________________
पूर्वापरार्द्धयोरत्र, कालोदवेदिकान्ततः । पुरतः पुनरर्वाक् च, मानुषोत्तरपर्वतात् ॥ ५० ॥ सहसान्नवनवति, प्रत्येकं लक्षकत्रयम् । योजनानामतीत्यास्ति, कुण्डमेकैकमद्भुतम् ॥५१॥ अधस्ते विस्तृते स्तोकमुपर्युपर्यनुक्रमात् । विस्तीर्ण विस्तीर्णतरे, जायमाने शराववत् ॥ ५२ ॥ भुवस्तले हे सहने, विस्तीर्ण योजनान्यथ । उद्भिद्धे दश शुद्धाम्भोवीचीनिचयचारुणी ॥ ५३॥ द्वयोरप्यर्द्धयोरत्रैकैकमन्दरनिश्रया । षट् षट् वर्षधराः सप्त, सप्त क्षेत्राणि पूर्ववत् ॥५४॥ धातकीखण्डस्थवर्षधरद्विगुणविस्तृताः । भवन्त्यत्र वर्षधरा, उच्चत्वेन तु तैः समाः ॥ ५५॥ एवमत्रेषुकाराभ्यां, सह वर्षमहीभृताम् । विष्कम्भसंकलनया, नगरुद्धं भवेदियत् ॥ ५६ ॥ तिम्रो लक्षा योजनानां, पञ्चपञ्चाशदेव च । सहस्राणि चतुरशीत्यधिकानि शतानि षट् ॥ ५७ ॥ आयमध्यान्त्यपरिधौ, प्राग्वदेतेन वर्जिते । द्वादश द्विशतक्षुण्णे, कल्प्यन्ते प्राग्वदंशका: ॥ ५८ ॥ वर्षवर्षधरभागकल्पना त्वत्र धातकीखण्डवद् ज्ञेया ।। द्वादशदिशतोत्थास्ते, येऽत्रांशा योजनोपरि । क्षेत्राणामब्धिदिश्यादिरन्तश्चनृगिरेर्दिशि ॥ ५९॥ तत्र याम्येषुकारस्योभयतोऽप्यर्द्धयोर्द्धयोः । एकैकमस्ति भरतं, स्वस्वस्वर्णगिरेर्दिशि ॥६०॥ सहस्राण्येकचत्वारिंशच्छतान् पञ्च विस्तृतम् । सैकोनाशीतीन् मुखेडशशतं च सत्रिसप्ततिः ॥ ६१ ॥ त्रिपञ्चाशत्सहस्राणि, द्वादशा पञ्चशत्यपि । शतं नवनवत्याढ्यमंशाश्च मध्यविस्तृतिः ॥ ६२ ॥ पञ्चषष्टिं सहस्राणि, योजनानां चतुःशतीम् । षट्चत्वारिंशां लवांश्च, त्रयोदशान्तविस्तृतः ॥ ६३ ॥ मध्यभागेऽस्य वैताढ्यो, लक्षाण्यष्टौ स चायत: । धातकीखण्डवैताढ्यवच्छेषं त्विह भाव्यताम् ॥ ६४ ॥ अन्येऽपि दीर्घवैताढ्याः, स्युः सप्तषष्टिरीदृशाः । भरतैरवतक्षेत्रविदेहविजयोद्भवाः ॥६५॥ उत्तरार्द्धमध्यखण्डे, गाङ्गसैन्धवकुण्डयोः । मध्ये वृषभकूटोऽस्ति, जम्बूद्वीपर्षभाद्रिवत् ॥६६॥ पर्यन्तेऽस्य ततः शैलो, हिमवान्नाम वर्त्तते । आयामतोऽष्टौ लक्षाणि, विष्कम्भतो भवेदियान् ॥ ६७ ॥ योजनानां द्विचत्वारिंशच्छता दशसंयुताः । चतुश्चत्वारिंशदंशाश्चतुरशीतिनिर्मिताः ॥ ६८ ॥ तस्योपरि पद्महूदः, प्राग्वत्पद्मालिमण्डितः । सहस्रांश्चतुरो दीर्घः, सहस्रद्धयविस्तृतः ॥ ६९ ॥ गङ्गासिन्धुरोहितांशास्ततो नद्यो विनिर्ययुः । प्राच्या प्रतीच्यामुदीच्यां, क्रमात्तत्रादिमे उभे ॥ ७० ॥ हृदोद्गमे योजनानि, विस्तीर्ण पञ्चविंशतिम् । उद्विद्धे च योजनार्द्ध, समुद्रसंगमे पुनः ॥ ७१ ॥ विस्तीर्णे द्वे शते साढे, उद्भिद्धे पञ्चयोजनीम् । तत्र सिन्धुः प्राच्यपुष्करार्द्धात्कालोदमङ्गति ॥ ७२ ॥ गङ्गा तु प्राप्य पूर्वस्यां, मानुषोत्तरभूधरम् । सुमतिर्दुष्टसंसर्गादिव तत्र विलीयते ॥७३॥ पश्चिमात्पुनर्गङ्गा, याति कालोदवारिधौ । सिन्धुर्नरोत्तरनगपादमूले विलीयते ॥७४ ॥ एवं नरोत्तरनगाभिमुखाः सरितोऽखिलाः । विलीयन्त इह ततः परं तासामभावतः ॥ ७५॥