________________
335
मध्येऽत्र मेरुश्चतुरशीतिं तुङ्गः सहस्रकान् । योजनानां सहस्रं चावगाढो वसुधांतरे ॥ २०७ ॥ शतानि पञ्चनवति, मूले भूमिगते पृथुः । चतुर्नवतिमेव क्ष्मातले शतानि विस्तृतः ॥ २०८ ॥ यत्रोत्तीर्य योजनादौ, व्यासोऽस्य ज्ञातुमिष्यते । तस्मिन् दशहते लब्धे, सहस्राढ्ये च तत्र सः ॥ २०९ ॥ तथाहिशिरोऽग्राच्चतुरशीतेः, सहस्राणामतिक्रमे । व्यासे जिज्ञासित एतान्, सहस्रान् दशभिर्भजेत् ॥ २१० ॥ लब्धान्येवं च चतुरशीतिः शतानि तान्यथ । सहस्राढ्यानि पूर्वोक्तो, विष्कम्भोऽस्य भुवस्तले ॥ २११ ॥ मूलाद्यदोर्ध्वगमने, विष्कम्भो ज्ञातुमिष्यते । तदा यावद्यातमूर्ध्वं, तत्संख्यां दशभिर्भजेत् ॥ २१२ ॥ लब्धे च मूलविष्कम्भाच्छोधिते यत्तु तिष्ठति । तत्र तावत्प्रमाणोऽस्य, विष्कम्भो लभ्यते गिरेः ॥ २१३ ॥ यथोर्ध्वं चतुरशीतौ, सहस्रेषु भुवस्तलात् । गतेषु चतुरशीतिं सहस्रान् दशभिर्भजेत् ॥ २१४ ॥ लब्धानि चतुरशीतिः, शतानि तानि शोधयेत् । भूतलव्यासत: शेषा, साहस्री मूर्ध्नि विस्तृतिः ॥ २१५ ॥ आम्नायोऽयं कर्णगत्या, मेरुनिम्नोन्नतत्वयोः । ज्ञेयोऽविवक्षणात्प्राग्वन्मेखलायुग्मजातयोः ॥ २१६ ॥ श्रियं श्रयत्ययमपि चतुर्भिश्चारुकाननैः । दन्तैरैरावत इव, दैत्यारिरिव बाहुभिः ॥ २१७ ॥ तत्र भूमौ भद्रसालवनं तरुलताघनम् । तरणित्रासितं ध्वान्तमिवैतत्पादमाश्रितम् ॥ २१८ ॥ प्राच्या प्रतीच्या प्रत्येकं, तद्दीधैं लक्षयोजनीम् । सहस्रान् सप्तसैकोनाशीतीन्यष्ट शतानि च ॥ २१९ ॥ प्राच्येऽथवा प्रतीचीने, दैध्येऽष्टाशीतिभाजिते । यल्लब्धं सोऽस्य विष्कम्भो, दक्षिणोत्तरयोः स च ॥ २२० ॥ योजनानां पञ्चविंशाः, शता द्वादश कीर्तिताः । तथैकोनसप्ततिश्चांशा, अष्टाशीतिसमुद्भवाः ॥ २२१ ॥ अष्टाशीत्या गुणितायामेतस्यां पुनराप्यते । प्राच्या प्रतीच्यां चायामो, यः प्रागस्य निरूपितः ॥ २२२ ॥ एवं प्रमाणविस्तारायाममेतद् वनं पुन: । गजदन्तमन्दराद्रिनदीभिरष्टधा कृतम् ॥ २२३ ।। तच्च जम्बूद्वीपभद्रसालवद्भाव्यतां बुधैः । तथैवैतक्ष्यमाणवनकूटादिकस्थितिः ॥ २२४ ॥ अथोत्क्रम्य योजनानां, शतानि पञ्च भूतलात् । कट्यां नन्दनवन्मेरो, राजते नन्दनं वनम् ॥ २२५ ॥ तच्च चक्रवालतया, शतानि पञ्च विस्तृतम् । अनल्पकल्पफलदलतामण्डपमण्डितम् ॥ २२६ ॥ बहिर्विष्कम्भोऽत्र मेरोरुक्ताम्नायेन लभ्यते । योजनानां सहस्राणि, नव सार्द्ध शतत्रयम् ॥ २२७ ॥ तथाहिउत्क्रान्तायाः पञ्चशत्या, दशभिर्भजने सति । लब्धपञ्चाशतोऽध:स्थव्यासात्त्यागे भवेदयम् ॥ २२८ ॥ बहिासात्पञ्चशत्यास्त्यागे चोभयतः पृथक् । अन्तासोऽष्टौ सहस्रास्त्रिशत्या सार्द्धयाधिका:
॥ २२९ ॥