________________
333
१६५ ॥
१६६ ॥
१६७ ॥
१६८ ॥
१६९ ॥
१७० ॥
अनेन वर्जिते द्वीपविष्कम्भे विहृतेऽष्टभिः । वक्षस्काराद्रिविष्कम्भो, लभ्यः सहस्रयोजनः ॥ १६० ॥ अन्तर्नदीर्विना शेषव्याससङ्कलना भवेत् । लक्षास्तिस्रोऽष्टनवतिः, सहस्राः पञ्चशत्यपि ।। १६१ ॥ अनेन वर्जिते द्वीपविष्कम्भे षड्भिराहृते । सार्द्ध द्वे योजनशते, व्यासोऽन्तः सरितामयम् ॥ १६२ ॥ विदेहानां यत्र यावान्, स्याद्व्यासोऽन्तर्मुखादिषु । तस्मिन् सहस्रोरुशीताशीतोदान्यतरोज्झिते ॥ १६३ ॥ शेषेऽर्द्धिते तत्र तत्र, तावान् भाव्यो विवेकिभिः । विजयान्तर्नदीवक्षस्कारायामः स्वयं धिया ॥ १६४ ॥ द्वयोरप्यर्द्धयोरस्मिन् द्वीपे वनमुखानि च । वक्षस्कारक्षितिभृतो, विजयाश्चान्तरापगाः ॥ लवणोददिशि ह्रस्वाः, क्षेत्रसांकीर्ण्यतः स्मृताः । दीर्घा: कालोदककुभि, क्षेत्रबाहुल्यतः क्रमात् ॥ अष्टानां वनमुखानां, कले द्वे विस्तृतिर्लघुः । गुरुश्चतुश्चत्वारिंशाष्टपञ्चाशच्छती भवेत् ॥ तत्र द्वयोर्द्वयोः पूर्वापरार्द्धवर्तिनोस्तयोः । क्षाराब्ध्यासन्नयोः शीताशीतोदासीम्नि सा लघुः ॥ गुरुस्तु नीलनिषधान्तयोरेतच्च युक्तिमत् । अमीषां वलयाकारं, क्षाराब्धि स्पृशतां बहिः ॥ अपरेषां तु कालोदवलयाभ्यन्तरस्पृशाम् । लघ्वी निषधनीलान्ते, गुर्वी सा सरिदान्तिके ॥ तथोक्तं वीरञ्जयक्षेत्रसमासवृत्तौ - “ तथा वनमुखानां विस्तारो द्विगुणा उक्तः, परं लवणोदधिदिशि वनमुखपृथुत्वं विपरीतं संभाव्यते, यथा नद्यन्ते कलाद्वयं, गिर्यन्ते चतुश्चत्वारिंशदधिकान्यष्टपञ्चाशच्छतानि पृथुत्व” मिति संप्रदाय इति । बृहत्क्षेत्रसमासवृत्तौ त्वेषां जघन्यं मानं नीलवन्निषधान्ते, शीताशीतोदोपान्ते चोत्कृष्टमुक्तं, न च कश्चिद्विशेषोऽभिहितः । अथ देवोत्तरकुरुक्षेत्रसीमाविधायिनः । गजदन्ताकृतीन् शैलान्, चतुरश्चतुरो ब्रुवे ।। १७१ ॥ तत्र देवकुरुणां यः, प्रत्यग् विद्युत्प्रभो गिरिः । तथोत्तरकुरुणां च प्रत्यग् यो गन्धमादनः ॥ १७२ ॥ द्वावप्यायामत इमौ षट्पञ्चाशत्सहस्रका: । लक्षास्तिस्रो योजनानां सप्तविंशं शतद्वयम् ॥ १७३ ॥ अथ देवकुरुणां प्राग्गिरिः सौमनसोऽस्ति यः । तथोत्तरकुरुणां प्राक्, पर्वतो माल्यवांश्च यः ।। १७४ ॥ तावायामतः पञ्च लक्षा एकोनसप्ततिः । सहस्राणि योजनानां द्विशत्येकोनषष्टियुक् ॥ १७५ ॥ इदं प्रमाणं पूर्वार्द्ध, भावनीयं विचक्षणैः । परार्द्ध क्षेत्रविस्तारव्यत्यासेन विपर्ययः ॥ १७६ ॥ पूर्वार्द्ध हि भवेत्क्षेत्रं, प्राच्यां विस्तीर्णमन्यतः । संकीर्णमपरार्द्ध तु, प्रत्यक् पृथ्वन्यतोऽन्यथा ।। १७७ ॥ ततः पूर्वार्द्ध यदुक्तं, मानं प्राचीनशैलयोः । सौमनसमाल्यवतोस्तत्प्रतीचीनयोरिह ।। १७८ ॥ ज्ञेयं विद्युत्प्रभगन्धमादनाद्रयोः परार्द्धके । यत्प्रतीचीनयोस्तत्र, मानं तत्प्राच्ययोरिह ।। १७९ ।। एते चत्वारोऽपि शैलाः, स्वस्ववर्षधरान्तिके । सहस्रयोजनव्यासास्तनवो मेरुसन्निधौ ॥ १८० ॥ शेषवर्णविभागादि, कूटवक्तव्यतादि च । जम्बूद्वीपगजदन्तगिरिवच्चिन्त्यतामिह ।। १८१ ॥
१
१ कालोदध्यासन्नभागापेक्षया एतदभिधाने न क्षतिः, लवणदिशि न विवक्षाऽस्येति ।