________________
341
एतच्चास्मिन् विना चैत्यं, कथमौचित्यमञ्चति ? । ततोऽत्र जिनचैत्यानि, युक्तमूचुर्महर्षयः ॥ २७ ॥ एवं शाश्वतचैत्यानां, मान्यत्वं यो न मन्यते । सोऽप्यनेनैव वाक्येनोत्थातुं नेष्टे पराहतः ॥ २८ ॥ यश्चात्र चैत्यशब्दार्थ, विपर्यस्यति वातकी । तस्याप्येतच्चारणर्षिनमस्यावाक्यमौषधम् ॥ २९ ॥ न हीदृशास्तपःशक्तिलब्धैतादृशलब्धयः । विना जिनादीन् वन्दन्ते, सम्यक्त्वभ्रंशभीलुका: ॥ ३० ॥ अथ प्रकृतं—अनेन पुष्करवरदीपो द्वेधा व्यधीयत । भित्त्येव गृहमस्यार्द्धद्वयं निर्दिश्यते ततः ॥ ३१ ॥ अभ्यन्तरं पुष्कराद्धू, बाह्यं तदर्द्धमेव च । अर्वाचीनमानन्तरार्द्ध, बाह्यमर्द्ध ततः परम् ॥ ३२ ॥ मानुषोत्तरशैलस्तु, बाह्यार्द्धक्षेत्ररोधकः । इत्यान्तरार्द्ध पूर्णाष्टलक्षयोजनसंमितम् ॥ ३३ ॥
तथाहुर्ज्ञानचन्दनमलयगिरयो मलयगिरय:-“अयं च मानुषोत्तरपर्वतो बाह्यपुष्करवरार्द्धभूमौ
प्रतिपत्तव्य” इति बृहत्क्षेत्रसमासवृत्तौ ।। कोटिरेका द्विचत्वारिंशल्लक्षाणि सहस्रका: । चतुस्त्रिंशच्छतान्यष्टौ, त्रयोविंशानि चोपरि ॥ ३४ ॥ एतावद्योजनमितो, मानुषोत्तरभूभृतः । स्यान्मध्ये परिधिमौलौ, त्वस्यायं परिधिर्भवेत् ॥ ३५ ॥ कोटिरेकाऽथ लक्षाणि, द्विचत्वारिंशदेव च । द्वात्रिंशच्च सहस्राणि, द्वात्रिंशच्च शता नव ॥ ३६॥ पृथगुक्तौ परिक्षेपौ, यो मध्येऽस्य तथोपरि । बहिर्भागापेक्षया तौ, पावेऽस्याभ्यन्तरे पुनः ॥ ३७ ॥ समानभित्तिकतया, मूले मध्ये तथोपरि । तुल्य एव परिक्षेपः, सर्वत्राप्यवसीयताम् ॥ ३८ ॥ एका कोटीद्विचत्वारिंशल्लक्षाणि सहस्रका: । षट्त्रिंशच्च शताः सप्त, त्रयोदशसमन्विताः ॥ ३९ ॥ एतावन्ति योजनानि, दृष्टानि जिननायकैः । मानुषोत्तरशैलस्य, बाह्यस्य परिधेर्मितौ ॥ ४०॥ इति बृहत्क्षेत्रसमासवृत्त्यभिप्रायेण, जीवाभिगमसूत्रे ‘सत्त चोद्दसुत्तरे जोअणसए' इत्युक्तं । द्विचत्वारिंशता लक्षैरेककोटिसमन्विता । त्रिंशत्सहस्राश्चैकोनपञ्चाशा द्विशती तथा ॥४१॥ मानुषोत्तरशैलस्यैतावान् परिधिरान्तरः । एष एवाभ्यन्तरस्य, पुष्करार्द्धस्य चान्तिमः ॥ ४२ ॥ नृक्षेत्रस्यापि परिधिरेष एवावसानिकः । अथास्य पुष्करार्द्धस्य, मध्यमः परिधिस्त्वयम् ॥ ४३ ॥ एका कोटी योजनानां, लक्षा: सप्तदशोपरि । सप्तविंशत्यन्वितानि, चत्वार्येव शतानि च ॥४४॥ कालोदस्यान्त्यपरिधिर्यः पूर्वमिह दर्शितः । स एव पुष्करार्द्धस्य, भवेत्परिधिरान्तरः ॥ ४५ ॥ द्विधेदमिषुकाराभ्यां, धातकीखण्डवत्कृतम् । अभ्यन्तरे पुष्कराद्धे, तस्थिवद्भयामपागुदक् ॥ ४६॥ धातकीखण्डेषुकारसधर्माणाविमावपि । चतुष्कूटावन्त्यकूटस्थितोत्तुङ्गजिनालयौ ॥४७॥ एकेनान्तेन कालोदं, परेण मानुषोत्तरम् । स्पृष्टवन्तौ योजनानां, लक्षाण्यष्टायताविति ॥४८॥ एवमभ्यंतरं पुष्कराद्धं निर्दिश्यते द्विधा । पूर्वार्द्ध पश्चिमार्द्धं च, प्रत्येकं मेरुणाऽञ्चितम् ॥ ४९ ॥ १. किञ्चिदधिकस्य योजनभागस्य व्यवहारेण योजनतया विवक्षणाद चतुर्दशोत्तरसप्तशती अत्राख्याता स्यात ।