________________
317
चत्वारिंशत्सहस्रात्मा, शोध्यते मुखविस्तृतिः । महापातालकुम्भानामस्माद्राशेस्तत: स्थितम् ॥ ७८ ॥ अष्टौ लक्षा: षष्ट्यधिकाः, सहस्रा: सप्तसप्ततिः । भागे चतुर्भिरेतेषां, लब्धं तत्रान्तरं भवेत् ॥ ७९ ॥ लक्षद्वयं सहस्राणामेकोनविंशतिस्तथा । सपञ्चषष्टिदिशती, कुम्भानां महतां पृथक् ॥ ८० ॥ चतुर्भुप्यन्तरेष्वेषु, पङ्क्तयो नव नव स्थिता: । लघुपातालकुम्भानामाद्यपङ्क्तौ च ते स्मृताः ॥ ८१ ॥ प्रत्येकं द्वे शते पञ्चदशोत्तरे किलान्तरम् । पूर्वोक्तं गुरुकुम्भानामेवमेभिश्च पूर्यते ॥ ८२ ॥ एकै कस्योदरव्यासः, सहस्रयोजनात्मकः । ततः शतद्वयं पञ्चदशसहस्रताडितम् ॥ ८३ ॥ सहनैः पञ्चदशभिर्युक्तं लक्षद्वयं भवेत् । लघुकुम्भैरियद्रुद्धमेकै कस्यान्तरस्य वै ॥ ८४ ।। शेषं सहस्राश्चत्वारो, द्विशती पञ्चषष्टियुक् । रुद्धं कथञ्चित्तत्प्रौढकुम्भान्तरमिथोऽन्तरैः ॥ ८५ ॥ परिधेर्वर्द्धमानत्वात्पङ्क्तौ पङ्क्तौ यथोत्तरम् । एकैककलशस्यापि, वृद्धिर्वाच्या वचस्विभिः ॥ ८६ ॥ तत: पङ्क्तौ द्वितीयस्यां, द्वे शते षोडशोत्तरे । पङ्क्तौ नवम्यामेवं स्युस्त्रयोविंशं शतद्वयम् ॥ ८७ ॥ एकसप्तत्युपेतानि, शतान्येकोनविंशतिः । एकै कस्मिन्नन्तरे स्युर्लघवः सर्वसङ्ग्यया ॥८८ ॥ चतुर्णामन्तराणां च, मिलिता: सर्वसङ्ख्यया । स्फुरच्चतुरशीतीनि, स्युः शतान्यष्टसप्ततिः ॥ ८९ ॥
___ अयं च संप्रदायो ‘वीरं जयसेहरे' त्यादिक्षेत्रसमासवृत्यभिप्रायेण, बृहत्क्षेत्रसमासवृतौ
जीवाभिगमवृत्त्यादौ त्वयं न दृश्यते । लघुपातालकलशा, अमी सर्वेऽप्यधिष्टिताः । सदा महर्द्धिकैर्देवैः, पल्योपमार्द्धजीविभिः ॥ ९० ॥
__ अयं क्षेत्रसमासवृत्त्याद्यभिप्रायः, जीवाभिगमसूत्रवृत्तौ च अर्द्धपल्योपमस्थितिकाभिर्देवताभिः
परिगृहीता इत्युक्तं । शतयोजनविस्तीर्णा, एते मूले मुखेऽपि च । मध्य सहस्रं विस्तीर्णाः, सहसं १मोदरे स्थिता: ॥ ९१ ॥ दशयोजनबाहल्यवज्रकुड्यमनोरमाः । वायुवायूदकाम्भोभिः, पूर्णत्र्यंशत्रयाः क्रमात् ॥ १२ ॥ सयोजनतृतीयांशं, त्रयस्त्रिंशं शतत्रयम् । तृतीयो भागा एकैक, एषां निष्टड़ितो बुधैः ॥ ९३ ॥ लघवोऽपि महान्तोऽपि, यावन्मग्ना भुवोन्तरे । उत्तुङ्गास्तावदेव स्युर्भूमीतलसमाननाः ॥ ९४ ॥ एषां पातालकुम्भानां, लघीयसां महीयसाम् । मध्यमेऽधस्तने चैवं, त्र्यंशे जगत्स्वभावत: ॥ ९५ ॥ समकालं महावाताः, संमूर्च्छन्ति सहस्रशः । क्षुभितैस्तैश्चोपरिस्थं, बहिर्निस्सार्यते जलम् ॥ ९६ ॥ तेन निस्सार्यमाणेन, जलेन क्षुभितोऽम्बुधिः । वेलया व्याकुलात्मा स्यादुद्रमन्निव वातकी ॥ ९७ ॥ जगत्स्वाभाव्यत एव, शान्तेषु तेषु वायुषु । पुन: पातालकुम्भानां, जलं स्वस्थानमाश्रयेत् ॥ ९८ ॥ जलेषु तेषु स्वस्थानं, प्राप्तेषु सुस्थितोदकः । स्वास्थ्यमापद्यतेऽम्भोधिर्वातकीव कृतौषधः ॥ ९९ ॥ मूर्च्छन्ति दिरहोरात्रे, वाता: स्वस्थीभवन्ति च । ततो द्विः प्रत्यहोरात्रं, वर्द्धते हीयतेऽम्बुधिः ॥ १०० ॥