________________
322
योजनानां पञ्चदशा:, शतास्त्रयोऽष्ट चांशकाः । चतुःशती च पञ्चाशा, दशांशाश्च धरोण्डता ॥ १९१ ॥ एवं वेलन्धरावासपर्वतानां यथामतिः । स्वरूपं दर्शितं किञ्चिज्जीवाभिगमवर्णितम् ॥ १९२ ॥ सुमेरुत: पश्चिमायां, जम्बूद्धीपान्त्यभूमितः । सहस्रान् द्वादशातीत्य, लवणाम्भोनिधाविह ॥ १९३ ॥ योजनानां सहस्राणि, द्वादशायतविस्तृतः । शोभते गौतमद्वीपः, स्थानं सुस्थितनाकिनः ॥ १९४ ॥ सप्तत्रिंशत्सहस्राणि, योजनानां शतानि च । नवाष्टचत्वारिंशानि, दीपेऽस्मिन् परिधिर्भवेत् ॥ १९५ ॥ ढे गव्यूते जलादूर्ध्वमुच्छ्रितोऽब्धिशिखादिशि । अन्तेऽस्यास्मिन्नम्बुवृद्धिस्त्रैराशिकात्प्रतीयते ॥ १९६ ॥ तथाहि—सहस्रेषु द्वादशसु, द्वीपोऽयं तावदाततः । चतुर्विंशतिरित्येवं, सहस्रा वारिधेर्गताः ॥ १९७ ॥ ततश्च-सहस्रपञ्चनवतिपर्यन्ते यदि लभ्यते । जलवृद्धिोजनानां, शतानि सप्त निश्चिता ॥ १९८ ॥ चतुर्विंशत्या सहनैः, कियतीयं तदाप्यते । राशित्रयेऽन्त्याद्ययोश्च, कार्यं शून्यापवर्त्तनम् ॥ १९९ ॥ मध्यराशिः सप्तशती, गुणितोऽन्त्येन राशिना । चतुर्विंशतिरूपेण, सहस्राः षोडशाभवन् ॥ २०० ॥ ततश्च पञ्चनवतिरूपेणान्त्येन राशिना । विभज्यते ततो लब्धं, षट्सप्तत्यधिकं शतम् ॥ २०१॥ अशीतिः पञ्चनवतिभागाश्चैतावती किल । गौतमद्वीपपर्यन्ते, जलवृद्धिः शिखादिशि ॥ २०२ ॥ जम्बूद्धीपदिश्यमुष्य, राशेरद्धं जलोच्छ्रयः । युक्तश्चैष सहस्राणां, द्वादशानामतिक्रमे ॥ २०३॥ तत: पूर्वोक्तस्य राशेर्द्धं यदिदमास्थितम् । अष्टाशीतिर्योजनानि, चत्वारिंशत्तथा लवाः ॥ २०४ ॥ इयान् जम्बूद्धीपदिशि, दीपस्यास्योच्छ्यो जलात् । शिखादिगुदितदीपोच्छ्रयः क्रोशद्धयाधिकः ॥ २०५ ॥ त्रिंशत्पञ्चनवत्यंशाः, षड्विंशा शतयोजनी । भूनिम्नताऽस्मिन् पर्यन्ते, द्विगुणा च शिखादिशि ॥ २०६ ॥ एवं चमूलादुच्चो द्वीपदिशि, चतुर्दशं शतद्वयम् । क्रोशद्धयाधिकं पञ्चनवत्यंशाश्च सप्ततिः ॥ २०७ ॥ चतुःशती योजनानामेकोनत्रिंशताऽधिका । पञ्चचत्वारिंशदंशा, द्वौ क्रोशौ च शिखादिशि ॥ २०८ ॥ वनाढ्यया पद्मवेद्या, द्वीपोऽयं शोभतेऽभितः । नीलरत्नालियुग्मुक्तामण्डलेनेव कुण्डलम् ॥ २०९ ॥ दीपस्य मध्यभागेऽस्य, रत्नस्तम्भशताञ्चितम् । भौमेयमस्ति भवनं, क्रीडावासाभिधं शुभम् ॥ २१० ॥ द्वाषष्टिं योजनान्येतद्, द्धौ क्रोशौ च समुच्छ्रितम् । योजनान्येकत्रिंशतं, क्रोशाधिकानि विस्तृतम् ॥ २११ ॥ एतस्यावसथस्यान्तर्भूमिभागे मनोरमे । मध्यदेशे महत्येका, शोभते मणिपीठिका ॥ २१२ ॥ योजनायामविष्कम्भा, योजनार्द्धं च मेदुरा । उपर्यस्याः शयनीयं, भोग्यं सुस्थितनाकिनः ॥ २१३ ॥ सुस्थितः सुस्थिताभिख्यो, लवणोदधिनायकः । चतुःसामानिकसुरसहस्राराधितक्रमः ॥ २१४ ॥ परिवारयुजां चारुरुचां चतसृणां सदा । पट्टाभिषिक्तदेवीनां, तिसृणामपि पर्षदाम् ॥ २१५ ॥ सप्तानां सैन्यसेनान्यामात्मरक्षकनाकिनाम् । षोडशानां सहस्राणामन्येषामपि भूयसाम् ॥ २१६ ॥