________________
336
सहस्राणि पञ्चपञ्चाशतं पञ्चशी तथा । अतिक्रम्य योजनानामूर्ध्वं नन्दनकाननात् ॥ २३० ॥ अत्रान्तरे सौमनसं, स्यात्पञ्चशतविस्तृतम् । चक्रवालतया मेरो!वेयकमिवामलम् ॥ २३१ ॥ बहिर्विष्कम्भोऽत्र गिरेर्गुरुभिर्गदितो मम । योजनानां सहस्राणि, त्रीण्येवाष्टौ शतानि च ॥ २३२ ॥ तथाहिषट्पञ्चाशत्सहस्राणि, यान्यतीतानि भूतलात् । एषां दशमभाग: स्यात्षट्पञ्चाशच्छतात्मकः ॥ २३३ ॥ असौ भूतलविष्कम्भात्पूर्वोक्तादपनीयते । तस्थुर्यथोदितान्येवमष्टात्रिंशच्छतानि वै ॥ २३४ ॥ सहस्रापगमे चास्मात्स्यादन्तर्गिरिविस्तृतिः । द्धे सहने योजनानां, शतैरष्टभिरन्विते ॥ २३५ ॥ अर्थतस्मादनादूर्ध्वमुत्क्रान्तैमरुमुर्द्धनि । अष्टाविंशत्या सहजैोजनैः पण्डकं वनम् ॥ २३६ ॥ चक्रवालतया तच्च, विस्तीर्णं वर्णितं जिनैः । चतुर्नवत्याऽभ्यधिकां, योजनानां चतुःशतीम् ॥ २३७ ॥ तच्चैवंमेरुमस्तकविष्कम्भात्सहस्रयोजनोन्मितात् । मध्यस्थचूलिकाव्यासो, द्वादशयोजनात्मकः ॥ २३८ ॥ शोध्यते तच्छेषमर्नीकृतं पण्डकविस्तृतिः । शेषा शिलादिस्थिति, सा जम्बूद्वीपमेरुवत् ॥ २३९ ॥ तथैवास्य मरकतमयी शिरसि चूलिका । नानारत्ननिर्मितेन, शोभिता जिनसद्मना ॥ २४० ॥ एवं यदन्यदप्यत्र, कूटचैत्यादि नोदितम् । जम्बूद्धीपमेरुवत्तद्वक्तव्यं सुधिया धिया ॥ २४१ ॥ एवं यथाऽस्य दीपस्य, पूर्वार्द्धमिह वर्णितम् । पश्चिमा मपि तथा, विज्ञेयमविशेषितम् ॥ २४२ ॥ गजदन्तप्रमाणादौ, विशेषो यस्तु कश्चन । स तु तत्तत्प्रकरणे, नामग्राहं निरुपित: ॥ २४३ ॥ किंचविजये पुष्कलावत्यां, वप्राख्ये विजये तथा । वत्से च नलिनाव'त्यां, विरहन्त्यधुना जिनाः ॥ २४४ ॥ प्राचीनेऽद्धे सुजातोऽर्हन्, स्वयंप्रभर्षभाननौ । श्रीमाननन्तवीर्यच, पश्चिमा? तु तेष्वमी ॥ २४५॥ सूरप्रभो जिन: श्रीमान्, विशालो जगदीश्वरः । जगत्पूज्यो वज्रधरश्चन्द्राननः प्रभुः क्रमात् ॥ २४६ ॥ एवं चात्रश्रियं दधाते द्वौ मेरू, दीपस्यास्य कराविव । उदस्तौ पृथुतादोन्नभसो निजिघृक्षया ॥२४७ ॥ यद्धोद्दण्डकरौ बद्धकच्छौ च नन्दनच्छलात् । स्पर्द्धया संमुखीनौ दौ, महामल्लाविवोत्थितौ ॥ २४८ ॥ स्थापयत्येकधाऽऽत्मानं, मेर्वकाङ्गुलिसंज्ञया । जम्बूदीपेऽयमेताभ्यां, द्विधा तं स्थापयन्निव ॥ २४९ ॥ अनलंभूष्णुनोत्थातुं, द्वीपेनानेन वार्द्धकात् । धृतौ दण्डाविवोद्दण्डौ, मेरू द्वाविह राजतः ॥ २५० ॥ वर्षाद्रयो द्वादशाष्टषष्टिवैताढ्यभूधराः । दीर्घा अष्टौ च वृत्तास्ते, काञ्चनाद्रिचतुःशती ॥ २५१ ॥ १. नलिनावत्यां वप्रे च इतिपाठः