________________
328
लब्धानि योजनसहस्राणि षट् षट् शतानि च । चतुर्दशाढ्यानि भागाश्चैकोनत्रिंशकं शतम् ॥ ३५ ॥ द्वादशाढ्यशतद्वन्द्वक्षुण्णैकयोजनोद्भवाः । तत्रेयत्पृथवस्तेऽंशा, द्विशती द्वादशाभवन् ।। ३६ ।। अथ चैतादृशैरंशैर्यथास्वमुपकल्पितैः । चतुर्दशानां क्षेत्राणां, लभ्यते मुखविस्तृतिः ॥ ३७ ॥ भागकल्पना चैवं—एकैकोऽंशो भरतयोस्तथैरवतयोरपि । चत्वारो हैमवतयो - र्हैरण्यवतयोरपि ॥ ३८ ॥ हरिवर्षाख्ययोरेवं, तथा रम्यकयोरपि । पूर्वापरार्द्धं गतयोरंशाः षोडश षोडश ।। ३९ ।। चतुष्षष्टिश्चतुष्षष्टिर्विदेहक्षेत्रयोर्द्वयोः । द्विशती द्वादश चैवं, भागाः स्युः सर्वसंख्यया ॥ ४० ॥ भरतैरवतेभ्यो वा चतुर्ध्ना मुखविस्तृतिः । विज्ञेया हैमवतयोः, हैरण्यवतयोरपि ।। ४१ ।। षोडशघ्ना हरिवर्ष रम्यकद्वयविस्तृतिः । तथा चतुष्षष्टिगुणा, विदेहक्षेत्रयोर्द्वयोः ॥ ४२ ॥ एवं च धातकीखण्डे, मध्यमात्परिधेरपि । पूर्वोदितादुक्तशैलरुद्ध क्षेत्रविनाकृतात् ॥ ४३ ॥ द्वादशाढ्यशतद्वन्द्वविभक्तादुपकल्पितैः । मुखविस्तृतिवद्भागैर्लभ्यैषां मध्यविस्तृतिः ॥ ४४॥ तथाऽत्र कालोदासन्नात्पर्यन्तपरिधेरपि । नगरुद्धक्षेत्रहीनाद्, द्वादशदिशताहृतात् ।। ४५ ।। मुखविस्तृतिवद्भागैर्यथास्वमुपकल्पितैः । चतुर्दशानां क्षेत्राणां, लभ्या पर्यन्तविस्तृतिः ॥ ४६ ॥ एवं च ‘वक्ष्यमाणायां, क्षेत्रत्रिविधविस्तृतौ । मा भूत्संमोह इत्येष, आम्नायः प्राक् प्रपञ्चितः ॥ ४७ ॥’ किंच- कृत्वाऽद्रिरुद्धं क्षेत्रं तत्सहस्रद्वितयोज्झितम् । कर्त्तव्याश्चतुरशीतिस्तस्याप्यंशा दिशाऽनया ।। ४८ ।। एकैकशो हिमवतोस्तथा शिखरिणोरपि । अंशाश्चत्वारश्च महाहिमवतोश्च रुक्मिणोः ॥ ४९ ॥ षोडशांशा निषधयोर्नीलवन्नगयोरपि । एवं चतुरशीत्याऽं शैर्वर्षभूधरविस्तृतिः ॥ ५० ॥ अत एव च वक्ष्यन्ते, भागाश्चतुरशीतिजाः । वर्षाद्रिमानेऽस्मिन् पुष्करार्द्धेऽपि योजनोपरि ॥ ५१ ॥ क्षेत्राण्येतानि दधति, चक्रारकान्तराकृतिम् । क्षाराब्धिदिशि संकीर्णान्यन्यतो विस्तृतानि यत् ॥ ५२ ॥ जम्बूद्वीपक्षारखार्द्धिमध्यनाभिमनोहरे । वर्षाचले षुकाराद्रि चतुर्दशारकाञ्चिते ॥ ५३ ॥ अस्मिन् महाद्वीपचक्रे, कालोदाय: प्रधिस्थिरे । अरकान्तखद्भान्ति, क्षेत्राणीति चतुर्दश ॥ ५४ ॥ क्षेत्राणामिह पर्यन्त, एषां कालोदसन्निधौ । मुखं च लवणाम्भोधिसमीपे परिभाषितम् ॥ ५५ ॥ ज्ञेयाः क्षेत्रप्रकरणे, सामान्येनोदिता लवा: । द्वादशद्विशतक्षुण्णयोजनोत्था बुधैरिह ।। ५६ ।। तत्रेह याम्येषुकारहिमवत्पर्वतान्तरे । पूर्वार्द्ध प्रथमं भाति, क्षेत्रं भरतनामकम् ॥ ५७ ॥ चतुर्दशानि षट्षष्टिशतानि विस्तृतं मुखे । एकस्य योजनस्यांशाश्चैकोनत्रिंशकं शतम् ॥ ५८ ॥ योजनानां सहस्राणि, मध्ये द्वादश विस्तृतम् । सैकाशीतिं पञ्चशतीं, तथा षट्त्रिंशतं लवान् ॥ ५९ ॥ अष्टादश सहस्राणि योजनानां शतानि च । पञ्चैव सप्तचत्वारिंशद्योजनाधिकान्यथ ॥ ६० ॥