्धयं पञ्चदश सहस्राणि शतानि तु ।। १७७ ।। अष्टपञ्चाशानि सप्त, पूर्वपश्चिमयोर्दिशोः । प्रत्येकं दक्षिणोदीच्योः स्याद्व्यासस्त्वयमेतयोः ॥ १७८ ॥ द्विसहसैकपञ्चाशा, योजनानां चतुःशती । अष्टाशीत्या योजनस्य, भक्तस्यांशाश्च सप्ततिः ॥ १७९ ।। उपपत्तिस्त्वत्र प्राग्वत् । शेषा त्वत्र नन्दनादिवनवक्तव्यताऽखिला । धातकीखण्डमेरुभ्यां, पुनरुक्तेति नोच्यते ॥ १८० ॥ जम्बूद्वीपो महामेरुश्चतुर्भिर्मेरुभिः श्रियम् । धत्ते तीर्थंकर इव, चतुर्भिः परमेष्ठिभिः ॥ १८१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy