________________
340
अत्रायं संप्रदाय:ढे सहस्र चतुश्चत्वारिंशे मूले सुविस्तृतम् । शतान्यष्टाष्टचत्वारिंशानि मूर्जि च विस्तृतम् ॥ १३ ॥ एकविंशान् शतान् सप्तदशोच्चं वलयाकृतिम् । प्रकल्प्याद्रिं ततोऽस्याभ्यन्तरार्द्धऽपहते सति ॥ १४ ॥ विस्तारमधिकृत्याथ, शेषस्तिष्ठति यादृशः । तादृशोऽयं संप्रदायात्, प्रज्ञप्तो मानुषोत्तरः ॥ १५ ॥ वसन्त्यस्योर्ध्वं सुपर्णकुमारा निर्जरा बहिः । मध्ये मनुष्याश्चेत्येष, त्रिधा गिरिरलङ्कृतः ॥ १६ ॥
तथोक्तं जीवाभिगमसूत्रे—“माणुसुत्तरस्स णं पव्वयस्स अंतो मणुआ उप्पि सुवण्णा बाहिं
देवा" इति । जाम्बूनदमयश्चित्रमणिरत्नविनिर्मितैः । लतागृहैर्दीर्घिकाभिर्मण्डपैश्चैष मण्डितः ॥ १७ ॥ कूटैः षोडशभिश्चैष, समन्ताद्भात्यलङ्कृतः । नानारत्नमयै रम्यैः, प्राकारोऽट्टालकैरिव ॥ १८ ॥ त्रयं त्रयं स्यात्कूटानां, पङ्कत्या दिशां चतुष्टये । द्वादशाप्येकैकदेवाधिष्ठितानि भवन्त्यथ ॥ १९ ॥ उक्तं च स्थानाङ्गवृत्तौ“पुग्वेण तिन्नि कूडा, दाहिणओ तिन्नि तिन्नि अवरेण । उत्तरओ तिन्नि भवे, चउद्दिसिं माणुसनगस्स ॥” त्ति । विदिक्षु चत्वारि तत्राग्नेय्यां रत्नाभिधं भवेत् । निवासभूतं तद्रेणुदेवस्य गरुडेशितुः ॥ २० ॥ रत्नोच्चख्यायं नैर्ऋत्यां, वेलम्बस्यानिलेशितुः । नाम्ना विलम्बसुखदमित्यप्येतन्निरूपितम् ॥ २१ ॥ पूर्वोत्तरस्यां च कूटं, सर्वरत्नाभिधं भवेत् । तत्सुपर्णकुमारेन्द्रवेणुदाले: किलास्पदम् ॥ २२ ॥ तथाऽपरोत्तरस्यां स्यात्तद्रत्नसंचयाभिधम् । प्रभञ्जनपराख्यं च, प्रभञ्जनसुरेशितुः ॥ २३ ॥
____ अत्र यद्यपि रत्नादीनि चत्वारि कूटानि स्थानाङ्गसूत्रे चतुर्दिशमुक्तानि तथाहि-"माणुसुत्तरस्स णं पव्वयस्स चउद्दिसिं चत्तारि कूडा पं० २०–रयणे रयणुच्चये सबरयणे रयणसंचए” इति तथाप्येतत्सूत्रं श्रीअभयदेवसूरिभिरेवं व्याख्यातं तथाहि-"इह च दिग्ग्रहणेऽपि विदिदिवति
द्रष्टव्यं, तथा एवं चैतद्व्याख्यायते द्वीपसागरप्रज्ञप्तिसंग्रहण्यनुसारेणे” त्यादि । चतुर्दिशमिहैकैकः, कूटे भाति जिनालयः । दिशां चतसृणां रत्नकिरीट इव भासुरः ॥ २४ ॥ तथोक्तं विरञ्जयक्षेत्रसमाससूत्रे- [गाथा - २५७] “चउसुवि उसुयारेसुं इक्विं नरनगंमि चत्तारि । कूडोवरि जिणभवणा कुलगिरिज़िणभवणपरिमाणा ॥” साक्षान्न यद्यपि प्रोक्तः, सिद्धान्तेऽत्र जिनालयः । तथाप्यागमवाग्लिङ्गादनुमानात्प्रतीयते ॥ २५ ॥ यतो विद्याचारणर्षितिर्यग्गतिनिदर्शने । विश्रामोऽत्र गिरी प्रोक्तश्चैत्यवन्दनपूर्वकः ॥ २६ ॥
तथाह पञ्चमाङ्गे -"विज्जाचारणस्स णं भंते ! तिरियं केवतिए गतिविसए पन्नत्ते ? गो० ! से णं इओ एगेणं उप्पाएणं माणुसुत्तरे पवए समोसरणं करेइ, माणु० २ ता तहिं चेइयाई वंदति”