________________
314
यथाऽत्र पञ्चनवतेोजनानामतिक्रमे । विभज्यन्ते योजनानि, पञ्चोनेन शतेन वै ॥ २१ ॥ एकं योजनमाप्तं यत्तत्षोडशभिराहतम् । योजनानि षोडशैवं, ज्ञातस्तत्र जलोच्छ्रयः ॥ २२ ॥ तथाहुः क्षमाश्रमणमिश्रा:- [बृहत्क्षेत्रसमास अधि. २. श्लो. ८६] “जत्थिच्छसि उस्सेहं, ओगाहित्ताण लवणसलिलस्स । पंचाणउइविभत्ते, सोलसगुणिए गणियमाहु” ॥ एतच्च धातकीखण्डजम्बूद्धीपान्त्यभूमितः । दत्त्वा दवरिकां मध्ये, शिखोपरितलस्य वै ॥२३॥ अपान्तराले च किमप्याकाशं यत् जलोज्झितम् । तत् सर्वं कर्णगत्यैतत्संबन्धीति जलै तम् ॥ २४ ॥ विवक्षित्वा मानमुक्तं, जलोच्छ्रयस्य निश्चितम् । मेरोरेकादशभागपरिहाणिरिवागमे ॥२५॥
तथाहुः–श्रीमलयगिरिपादा:-“इह षोडशसहस्रप्रमाणायाः शिखायाः शिरसि उभयोश्च वेदिकान्तयोर्मूले दवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि कर्णगत्या तदाभाव्यमिति सजलं विवक्षित्वा विवक्षितमुच्यमानमुच्चत्वपरिमाणमवसेयं, यथामन्दरपर्वतस्यैकादश
भागपरिहाणि" रिति । वस्तुतः पुनरुभयाीपयोर्वेदिकान्ततः । प्रदेशवृद्धयोभयतो, वर्द्धतेऽम्बु क्रमात्तथा ॥ २६ ॥ यथाऽस्मिन् पञ्चनवतिसहस्रान्ते भवेज्जलम् । योजनानां सप्त शतान्युच्छ्रितं समभूतलात् ॥ २७ ॥ योजनानां सहस्रं चोद्धेधोऽत्र समभूतलात् । एवं सप्तदश शतान्यु धोऽत्र पयोनिधेः ॥ २८॥ ततः परे मध्यभागे, सहस्रदशकातते । जलोच्छ्रयो योजनानां, स्यात्सहस्राणि षोडश ॥ २९ ॥ सहस्रमत्राप्युद्धेध, उच्छ्रयोद्धेधतस्तत: । योजनानां सप्तदश, सहस्राण्युदकोच्चयः ॥३०॥ एवं जघन्योच्छ्रयोऽस्याङ्गलासङ्घयांशसंमित: । उत्कर्षतो योजनानां, सहस्राणि च षोडश ॥ ३१ ॥ मध्यमस्तूच्छ्रयो वाच्यो, यथोक्ताम्नायतोऽम्बुधेः । तत्र तत्र विनिश्चित्य, जलोच्छ्रयमेनकधा ॥ ३२ ॥ अथास्य लवणाम्भोधेर्गणितं प्रतरात्मकम् । घनात्मकं च निर्णतुं, यथाऽऽगममुपक्रमे ॥ ३३ ॥ लवणाम्बुधिविस्तारात्सहस्राणि दश स्फुटम् । शोघयित्वा शेषमर्नीकृतं दशसहस्रयुक् ॥ ३४ ॥ जातं पञ्चसहस्राढ्यं, लक्षमेकमिदं पुनः । अस्मिन् प्रकरणे कोटिरित्येवं परिभाषितम् ॥ ३५ ॥ अथैवंरूपया कोट्या, गणयेल्लवणाम्बुधेः । मध्यमं परिघेर्मानं, स्यादेवं प्रतरात्मकम् ॥ ३६ ॥ तच्चेदंसहस्रा नव कोटीनां, तथा नव शतान्यपि । एकषष्टिः कोटयश्चः, लक्षाः सप्तदशोपरि ॥ ३७॥ सहस्राणि पञ्चदश, योजनानामिदं जिनैः । प्रतरं लवणे प्रोक्तं, सर्वक्षेत्रफलात्मकम् ॥ ३८ ॥ मध्यभागे सप्तदश, सहस्राणि यदीरितम् । जलमानं तदनेन, प्रतरेणाहतं घनम् ॥ ३९ ॥ कोट्य: षोडश कोटीनां, लक्षास्त्रिनवतिस्तथा । एकोनचत्वारिंशच्च, सहस्राणि ततः परम् ॥ ४० ॥