SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 331 ११३ ॥ ११४ ॥ ११५ ॥ ॥ ११७ ॥ ११८ ॥ ११९ ॥ दक्षिणस्यामुदीच्यां, च, नद्यौ द्वे निर्गते ततः । रोहिता हरिकान्ता च, पर्वतोपर्युभे अपि ।। १०७ ।। योजनानां शतान् द्वात्रिंशतं गत्वा दशोत्तरान् । चतुश्चत्वारिंशतं च भागान् जिह्विकया गिरिः ॥ १०८ ॥ पततः स्वस्वकुण्डेऽथ, कालोदं याति रोहिता । द्विधा कृत्वा हैमवतं, वैताढ्यायोजनान्तरा ।। १०९ ।। हरिकान्ता च वैताढ्यायोजनद्वितयान्तरा । हरिवर्षं विभजंती, प्रयाति लवणोदधौ ॥ ११० ॥ अथोदीच्यां क्षेत्रमस्माद्धरिवर्षं विराजते । सश्रीकमध्यं यद्गन्धापातिवैताढ्यभूभृता ॥ १११ ॥ त्रयस्त्रिंशाष्टपञ्चाशच्छताढ्यां लक्षयोजनीम् । षट्पञ्चाशमंशशतं विस्तीर्णमिदमानने ॥ ११२ ॥ द्वे लक्षे द्वादशशत, मध्येऽष्टानवतिं तथा । योजनानामंशशतं द्विपञ्चाशं च विस्तृतम् ॥ योजनानां षण्णवत्या, सहस्रकैः समन्वितम् । लक्षद्वयं सप्तशर्ती, त्रिषष्ट्याऽभ्यधिकां तथा ॥ अष्टचत्वारिंशमंशशतं पर्यन्तविस्तृतम् । शेषाऽस्य जम्बूद्वीपस्थहरिवर्षसमा स्थितिः ॥ क्षेत्रस्यास्य च पर्यन्ते, निषधो नाम भूधरः । त्रयस्त्रिंशत्सहस्राणि योजनानां शतानि षट् स्याद्विस्तीर्णः स चतुरशीतीन्यंशाश्च षोडश । तिगिञ्छिनामा वर्वर्त्ति, महाहूदोऽस्य चोपरि ॥ सहस्राणि योजनानामष्टावायामतः स च । विष्कम्भतस्तु चत्वारि, सहस्राणि भवेदसौ ॥ दक्षिणस्यामुदीच्यां च, हूदादस्मान्निरीयतुः । वाहिन्यौ हरिसलिलाशीतोदे ते नगोपरि ॥ योजनानां सहस्राणि चतुर्दश शतानि च । अष्टौ द्विचत्वारिंशानि, परिक्रम्याष्ट चांशकान् ॥ १२० ॥ स्वस्वजिह्विकया स्वस्वकुण्डे निपततस्ततः । हरिः स्ववृत्तवैताढ्यायोजनद्वितयान्तरा ॥ १२१ ॥ हरिवर्षाभिधं वर्षं द्विधा विदधती सती । कालोदाब्धौ निपतति, रमेवाच्युतवक्षसि ॥ १२२ ॥ शीतोदा च देवकुरुभद्रसालविभेदिनी । चतुर्भिर्योजनैर्मेरोर्दूरस्था पश्चिमोन्मुखी ॥ १२३ ॥ प्रत्यग्विदेहविजयसीमाकरणकोविदा । गोत्रवृद्धेव मध्यस्था, यात्यन्ते लवणोदधिम् ॥ १२४ ॥ शीतोप्येवं नीलवतो, निर्गता केसरिहूदात् । कुण्डोत्थितोत्तरकुरुभद्रसालप्रभेदिनी ।। १२५ ।। चतुर्भिर्योजनैर्मेरोर्दरस्था पूर्वतोमुखी । प्राग्विदेहान् विभजंती, याति कालोदवारिधौ ॥ १२६ ॥ वाच्योदीच्यां रम्यकान्ता तथैवैखतादिका । क्षेत्रत्रयी शिखर्याद्या, नीलान्ता च नगत्रयी ॥ १२७ ॥ यथेयं हरिवर्षान्ता, त्रिवर्षी भरतादिका । उक्ता हिमवदाद्या च निषधान्ता नगत्रयी ॥ १२८ ॥ तद्वत्रिधा क्षेत्रमानमादिमध्यान्तगोचरम् । तावदायामविस्तारा, हूदा वर्षधरोपरि ।। १२९ ॥ तावदेवातिक्रमणं, नदीनां पर्वतोपरि । सैवाकृतिर्नाममात्रे, विशेषः सोऽभिधीयते ॥ १३० ॥ ऐरावतमुदीच्येषुकारात्स्वस्वगिरेर्दिशि । शिखरी पर्वतोऽन्तेऽस्य, पुण्डरीकहूदाञ्चितः ॥ १३१ ॥ अस्माद्रक्ता रक्तवती, स्वर्णकूला विनिर्ययुः । रक्तैवतमध्येन याति कालोदवारिधिम् ॥ १३२ ॥ लवणाब्धौ प्रविशति, तथैव रक्तवत्यथ । स्वर्णकूला तु कालोदं, हैरण्यवतमध्यगा ॥ १३३ ॥ ११६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy