________________
321
नव पञ्चदशाढ्यानि, शतान्येषामथाष्टभिः । भागे हृते लभ्यते यत्तदद्रीणां मिथोऽन्तरम् ॥ १६६ ॥ एषां समीपेऽम्बुवृद्धिर्जम्बूद्धीपदिशि स्फुटम् । समभूतलतुल्याम्भोऽपेक्षयोर्ध्वं पयोनिधौ ॥ १६७ ॥ नवोत्तरं योजनानां, शतत्रयं तथोपरि । पञ्चचत्वारिंशदंशाः पञ्चोनशतभाजिताः ॥ १६८ ॥ निश्चयः पुनरेतस्य, त्रैराशिकात्प्रतीयते । व्युत्पित्सूनां प्रमोदाय, तदप्यातस्य दर्श्यते ॥ १६९ ॥ यदि पञ्चसहस्रोनलक्षेण वर्द्धते जलम् । योजनानां सप्तशती, तदा तदर्द्धते कियत् ॥ १७० ॥ द्विचत्वारिंशत्सहस्त्रैरिति राशिवयं लिखेत् । आद्यन्तयोस्तत्र राश्योः कार्यं शून्यापवर्त्तनम् ॥ १७१ ॥ एतयोहि द्वयो राश्योः, साजात्यादपवर्तनम् । घटते लाघवार्थं च, क्रियते गणकैरिदम् ॥ १७२ ॥ मध्यराशिः सप्तशती, द्विचत्वारिंशदात्मना । अत्येन राशिना गुण्यस्तथा चैवंविधो भवेत् ॥ १७३ ॥ नूनं सहस्राण्येकोनत्रिंशत्पूर्णा चतुःशती । तत: पञ्चनवत्याऽयं, भाज्यः प्रथमराशिना ॥ १७४ ।। भागे हृते च यल्लब्धं, पानीयं तावदुच्छ्रितम् । जम्बूद्धीपदिश्यमीषां, समीपे तत्पुरोदितम् ॥ १७५ ॥ जम्बूदीपस्य दिश्येषां, गिरीणामन्तिके पुनः । गोतीर्थन धरोद्वेधः, स्यात्समो:व्यपेक्षया ॥ १७६ ॥ द्विचत्वारिंशदधिका, योजनानां चतुःशती । दश पञ्चनवत्यंशास्त्रैराशिकात्तु निश्चयः ॥ १७७ ॥ ननु पञ्चसहस्रोनलक्षान्ते यदि लभ्यते । भुवोऽवगाहः सहस्रस्तदाऽसौ लभ्यते कियान् ॥ १७८ ॥ द्विचत्वारिंशत्सहस्रपर्यन्त इति लिख्यते । राशिवयं कार्यमाद्यान्त्ययोः शून्यापवर्त्तनम् ॥ १७९ ॥ मध्यराशिः सहस्रात्मा, द्विचत्वारिंशदात्मना । हतोऽन्त्येन द्विचत्वारिंशत्सहस्राणि जज्ञिरे ॥ १८० ॥ आद्येन पञ्चनवतिलक्षणेनाथ राशिना । भागे हृते लभ्यतेऽयमवगाहो यथोदितः ॥ १८१ ।। योऽयं भूमेरवगाहो, यश्च प्रोक्तो जलोच्छ्रयः । एतद् दयं पर्वतानामुच्छ्रयादपनीयते ॥ १८२ ॥ अपनीतेऽवशिष्टं यत्तावन्मात्रो जलोपरि । जम्बूद्वीपदिष्यमीषां, गिरीणामयमुच्छ्रयः ॥ १८३ ॥ योजनानां नवशती, सैकोनसप्ततिस्तथा । चत्वारिंशद्योजनस्य, पञ्चोनशतजा लवाः ॥ १८४ ॥ अत्र चासर्गसंपूर्ति, यत्र क्वाप्यविशेषत: । वक्ष्यन्तेऽशा अमी सर्वे, पञ्चोनशतभाजिताः ॥ १८५ ॥ शिखराग्रादथैतावदुत्तीर्य यदि चिन्त्यते । अत्र प्रदेशे विष्कम्भो, ज्ञेयोऽमीषामयं तदा ॥ १८६ ॥ षष्ट्याढ्यानि योजनानां, शतानि सप्त चोपरि । अशीतियोजनस्यांशाः, पञ्चोनशतसंभवा ॥ १८७ ॥ तिर्यक्षेत्रेणेयता च, जलवृद्धिरवाप्यते । किञ्चिदूनाष्टपञ्चाशदंशाढ्या पञ्चयोजनी ॥ १८८ ॥ जम्बूदीपदिशि प्रोक्तात्, पर्वतानां समुच्छ्रयात् । स्यादस्यामपनीतायां, शिखादिशि नगोच्छ्रयः ॥ १८९ ॥ स चायंयोजनानां नवशती, त्रिषष्ट्याऽभ्यधिका किल । सप्तसप्ततिरंशाच, तथाऽत्र स्याज्जलोच्छ्रयः ॥ १९० ॥