SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 316 कालो महाकालनामा, वेलम्बश्च प्रभञ्जनः । क्रमादधीश्वरा एषां, पल्यायुषो महर्द्धिकाः ॥ १२ ॥ समन्ततो वज्रमयात्मनामेषां निरूपिता: । बाहल्यतष्ठिक्करिकाः, सहस्रयोजनोन्मिताः ॥ ६३ ॥ योजनानां सहस्राणि, दश मूले मुखेऽपि च । विस्तीर्णा मध्यभागे च, लक्षयोजनसंमिता: ॥ ६४ ॥ एकप्रादेशिक्या श्रेण्या, मूलाद्विवर्द्धमानाः स्युः । मध्यावधि वक्रावधि, ततस्तथा हीयमानाश्च ॥ ६५ ॥ इति प्रवचनसारोद्धारवृत्तौ, परमेतत्तदोपपद्यते यद्येषां मध्यदेशे दश योजनसहस्राणि यावत् लक्षयोजनविष्कम्भता स्याद्, यतः प्रदेशवृद्ध्या ऊर्ध्वं पञ्चचत्वारिंशद्योजनसहनातिक्रम एव उभयतो मूलविष्कम्भाधिकायां पञ्चचत्वारिंशत्सहस्ररूपायां विष्कम्भवृद्धौ सत्यां यथोक्तोलक्षयोजनरूपो विष्कम्भ: संपद्यते, एवं हानिरपि, सा त्वेषां मध्ये दश योजनसहस्राणि यावल्लक्षयोजनविष्कम्भता क्याप्युक्ता न दृश्यते, तदत्र तत्त्वं बहुश्रुता विदन्ति । योजनानां लक्षमेकमवगाढा भुवोऽन्तरे । रत्नप्रभामूलभागं, द्रष्टुमुत्कण्ठिता इव ॥६६॥ लक्षद्धयं योजनानां, सहस्राः सप्तविंशतिः । सप्तत्याढ्यं शतमेकं, त्रय: क्रोशास्तथोपरि ॥ ६७ ॥ एतत्पातालकलशमुखानामन्तरं मिथः । एतन्मूलविभागानामप्येतावदिहान्तरम् ॥ ६८ ॥ उपपत्तिश्चात्र-एषां चतुर्णां वदनविस्तारपरिवर्जिते । पयोधिमध्यपरिधौ, चतुर्भक्ते मुखान्तरम् ॥ ६९ ॥ तथाऽब्धिमध्यपरिधेरेतेषां मध्यविस्तृतौ । शोधितायां चतुर्भक्त, शेषे स्याज्जठरान्तरम् ॥७॥ योजनानां लक्षमेकं, सप्तत्रिंशत्सहस्रयुक् । सप्तत्याढ्यं शतं क्रोशास्त्रयस्तदिदमीरितम् ॥७१॥ कल्प्यन्तेऽशास्त्रयोऽमीषां, स चैकैकः प्रमाणत: । त्रयस्त्रिंशत्सहस्राणि, त्रयस्त्रिंशं शतत्रयम् ॥ ७२ ॥ योजनानां योजनस्य, तृतीयांशेन संयुतम् । अधस्तने तृतीयांशे, तत्र वायुर्विजृम्भते ॥७३॥ मध्यमे च तृतीयांशे, वायुर्वारि च तिष्ठतः । तृतीये च तृतीयांशे, वर्त्तते केवलं जलम् ॥ ७४ ॥ अन्येऽपि लघुपातालकलशा लवणाम्बुधौ । सन्ति तेषामन्तरेषु, क्षुद्रालिञ्जरसंस्थिताः ॥७५ ॥ तथोक्तं जीवाभिगमवृत्तौ-"तेषां पातालकलशानामन्तरेषु तत्र तत्र देशे यावत् क्षुद्रालिञ्जरसंस्थानाः क्षुल्ला: पातालकलशा प्रज्ञप्ता” इति, अत्रायं संप्रदाय:जम्बूदीपवेदिकान्तादतीत्य लवणाम्बुधौ । सहस्रान् पञ्चनवतिं, तत्रायं परिधिः किल ॥ ७६ ॥ सल्लक्षद्वयनवतिसहस्रविस्तृतेर्भवेत् । नव लक्षाः सप्तदश, सहस्राणि च षट्शती ॥७७ ॥ अयं भावः, पञ्चनवतिः सहस्राः समुद्रसंबन्धिन एकपाचे, तावन्त एव द्वितीयपार्छ, मध्ये चैकं लक्षं जम्बूद्वीपसंबन्धि, एवं द्विलक्षनवतिसहस्रविष्कम्भक्षेत्रस्य परिधिर्नव लक्षाः सप्तदश सहस्राः षट्शतीत्येवंरूपो भवतीति ॥ २. प्रदेशोऽत्र विवक्षितो भागः, एकस्मिन् प्रदेशे जलावगाहाभावात्, तद्धौ च समप्रमाणाविरोधात्, प्रत्यंशमेव वृद्धिरत्रेत्यर्थकमेतत् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy