SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 329 पञ्चपञ्चाशदधिकमंशानां नियतं शतम् । एतावद्भरतक्षेत्रं, पर्यन्ते विस्तृतं मतम् ॥ ६१ ॥ त्रैराशिकादिना भाव्यो, विस्तारोऽन्यत्र तु स्वयम् । तादृक्षेत्राकृत्यभावान्नात्र ज्याधनुरादिकम् ॥ ६२ ॥ मध्यभागेऽस्य वैताढ्य, उच्चत्वपृथुतादिभिः । जम्बूद्धीपस्थभरतवैताढ्य इव सर्वथा ॥ ६३ ॥ आयामतः किन्तु चतुर्लक्षयोजनसंमितः । युक्तश्चोभयतः पञ्चपञ्चाशता महापुरैः ॥ ६४ ॥ उत्तरार्द्धमध्यखण्डे, हिमवगिरिसन्निधौ । जम्बूद्वीपर्षभकूटतुल्योऽत्र वृषभाचलः ॥६५॥ शेषा सर्वापि व्यवस्था, षट्खण्डभवनादिका । जम्बूदीपभरतवद्, ज्ञेयात्राप्यविशेषिता ॥६६॥ तथाऽत्र भरतादीनां, तैर्जम्बूद्वीपगैः सह । द्रव्यक्षेत्रकालभावपर्यायाः स्युः समाः क्रमात् ॥ ६ ॥ परोऽस्माद् हिमवानद्रिः, पञ्चाढ्यानेकविंशतिम् । शतांस्ततो लवान् द्वाविंशतिं चतुरशीतिजान् ॥ ६८ ॥ ननु जम्बूद्धीपहिमवतो माने द्विगुणिते सति यथोक्ता योजनोपरि एकोनविंशतिजाः पञ्च भागा भवन्ति, अत्र च चतुरशीतिजा द्वाविंशतिरुक्तास्ततः कथमस्य ततो द्वैगुण्यं न व्याहन्यते ?, अत्रोच्यते-एषां भागानां दैविध्येऽपि विशेषः कोऽपि नास्ति, यतो यावदेकोनविंशतिजैः पञ्चभिर्भागैर्भवति तावदेव चतुरशीतिजै विंशत्यापि भवति, उभयत्रापि किञ्चिदधिकयो जनचतुर्थभागस्यैव जायमानत्वादिति, एवमग्रेऽपि भाव्यं ।। पद्महूदाभिधानोऽस्य, मस्तकेऽस्ति महाहूदः । योजनानां दे सहस्रे, दीर्घः सहस्रविस्तृतः ॥ ६९ ॥ दशयोजनरुपोऽस्योद्धेधोऽज्जवलयादि च । जम्बूदीपपद्महूद, इवेहापि विभाव्यताम् ॥ ७० ॥ एवं येऽन्ये वर्षधराचलेषु कुरुषु हुदाः । तथा नदीनां कुण्डानि, दीपा: कुण्डगताच ये ॥७१॥ अविशेषेण ते सर्वेऽप्युद्धेधोच्छ्रयमानतः । जम्बूद्धीपस्थायितत्तद्द्वीपकुण्डहुदैः समाः ॥७२॥ ततस्तदुद्विद्धतादि, तथाऽज्जवलयादि च । अनुच्यमानमप्यत्र, स्वयं ज्ञेयं यथाऽऽस्पदम् ॥७३॥ विष्कम्भायामतस्त्वेते, सर्वेऽपि द्विगुणास्तत: । व्यासोद्धैधाभ्यां च नद्यो, व्यासैर्वनमुखान्यपि ॥ ७४ ॥ तथाहुः- “वासहरकुरुसु दहा, नइण कुण्डाई तेसु जे दीवा । उव्वेहुस्सेहतुल्ला, विक्रोभायामओ दुगुणा ॥ सब्बाओवि नईओ, विक्खंभोव्बेहदुगुणमाणाओ । सीयासीओयाणं, वणाणि दुगुणाणि विक्खंभे ॥ [बृहत्क्षेत्रसमास अधि. ३. श्लो. ३९, ४०] एवं च-गङ्गासिन्धुरक्तवतीरक्तेत्याख्यास्पृशामिह । षट्त्रिंशशतसङ्ख्यानां, नदीनां हृदनिर्गमे ॥७५ ॥ अर्दा नि योजनानि, विष्कम्भो द्वादश स्मृतः । पर्यन्ते च पञ्चविंशं, योजनानां शतं भवेत् ॥ ७६ ॥ आसां तावन्ति कुण्डानि, विस्तृतान्यायतानि च । विंशं हि योजनशतं, दीपा: षोडशयोजनाः ॥ ७७ ॥ स्वर्णकूला रूप्यकूला, रोहिता रोहितांशिका । इत्यष्टादौ विस्तृताः स्युः, पञ्चविंशतियोजनीम् ॥७८ ॥ अन्ते च सार्द्धा द्विशती, सर्वत्रतावदेव च । चतुर्विंशतिरप्यन्तनद्यः स्युरिह विस्तृताः ॥७९॥ चत्वारिंशा द्विशत्यासां, कुण्डेष्वायतिविस्तृती । द्वात्रिंशद्योजनान्यासां, दीपा आयतविस्तृताः ॥८॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy