________________
313
अथैकविंशतितमः सर्गः अथास्य जम्बूद्धीपस्य, परिक्षेपकमम्बुधिम् । कीर्तयामि कीर्तिगुरुप्रसादप्रथितोद्यमः ॥१॥ तस्थुषो भोगिन इवावेष्ट्यैनं दीपशेवधिम् । क्षारोदकत्वादस्याब्धेलवणोद इति प्रथा ॥२॥ चक्रवालतया चैष, विस्तीर्णो लक्षयोर्द्धयम् । योजनानां परिक्षेपपरिमाणमथोच्यते ॥३॥ एकाशीतिसहस्राढ्या, लक्षाः पञ्चदशाथ च । शतमेकोनचत्वारिंशताऽऽढ्यं किञ्चिदूनया ॥४॥ एषोऽस्य बाह्यपरिधिर्धातकीखण्डसन्निधौ । जम्बूद्धीपस्य परिधिर्यः स एवान्तर: पुनः ॥५॥ पूर्वपूर्वदीपवाद्धिपरिक्षेपा हि येऽन्तिमाः । त एवाण्यायपाथोधिदीपेष्वभ्यन्तरा मताः ॥६॥ अभ्यन्तरबाह्यपरिक्षेपयोगेऽद्धिते सति । परिक्षेपा मध्यमाः स्युर्विनाऽऽद्यं दीपवादिषु ॥७॥ लक्षा नवाष्टचत्वारिंशत्सहस्राणि षट्शती । त्र्यशीतिश्च मध्यमोऽयं, परिधिलवणोदधौ ॥८॥ प्रवेशमार्गरूपो यस्तटाकादिजलाश्रये । भूप्रदेश: क्रमान्नीचः, सोऽत्र गोतीर्थमुच्यते ॥९॥ गोतीर्थं तच्च लवणाम्बुधावुभयतोऽपि हि । प्रत्येकं पञ्चनवतिं, सहस्रान यावदाहितम् ॥ १० ॥ जम्बूद्धीपेवेदिकान्तेऽङ्गलासंख्यांशसंमितम् । गोतीर्थं धातकीखण्डवेदिकान्तेऽपि तादृशम् ॥ ११ ॥ ततश्चअब्धावुभयतो यावद्गम्यतेऽशाङ्गलादिकम् । भक्ते तस्मिन् पञ्चनवत्याऽऽप्तं यत्तन्मितोण्डता ॥ १२ ॥ यथा पञ्चनवत्यांशैरतिक्रान्तैः पयोनिधौ । भुवोंऽशो हीयते पञ्चनवत्याऽङ्गलमङ्गलैः ॥ १३ ॥ योजनैश्च पञ्चनवत्यैकं योजनमप्यथ । शतैः पञ्चनवत्या च, योजनानां शतं हसेत् ॥ १४ ॥ एवं च पञ्चनवतिसहस्रान्ते समक्षितेः । निम्नतोभयतोऽप्यत्र, जाता सहस्रयोजना ॥ १५ ॥ तथाहुः- “जत्थिच्छसि उब्वेहं, ओगाहित्ताण लवणसलिलस्स । पंचाणउविभत्ते, जं लद्धं सो उ उव्वेहो ॥ ततश्चद्वयोर्गोतीर्थयोर्मध्ये, सहस्रयोजनोन्मितः । स्यादुद्वेधः सहस्राणि, दश यावत्समोऽभितः ॥ १६ ॥ जम्बूदीपवेदिकान्तेऽङ्गलासङ्ख्यांशसंमितम् । सलिलं धातकीखण्डवेदिकान्तेऽपि तादृशम् ॥ १७ ॥ तत: पञ्चनवत्यांशैर्वर्द्धन्ते षोडशांशकाः । अङ्गलैः पञ्चनवत्या, वर्द्धन्ते षोडशाङ्गुली ॥ १८ ॥ अत्रायमाम्नाय:धातकीखण्डतो जम्बूद्धीपतो वा पयोनिधौ । जिज्ञास्यते जलोच्छ्रायो, यावत्स्वंशाङ्गलादिषु ॥ १९ ॥ पञ्चोनशतभक्तेषु, सत्सु तेषु यदाप्यते । तत् षोडशगुणं यावत्तावांस्तत्र जलोच्छ्रयः ॥ २० ॥