SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ 319 तया सामुद्दया ईसिं, जया णं सामुद्दया ईसिं णो णं तया दीविच्चया ईसिं ?. गो० ! तेसिं णं वायाणं अन्नमन्नविवच्चासेणं लवणसमुद्दे वेलं नातिक्कमइ,” “अन्योऽन्यव्यत्यासेन" यदैके ईषत् पुरोवातादिविशेषणा वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः । वेलं नाइक्कमइत्ति तथाविधवायुद्रव्यसामर्थ्याबेलायास्तथास्वभावत्वाच्चे” त्युक्तं, अत्र ईसिं पुरोवातादिनि विशेषणानि त्वेवं-'ईसिं पुरोवायत्ति मनाक् सत्रेहवाता: ‘पच्छा वाय'त्ति पथ्या वनस्पत्यादिहिता वायवः 'मंदा वाय'त्ति मन्दाः-शनैः शनैः संचारिणः अमहावाता इत्यर्थ: ‘महावाय'त्ति उद्दण्डा वाता:, अनल्पा इत्यर्थः । वेलन्धराणामेतेषां, भवन्त्यावासपर्वताः । अस्मिन्नेवाम्बुधौ पूर्वादिषु दिक्षु चतसृषु ॥ १२२ ॥ तथाहिजम्बूद्धीपवेदिकान्तात्पूर्वस्यां दिशी वारिधौ । गोस्तूप: पर्वतो भाति, वेलन्धरसुराश्रयः ॥ १२३ ॥ नानाजलाशयोद्भूतैः, शतपत्रादिभिर्यतः । गोस्तूपाकृतिभी रम्यो, गोस्तूपोऽयं गिरिस्ततः ॥ १२४ ॥ जलं यद्भासयत्यष्टयोजनीं परितोऽशुभिः । ततो नाम्नोदकभासोऽपाच्यां वेलन्धराचलः ॥ १२५ ॥ पश्चिमायां शङ्खनामा, नगः सोऽप्यन्विताभिधः । शङ्खाभैः शतपत्राद्यैर्जलाश्रयोद्भवैर्लसन् ॥ १२६ ॥ उत्तरस्यां दिशि वेलन्धरावासधराधरः । दकसीमाभिधः शीताशीतोदोदकसीमकृत् ॥ १२७ ॥ शीतोशीतोदयोनद्योः, श्रोतांसीह धराधरे । प्रतिघातं प्राप्नुवन्ति, दकसीमाभिधस्ततः ॥ १२८ ॥ एवं च शीताशीतोदे, पूर्वपश्चिमयोर्दिशोः । प्रविश्य वारिधौ याते, उदीच्यामिति निश्चयः ॥ १२९ ॥ गोस्तूपे गोस्तूपसुरो, दकभासगिरौ शिवः । शङ्ख शङ्खो दकसीमपर्वते च मनःशिल: ॥ १३० ॥ सामानिकसहस्राणां, चतुर्णां च चतसृणाम् । पट्टाभिषिक्तदेवीनां, तिसृणामपि पर्षदाम् ॥ १३१ ॥ सैन्यानां सैन्यनाथनां, सप्तानामप्यधीश्वराः । आत्मरक्षिसहस्रश्च, सेव्या: षोडशभिः सदा ॥ १३२ ॥ स्वस्वावासपर्वतानामाधिपत्यममी सदा । पालयन्ति पूर्वजन्मार्जितपुण्यानुसारतः ॥ १३३ ॥ आज्ञाप्रतीच्छका एषां, सन्त्येतदनुयायिनः । अनुवेलन्धरास्तेषां, विदिक्ष्वावासर्पताः ॥ १३४ ॥ कर्कोटकाद्रिरैशान्यां, विद्युत्प्रभोऽग्निकोणके । कैलाशो वायवीयायां नैर्ऋत्यामरुणप्रभः ॥ १३५ ॥ कर्कोटक: कईमकः, कैलाशश्चारुणप्रभः । एषां चतुर्णामद्रीणामीशा गोस्तूपसश्रियः ॥ १३६ ॥ यथास्वमेषामष्टानां, रम्या दिक्षु विदिक्षु च । राजधान्यः स्वस्वनाम्ना, परस्मिन् लवणार्णवे ॥ १३७ ॥ असङ्ग्येयान् दीपवार्टीनतीत्य परत: स्थिते । योजनानां सहस्राणि, वगाह्य द्वादश स्थिताः ॥ १३८ ॥ जम्बूदीपवेदिकान्तादष्टापि स्वस्वदिक्ष्वमी । द्विचत्वारिंशत्सहस्रयोजनातिक्रमेऽद्रयः ॥ १३९ ॥ १ वातानां तथा वाते जगत्स्वभाववत् दीपस्थसङ्घादिकारणतायां का हानिः, तत्कृतश्च वेलोपगमाभाव:, प्रतिकूलवातेन वेगेन वेलाया आगम: स्यात् शनैरागमस्तु दीपस्थसड्यादिभावकृत एव, सकलेष्टप्राप्त्यनिष्टसमागमाभावस्यादृष्टकृतता । २ पूर्वतो महाप्रवाहागमे प्रास्थितजलस्योदगादिषु स्यादेव प्रवृत्तिः, तथा चोदकसीमाभिधानस्य सार्थकता ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy