________________
334
अथ स्वस्वप्रतीचीनप्राचीनगजदन्तयोः । आयाममानयोोंगे, धनुर्मानं कुरुद्धये ॥ १८२ ॥ नव लक्षा योजनानां, सहस्राः पञ्चविंशतिः । तथा शतानि चत्वारि, षडशीत्यधिकानि च ॥ १८३ ॥ भद्रसालायतिर्दिना, मेरुविष्कम्भसंयुता । गजदन्तद्वयव्यासहीना ज्या कुरुषु स्फुटा ॥ १८४ ॥ त्रयोविंशत्या सहनैरधिकं लक्षयोर्द्धयम् । योजनानामष्टपञ्चाशताधिकं तथा शतम् ॥ १८५ ॥ विदेहमध्यविष्कम्भे, मेरुविकष्भवर्जिते । अर्कीकृते च प्रत्येकं, लभ्यते कुरुविस्तृतिः ॥ १८६ ॥ सा चेयं-त्रिलक्षीसप्तनवतिः, सहस्राण्यष्टशत्यपि । सप्तनवतियोजनानां द्विनवतिर्लवा: ॥ १८७ ॥ अथापाच्यामुदीच्यां च, नीलवन्निषधाद्रितः । प्रत्येकं यमकाद्री स्तो, जम्बूदीपकुरुष्विव ॥ १८८ ॥ जम्बूद्धीपयमकवत्स्वरूपमेतयोरपि । सहस्रयोजनोच्चत्वविस्तारायामशालिनोः ॥ १८९ ॥ क्रमात्ततो हुदाः पञ्च, तन्नामानस्तथा स्थिताः । तटद्धये दश दश, काञ्चनाचलचारवः ॥ १९० ॥ हुदा: पञ्चाप्यमी तादृग्नामभिः सेविता: सुरैः । तद्वत्पद्माञ्चितास्तेभ्यो, द्विगुणायतविस्तृताः ॥ १९१ ॥ तटद्रये दश दश, ये चात्र काञ्चनाद्रयः । सश्रीकास्तेऽपि मानेन, तैर्जम्बूद्धीपगैः समाः ॥ १९२ ॥ किंतु संबद्धमूलास्तेऽमी तु व्यवहिता मिथ: । योजनानां शतेनैकादशेन नवमांशिना ॥ १९३ ॥ तच्चैवं-एषां दशानां पृथुत्वे, सहस्रं मिलिते भवेत् । तत्सहस्रद्धयादेकहूदायामाद्वियोज्यते ॥ १९४ ॥ शेषं स्थितं सहस्रं यन्नवभिस्तद्भिज्यते । अन्तरैः काञ्चनाद्रीणामेवं यथोक्तमन्तरम् ॥ १९५ ॥ जम्बूद्वीपे तु हूदानां, सहस्रायामभावत: । न किञ्चित्काञ्चनाद्रीणां, व्यवधानं परस्परम् ॥ १९६ ॥ यमकाद्रिदायामवर्जितात्सप्तभिर्हतात् । लभ्यन्ते कुरुविष्कम्भात्सप्तान्तराणि तानि च ॥ १९७ ॥ यमकाद्रयोनीलवतस्ताभ्यामाद्यहूदस्य च । क्रमाच्चतुर्णां हूदानां, क्षेत्रान्तस्यान्तिमहूदात् ॥ १९८ ॥ सहस्राः पञ्चपञ्चाशद्योजनानां शतद्वयम् । एकसत्याऽधिकं तद्भवेदेकै कमन्तरम् ॥ १९९ ॥ आसूत्तरासु कुरुषु, नीलवगिरिसन्निधौ । राजते धातकीवृक्षो, जम्बूवृक्ष इवापर: ॥ २०० ॥ माने स्वरूपे त्वनयोर्विशेषोऽस्ति न कश्चन । किंतु तस्यानादृतवदस्य देव: सुदर्शन: ॥ २० ॥ उदीचीनासु कुरुषु, पश्चाद्धेऽप्येवमीदृशः । स्यान्महाधातकी वृक्षः, प्रियदर्शनदैवतः ॥ २०२ ॥ उत्तरासां कुरुणां यत्स्वरूपमिह वर्णितम् । तदेव देवकुरुषु, विज्ञेयमयोर्द्धयोः ॥ २०३ ॥ किंत्वासु नीलवत्स्थाने, वक्तव्यो निषधाचल: । गिरी चित्रविचित्राख्यौ, वाच्यौ च यमकास्पदे ॥ २०४ ॥ पूर्वापरार्द्धयोदेवकुरुषु स्तौ यथाऽऽस्पदम् । प्राग्वच्छाल्मलिनौ वेणुदेवाभिधसुराश्रयौ ॥ २०५ ॥
तथोक्तं स्थानाङ्गद्धितीयस्थानकवृत्तौ–'दो देवकुरुमहादुमति द्वौ कूटशाल्मलिवृक्षावित्यर्थः,
दौ तदासिदेवौ वेणुदेवावित्यर्थः । शेषं तु हूदनामादि, यदत्र नोपदर्शितम् । तज्जम्बूद्धीपवद् ज्ञेयं, विशेषो ह्यत्र दर्श्यते ॥ २०६ ॥