SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 338 सद्धादशा स्युनिधयोऽत्र षट्शती, प्रकर्षतस्तान्युपभोगभाञ्जि तु । द्विविंशतिः पञ्च शतानि च ध्रुवं, द्वासप्ततिस्तानि जघन्यतस्तथा ॥ २७६ ॥ विंशानि चत्वारि शतानि पञ्चैकाक्षाणि रत्नानि पृथग् भवेयुः । उत्कर्षतस्तानि जघन्यतश्च, पञ्चाशदाढ्या ननु षड्भिरेव ॥ २७७ ॥ द्वादशोष्णमहस: सुधांशवो, द्वादश ग्रहसहस्रमन्वितम् । षड्युतार्द्धशतकेन भानि षट्त्रिंशता समधिकं शतत्रयम् ॥ २७८ ॥ त्रिभिः सहस्रैरधिकानि लक्षाण्यष्टौ तथा सप्त शतानि चात्र । स्युः कोटिकोट्यः किल तारकाणां, तमोऽङ्करोन्मूलनकारकाणाम् ॥ २७९ ॥ दीपोऽयमेवं गदितस्वरूपः, कालोदनाम्नोदधिना परीतः । विभाति दीप्रप्रधिनेव चक्रमिवेभसेनावलयेन भूपः ॥ २८० ॥ कालो महाकाल इतीह देवौ, प्राच्यप्रतीच्यार्द्धधृताधिकारौ । तदैवत: श्यामतमोदकश्च, तदेष कालोद इति प्रसिद्धः ॥ २८१ ॥ लक्षाण्यष्टौ विस्तृतो योजनानामुद्रिद्धोऽयं योजनानां सहस्रम् । आदावन्ते मध्यदेशे समानोबेधः सर्वत्रापि पूर्णहदाभः ॥ २८२ ॥ न चूला न वेला न च क्षोभितास्मिन्, न पातालकुम्भादिका वा व्यवस्था । सदम्भोदमुक्तोदकस्वादुनीरः, प्रसन्नश्च साधोर्मनोवद्गभीरः ॥ २८३ ॥ लक्षाण्यथैकनवतिः परिधिः सहस्राः, स्यात् सप्ततिः षडिह पञ्चयुताः शताश्च । द्वारैश्चतुर्भिरयमप्यभितो विभाति, । पूर्वादिदिक्षु विजयादिभिरुक्तरुपैः ॥ २८४ ॥ लक्षा द्वाविंशतिश्च दिनवतिरुपरि स्युः सहस्राणि नूनं, षट्चत्वारिंशदाढ्या जिनपतिगदिता षट्शती योजनानाम् । पादोनं योजनं चान्तरमिह निखिलद्धार्पु तुल्यप्रमाणं, . कालोदे द्वारपानां विजयवदुदिता राजधान्योऽपरस्मिन् ॥ २८५ ॥ प्राक्प्रतीच्योर्दिशो दश द्वादश, द्वादशेभ्यः सहस्रेभ्य एवान्तरे । सन्ति कालोदधौ धातकीखण्डतोऽत्रान्तरीपा अमुष्यामृतोष्णत्विषाम् ॥ २८६ ।। पुष्करद्वीपतोऽप्येवमत्राम्बुधौ, तावता प्राक्प्रतीच्योः सुधोष्णत्विषाम् । नेत्रवेदैर्मिता नेत्रवेदैर्मिता (४२), एतदब्धिस्पृशामन्तरीपा: स्थिताः ॥ २८७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy