________________
327
दश लक्षा योजनानां, सहस्रा: सप्तविंशतिः । पञ्चत्रिंशा सप्तशती, मिथो द्वारामिहान्तरम् ॥ १० ॥ दक्षिणस्यामुदीच्यां च, दीपस्यैतस्य मध्यगौ । इषुकारौ नगवरौ, जगदाते जगद्धितैः ॥ ११ ॥ योजनानां पञ्च शतान्युच्चौ सहस्रविस्तृतौ । चत्वारि योजनानां च, लक्षाण्यायामतः पुनः ॥ १२ ॥ अत एव स्पृष्टवन्तौ, कालोदलवणोदधी । आभ्यां संगन्तुमन्योऽन्यं, भुजाविव प्रसारितौ ॥ १३ ॥ कूटैश्चतुर्भिः प्रत्येकं, शोभितौ रत्नभासुरैः । चैत्यमेकैकं च तत्र, कूटे कालोदपार्श्वगे ॥ १४ ॥ आभ्यां द्वाभ्यामिषुकारपर्वताभ्यामयं द्विधा । द्वीपो निर्दिश्यते पूर्वपश्चिमार्द्धविभेदतः ॥ १५ ॥ यच्च जम्बूद्वीपमेरोः, प्राच्यां पूर्वार्द्धमस्य तत् । तस्य प्रतीच्यामद्धं यत्तत्पश्चिमार्द्धमुच्यते ॥ १६ ॥ द्वयोरप्यर्द्धयोर्मध्ये, एकैको मन्दराचलः । तयोरपेक्षया क्षेत्रव्यवस्थाऽत्रापि पूर्ववत् ॥ १७ ॥ तथाहि–अपाच्यामिषुकारो य, इहत्यमेर्वपेक्षया । पूर्वतस्तस्य भरतक्षेत्रं प्रथमतो भवेत् ॥ १८ ॥ ततो हैमवतक्षेत्रं, हरिवर्षं ततः परम् । ततो महाविदेहाख्यं, रम्यकाख्यं ततः परम् ॥ १९ ॥ ततश्च हैरण्यवतमैरावतं ततस्ततः । औत्तराह इषुकार, एषा पूर्वार्द्धसंस्थितिः ॥ २० ॥ पश्चिमायामपि तस्माद्दाक्षिणात्येषुकारतः । प्रथमं भरतक्षेत्रं, ततो हैमवताभिधम् ॥ २१ ॥ एवं यावदौत्तराह, इषुकारधराधरः । पूर्वार्द्धवत्क्षेत्ररीतिरेवं पश्चिमतोऽपि हि ॥ २२ ॥ द्वयोरप्यर्द्धयोरेषां, क्षेत्राणां सीमकारिणोः । षट् षट् वर्षधराः प्राग्वत्, सर्वेऽपि द्वादशोदिताः ॥ २३ ॥ जम्बूद्धीपवर्षधराद्रिभ्यो द्विगुणविस्तृताः । तुङ्गत्वेन तु तैस्तुल्याः, सर्वे वर्षधराद्रयः ॥ २४ ॥ आयामतश्चतुर्लक्षयोजनप्रमिता अमी । पर्यन्तस्पृष्टकालो दलवणोदधिवारयः ॥२५॥ तथाह्यत्र हिमवतोर्गियोः शिखरिणोरपि । विष्कम्भोऽयं जिनैरुक्तः, पूर्वापरार्द्धभाविनोः ॥ २६ ॥ योजनानां शतान्येकविंशतिः पञ्च चोपरि । कलाः पञ्चैवाथ महाहिमवतोश्च रुक्मिणोः ॥ २७ ॥ अष्टावेव सहस्राणि, योजानानां चतुःशती । एकविंशत्यभ्यधिका, तथैवैककलाधिका ॥ २८ ॥ त्रयस्त्रिंशत्सहस्राणि, योजनानां शतानि षट् । स्फुरच्चतुरशीतीनि, कलाश्चतस्र एव च ॥ २९ ॥ विष्कम्भोऽयं निषधयोगिर्योर्नीलवतोरपि । द्वादशानामप्यमीषां, व्याससंकलना त्वियम् ॥ ३० ॥ लक्षमेकं योजनानां षट्सप्ततिसहस्रयुक् । शतान्यष्टौ द्विचत्वारिंशता समधिकानि च ॥ ३१ ॥ ढे योजनसहने च, विष्कम्भ इषुकारयोः । तस्मिंश्च योजितेऽत्राद्रिरुद्धं क्षेत्रमिदं भवेत् ॥ ३२ ॥ एकं लक्षं योजनानां, सहस्राण्यष्टसप्ततिः । द्विचत्वारिंशदधिकान्यष्टौ शतानि चोपरि ॥ ३३ ॥ अथैतल्लवणाम्भोधिपरिधेरपनीयते । द्वादशाभ्यां शताभ्यां च, तेन न्यूनः स भज्यते ॥ ३४ ॥