________________
324
एकस्तत्रार्वाक् शिखायाः, समश्रेण्या सहामुना । शिखाया: परतोऽन्योऽब्धावुक्षेव युगयन्त्रितः ॥ २४४ ॥ एवमुत्तरतो मेरोयो, जम्बूदीपगो रविः । द्रौ पुनस्तत्समश्रेण्या, चरतोऽर्काविहाम्बुधौ ॥ २४५ ॥ तदा च चरतोर्जम्बूद्वीपे पीयूषरोचिषोः । मेरोः प्राच्या प्रतीच्यां च, समश्रेण्याऽम्बुधावपि ॥ २४६ ॥ दौ द्रौ शशाङ्कौ चरतः, पूर्वपश्चिमयोशिोः । अर्वाक् शिखाया एकैक, एकैक: परतोऽपि च ॥ २४७ ॥ एवं रवीन्दवो येऽग्रे, सन्ति मोत्तरावधि । जम्बूद्वीपचंद्रसूर्यसमश्रेण्या चरन्ति ते ॥ २४८ ॥ यथोत्तरं यदधिकाधिकक्षेत्राक्रमेऽपि ते । पर्याप्नुवन्ति सह तद्गत्याधिक्यात् यथोत्तरम् ॥ २४९ ॥ दृश्यते भ्रमतां श्रेण्या, मेढीमनु गवामिह । अर्वाचीनापेक्षयाऽन्यगत्याधिक्यं यथोत्तरम् ॥ २५० ॥ एवं सर्वेऽनुवर्त्तन्ते, जम्बूद्धीपेन्दुभास्कराः । मण्डलान्तरसंचारायनाहर्वृद्धिहानिभिः ॥ २५१ ॥ ततो जम्बूद्वीप इव, मोत्तराचलावधि । यदाऽहमरुतोऽपाच्या, तदैवोत्तरतोऽप्यहः ॥ २५२ ॥ सहैवैवं निशा मेरोः, पूर्वपश्चिमयोर्दिशोः । एवं जम्बूद्धीपरीतिः सर्वत्राप्यनुवर्तते ॥ २५३ ॥
उक्तं च सूर्यप्रज्ञप्तौ-'जया णं लवणसमुद्दे दाहिणड्ढे दिवसे भवति तया णं उत्तरड्ढेवि दिवसे भवति, तया णं लवणसमुद्दे पुरथिमपच्चत्थिमे राई भवइ, एवं जहा जंबुद्दीवे दीवे तहेव'
एवं धातकीखण्डकालोदपुष्करार्द्धसूत्राण्यपि ज्ञेयानि । नन्वत्र षोडशसहस्रोच्चया शिखयाऽम्बुधौ । ज्योतिष्काणां संचरतां, व्याघातो न गतेः कथम् ? ॥ २५४ ॥ बूमोन ये ज्योतिषिकविमाना लवणाम्बुधौ । ते भिन्दन्त: संचरन्ति, जलस्फटिकजा जलम् ॥ २५५ ॥ तदेतेषां जलकृतो, व्याघातो न गतेर्भवेत् । जलस्फटिकरत्नं हि, स्वभावाज्जलभेदकृत् ॥ २५६ ॥ अर्खलेश्याकास्तथैते, विमाना लवणोदधौ । तत: शिखायामप्येषां, प्रकाश: प्रथतेऽभितः ॥ २५७ ॥ सामान्यस्फटिकोत्थानि, शेषेषु दीपवार्धिषु । ज्योतिष्काणां विमानानि, नीचैःसर्पन्महांसि च ॥ २५८ ॥
तथाह विशेषणवती-“सोलससाहस्सियाए सिहाए कहं जोइसियविधातो न भवति ?,
तत्थ भन्नड़, जेणं सूरपण्णत्तीए भणियं—” “जोइसियविमाणाइं, सब्वाइं हवंति फालियमयाई । दगफालियामया, पुण लवणे जे जोइसविमाणा ॥"
जं सम्बदीवसमुद्देसु फालियामयाइं लवणसमुद्दे चेव केवलं दगफार्लियामयाई तत्थेदमेव ___ कारणं-मा उदगेण विघाओ भवउत्ति, जं सूरपण्णत्तीए चेव भणियंलवणंतो (णे जे) जोइसिया, उद्धलेसा भवंति णायब्बा । तेण परं जोइसिया, अहलेसागा (मु) णेयवा ॥ तंपि उदगमालावभासणत्यमेव, लोगठिई एसत्ति”
१-२ यद्यप्यत्र सामान्येन सूर्यप्रज्ञप्तिनाम्ना गाथायमेतत् संमतितया दर्शितं परमेतत् सूर्यप्रज्ञप्तिनियुक्तिगतं ज्ञेयं, यतः 'अद्धकाविठूति' गाथावृत्तौ श्रीदेवभद्रा यत् सूर्यप्रज्ञप्तिनियुक्ति:-'जोइसियविमाणाई' त्याद्युदितवन्तः ।