________________
320
सुवर्णाङ्करत्नरूप्यस्फटिकैर्घटिताः क्रमात् । दिश्याश्चत्वारोऽपि शैलाः सर्वे विदिक्षु रत्नजाः ॥ १४० ॥ अष्टाप्यमी योजनानां सहस्रं सप्तभिः शतै: । एकविंशैः समधिकमुत्तुङ्गत्वेन वर्णिताः ॥ १४१ ॥ चतुःशर्ती योजनानां, त्रिंशां क्रोशाधिकाममी । वसुधान्तर्गताः पद्मवेदिकावनमण्डिताः ॥ १४२ ॥ मूले सहस्रं द्वाविंशं, सर्वेऽपि विस्तृता अमी । त्रयोविंशानि मध्ये च, शतानि सप्त विस्तृताः ॥ १४३ ॥ योजनानां चतुर्विंशां, चतुःशतीमुपर्यमी । विस्तृताः सर्वतो व्यासज्ञानोपायोऽथ तन्यते ॥ १४४ ॥ योजनादिषु यावत्सूत्तीर्णेषु शिखराग्रतः । वेलन्धरपर्वतानां विष्कम्भो ज्ञातुमिष्यते ॥ १४५ ॥ अतिक्रान्तयोजनादिरूपं तं राशिमञ्जसा । अष्टानवत्याऽभ्यधिकैर्गुणयेः पञ्चभिः शतैः ॥ १४६ ॥ जातं चैतेषां गिरिणामुच्छ्रयेण विभाजय । यल्लब्धं तच्चतुविंशचतुः शतयुतं कुरु ।। १४७ ।। कृते चैवं तत्र तत्र, विष्कम्भोऽभीप्सितास्पदे । वेलन्धराद्रिषु ज्ञेयो दृष्टान्तः श्रूयतामिह ॥ १४८ ॥
षष्टीनि शतान्यष्ट, द्वौ क्रोशौ च शिरोऽग्रतः । अतीत्य व्यासजिज्ञासा, चेदिदं गुण्यते तदा ॥ १४९ ॥ अष्टानवत्याढ्यपञ्चशत्यैवं पञ्च लक्षकाः । सहस्राः द्विः सप्त पञ्चशती सैकोनसप्ततिः ॥ १५० ॥ जातास्ते च हृता: सप्तदशशत्यैकविंशया । शतद्वयीं नवनवत्यधिकां ध्रुवमार्पयत् ।। १५१ ।। ततश्च सा चतुर्विंशैः शतैश्चतुर्भिरन्विताः । त्रयोविंशा सप्तशती, जातेयं तत्र विस्तृतिः ॥ १५२ ॥ मध्यव्यासोऽयमेवैषां सर्वत्रैवं विभाव्यताम् । स्यादुपायान्तरमेतन्मध्यविष्कम्भनिश्चये ॥ १५३ ॥ मूले शिरे च विष्कम्भौ, यौ तद्योगेऽर्द्धिते सति । सर्वत्र मध्यविष्कम्भो, लभ्योऽत्र भाव्यतां स्वयम् ।। १५४ ।। एषां वेलन्धराद्रीणां, मूलांशे परिधिं जिना: । जगुः शतानि द्वात्रिंशत्, सह द्वात्रिंशतोनया ।। १५५ ।। मध्ये सषडशीतीनि, द्वाविंशतिः शतानि च । किञ्चित्समतिरेकाणि, परिक्षेपो निरूपितः ॥ १५६ ॥ उपरि स्यात्परिक्षेपः, शतान्येषां त्रयोदश । किञ्चिदूनैकचत्वारिंशता युक्तानि भूभृताम् ॥ १५७ ॥ द्विसप्ततिः सहस्राणि शतमेकं चतुर्दशम् । योजनानामष्टभक्तयोजनस्य लवास्त्रयः ।। १५८ ।। अष्टानामेतदेतेषां मूलभागे मिथोऽन्तरम् । वेलन्धरसुराद्रीणां प्रत्ययश्चात्र दर्श्यते ॥ १५९ ॥ मूलभागे यदैतेषामन्तरं ज्ञातुमिष्यते । एकादशा पञ्चशत्येतदर्द्धगा तदन्विता ॥ १६० ॥ द्विचत्वारिंशत्सहस्रैर्वाद्धिगैरेकतो यथा । क्रियते परतोऽप्येवमित्येतद् द्विगुणीकुरु ॥। १६१ ॥ पञ्चाशीतिः सहस्राणि, द्वाविंशान्यभवन्निह । मध्यस्थजम्बूद्धीपस्य, लक्षमेकं तु मील्यते ॥ १६२ ॥ एतेषां परिधिः पञ्च, लक्षा योजनसङ्ख्यया । पञ्चाशीतिः सहस्राणि तथैकनवतिः परा ॥ १६३ ॥ अष्टानामप्यथाद्रीणां, व्यासोऽस्मादपनीयते । षट्सप्तत्याढ्यशतयुक्सहस्राष्टक संमितः ॥ १६४ ॥ अपनीतेऽस्मिंश्च पूर्वराशिरीदृग्विधः स्थितः । पञ्च लक्षाः सहस्राणि षट्सप्ततिस्तथोपरि ।। १६५ ।।