________________
315
सपञ्चदशकोटीनि, नव कोटीशतान्यथ । परिपूर्णा योजनानां, लक्षाः पञ्चाशदेव च ॥ ४१ ॥ एतावद् घनगणितं कथितं लवणार्णवे । विलसत्केवलालोकविलोकितजगत्त्रयैः ॥ ४२ ॥ नन्वेतावद् घनमिह, कथमुत्पद्यते ? यतः । न सर्वत्र सप्तदश सहस्राणि जलोच्छ्रयः ॥ ४३ ॥ किंतु मध्यभाग एव, सहस्रदशकावधि । अत्रोच्यते सत्यमेतत्तत्त्वमाकर्ण्यतां परम् ॥ ४४ ॥ अब्धेः शिखाया उपरि, द्वयोश्च वेदिकान्तयोः । दत्तायां दवरिकायामृज्ज्यामेकान्ततः किल ॥ ४५ ॥ अन्तराले यदाकाशं, स्थितमम्बुधिवर्जितम् । तत्सर्वमेतदाभाव्यमित्यम्बुधितयाऽखिलम् ॥ ४६ ॥ विवक्षित्वा मानमेतन्निरूपितं घनात्मकम् । एतद्विवक्षाहेतुस्तु, गम्यः केवलशालिनाम् ॥ ४७ ॥ तथाहुर्दुष्षमा ध्वान्तनिर्मग्नागमदीपकाः । विशेषणवतीग्रन्थे, जिनभद्र गणीश्वराः ॥ ४८ ॥
“एयं उभयवेइयंताओ सोलससहस्सुस्सेहस्स कन्नगईए जं लवणसमुद्दाभव्यं जलसुन्नंपि वित्तं तस्स गणियं, जहा मंदरस्स पव्वयस्स एक्कारसभागहाणी कण्णगइए आगासस्सवि तदाभव्वंति काऊण भणिया तहा लवणसमुद्दस्सवि.”
मुखैश्चतुर्मुख इव, द्वारैश्चतुर्भिरेष च । जगत्याऽऽ लिङ्गितो भाति, स्थितैर्दिक्षु चतसृषु ॥ ४९ ॥ पूर्वस्यां विजयद्वारं; शीतोदाया: किलोपरि । धातकीखण्डपूर्वार्द्धाद्धिशंत्या लवणाम्बुधौ ॥ ५० ॥ द्वाराणि वैजयन्तादीन्यप्येवं दक्षिणादिषु । सन्त्यस्य दिक्षु तिसृषु, जम्बूदीप इव क्रमात् ॥ ५१ ॥ विजयाद्याश्च चत्वारो, द्वाराधिष्ठायकाः सुराः । ज्ञेयाः प्रागुक्तविजयसदृक्षाः सकलात्मना ॥ ५२ ॥ एतेषां राजधान्योऽपि स्मृताः सर्वात्मना समाः । राजधान्या विजयया, प्राक्प्रपञ्चितरूपया ॥ ५३ ॥ एताः किंतु स्वस्वदिशि, क्षारोदकभयादिव । असङ्ख्यद्वीपपाथोधीनतीत्य परतः स्थिताः ॥ ५४ ॥ नाम्नैव लवणाम्भोधौ, रुचिरेक्षुरसोदके । योजनानां सहस्राणि, वगाह्य द्वादश स्थिताः ॥ ५५ ॥ सहस्राः पञ्चनवतिस्तिस्रो लक्षाः शतद्वयम् । अशीतियुक् योजनानां, क्रोशो द्वारामिहान्तरम् ॥ ५६ ॥ द्वाराणां परिमाणं च, निःशेषरचनाञ्चितम् । जम्बूद्वीपद्वारगतमनु संघीयतामिह ।। ५७ ।। अथास्मिन्नम्बुधौ वेला, वर्द्धते हीयते च यत् । तत्रादिकारणीभूतान्, पातालकलशान् ब्रुवे ॥ ५८ ॥ सहस्रान् पञ्चनवतिं, वगाह्य लवणाम्बुधौ । योजनानां स एकैको, मेरोर्दिक्षु चतसृषु ॥ ५९ ॥ एवं च
पातालकुम्भाश्चत्वारो, महालिञ्जरसंस्थिताः । वैरं स्मृत्वाऽब्धिना ग्रस्ता, अगस्त्यस्येव पूर्वजाः ॥ ६० ॥ वडवामुखनामा प्रागपाक्केयूपसंज्ञितः । प्रतीच्यां यूपनामायमुदीच्यामीश्वराभिधः ॥ ६१ ॥ दाक्षिणात्यकलशस्य बृहत्क्षेत्रसमासवृत्तौ केयूप इति नाम, प्रवचनसारोद्धारवृत्तौ केयूर इति,
१
समवायाङ्गवृत्तौ स्थानाङ्गवृत्तौ च केतुक इति ॥
१. केऊए इति देश्यशब्देन त्रयाणामप्यवगमनस्य नासंभवः ।