________________
323
सुस्थिताख्यराजधानीवास्तव्यानां सुधाभुजाम् । भुङ्क्ते स्वाम्यं तत्र भूरिसुराराधितशासनः ॥ २१ ॥ रत्नदीपादिपतयो, लवणाम्भोधिवासिनः । देव्यो देवाश्च ते सर्वेऽप्यस्यैव वशवर्तिनः ॥ २१८ ॥ राजधानी सुस्थितस्य, लवणाधिपते: किल । प्रतीच्यां गौतमद्रीपादसङ्ग्यदीपवारिधीन् ॥ २१९ ॥ अतीत्य तिर्यगन्यस्मिल्लवणाम्भोनिधौ भवेत् । योजनानां सहादशभिर्विजयोपमा ॥ २२० ॥ जम्बूद्धीपवेदिकान्तात्, प्रतीच्यामेव मेरुतः । योजनानां सहस्राणि, द्वादशातीत्य वारिधौ ॥ २२१ ॥ स्युश्चत्वारो रविधीपा, दौ जम्बूद्वीपचारिणोः । भान्वोझै चार्वाक् शिखाया, लवणाम्बुधिचारिणोः ॥ २२२ ॥ मेरोः प्राच्यां दिशि जम्बूद्वीपस्य वेदिकान्ततः । स्युर्योजनसहस्राणां, द्वादशानामनन्तरम् ॥ २२३ ॥ चत्वारोऽत्र शशिदीपा, द्वौ जम्बूदीपचारिणोः । इन्द्रोझै चार्वाक् शिखाया, लवणोदधिचारिणोः ॥ २२४ ॥ तथैव धातकीखण्डवेदिकान्तादतिक्रमे । स्युर्योजनसहस्राणां, द्वादशानामिहाम्बुधौ ॥ २२५ ॥ जम्बूद्धीपस्थायिमेरोः, प्रतीच्यां दिशि निश्चितम् । अष्टौ दिनकरदीपा, दीपा इव महारुचः ॥ २२६ ॥ बहिः शिखायाश्चरतोझै दीपावर्क योद्धयोः । षट् षण्णां धातकीखण्डाचीनार्द्धप्रकाशिनाम् ॥ २२७ ॥ तथैव धातकीखण्डवेदिकान्तादनन्तरम् । योजनानां सहस्रेषु, गतेषु द्वादशस्विह ॥ २२८ ॥ प्राच्यां जम्बूद्वीपमेरोः, सन्त्यष्टौ लवणोदधौ । शशिदीपास्तत्र च दौ, शिखायाश्चरतोर्बहिः ॥ २२९ ॥ षडन्ये धातकीखण्डाक्तिनार्द्धप्रचारिणाम् । षण्णां हिमरुचामेवमेते सर्वेऽपि संख्यया ॥ २३० ॥ स्युश्चतुर्विंशतिश्चन्द्रसूर्यद्धीपा: सर्वेऽप्यमी । गौतमदीपसदृशा, मानतश्च स्वरूपतः ॥ २३१ ॥ जलोच्छ्रयावगाहादि, सर्वं ततोऽविशेषितम् । गौतमदीपवद्धाच्यं सर्वेषामपि सर्वथा ॥२३२ ॥ किंतु तत्रास्ति भौमेयमेषु प्रासादशेखरः । वाच्यः प्रत्येकमेकैको, भौमेयसममानकः ॥ २३३ ॥ प्रतिप्रासादमेकैकं, सिंहासनमनुत्तरम् । तेषु चन्द्राश्च सूर्याच, प्रभुत्वमुपभुञ्जते ॥ २३४ ॥ सुस्थितामरवत्सेव्याः, सामानिकादिभिः सुरैः । वर्षलक्षसहस्राढ्यपल्योपमायुषः क्रमात् ॥ २३५ ॥ एतेषां राजधान्योऽपि, स्वस्वदिक्षु मनोरमा: । स्युः सुस्थितपुरीतुल्याः, परस्मिल्लवणार्णवे ॥ २३६ ॥ ये तु सन्त्यन्तरदीपाः, षट्पञ्चाशदिहाम्बुधौ । निरूपितास्ते हिमवद्गिरिप्रकरणे मया ॥ २३७ ॥ एवमेकाशीतिरस्मिन्, दीपा लवणवारिधौ । वेलन्धराचलाश्चाष्टौ, दृष्टा दृष्टागमाब्धिभिः ॥ २३८ ॥ महापातालकलशाश्चत्वारो लघवश्च ते । सहस्राः सप्तचतुरशीतिश्चाष्टौ शतानि च ॥ २३९ ॥ रत्नदीपादयो येऽन्ये, श्रूयन्तेऽम्भोनिधाविह । द्वीपास्ते प्रतिपत्तव्याः, प्राप्तरूपैर्यथागमम् ॥ २४०॥ सुधांशवोऽस्मिंश्चत्वारश्चत्वारोऽश्चि तोयधौ । संचरन्ति समश्रेण्या, जम्बूदीपेन्दुभानुभिः ॥ २४१ ॥ यदा जम्बूद्वीपगतश्चारं चरति भानुमान् । एको मेरोदक्षिणस्यां, तदाऽस्मिन्नम्बुधावपि ॥ २४२ ॥ तेन जम्बूद्धीपगेन, समश्रेण्या व्यवस्थितौ । दक्षिणस्यामेवमेरोद्धौ चारं चरतो रवी ॥ २४३ ॥