SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 311 ६६२ ॥ नयेत् धनिष्ठाहोरात्रान्, भाद्रस्याद्यांश्चतुर्दश । ततः शतभिषक् सप्त, पूर्वाभद्रपदाष्ट च ।। ६५९ ।। सोत्तरान्त्यमहोरात्रं, सैवेषस्य चतुर्दश । ततः पौष्णं पञ्चदश, चरमं चैकमश्विनी ॥ ६६० ॥ अश्विन्येव कार्त्तिकस्य, नयत्याद्यांश्चतुर्दश । अहोरात्रान् पञ्चदश, भरण्येकं च कृत्तिकाः ॥ ६६१ ॥ समापयन्ति ता एव, सहस्याद्यांश्चतुर्दश । ब्राह्मी पञ्चदशान्त्यं च मृगशीर्षं समापयेत् ॥ पौषस्यापि तदेवाद्यानहोरात्रान् समापयेत् । चतुर्दश तथाऽऽर्द्राऽष्टौ ततः सप्त पुनर्वसू ॥ ६६३ ॥ पुष्योऽस्यान्त्यमहोरात्रं, माघेऽप्याद्यांश्चतुर्दश । समापयेत् पञ्चदशाश्लेषा तथान्तिमं मघाः ।। ६६४ ॥ पूरयन्ति फाल्गुनस्य, मघा आद्यांश्चतुर्दश । ततः पञ्चदश पूर्वाफाल्गुनी सोत्तरान्तिमम् ॥ ६६५ ॥ उत्तराफाल्गुनी चैत्रे, नयत्याद्यांश्चतुर्दश । ततो हस्तः पञ्चदश, चित्राहोरात्रमन्तिमम् ॥ ६६६ ॥ अहोरात्रांस्ततश्चित्रा, नयेच्चतुर्दशादिमान् । वैशाखस्य पञ्चदश, स्वातिरन्त्यं विशाखिका ॥ ६६७ ॥ समापयत्यथ ज्येष्ठे, विशाखाद्यांश्चतुर्दश । सप्तानुराधा ज्येष्ठाष्टौ, मूलः पर्यन्तवर्त्तिनम् ॥ ६६८ ॥ मूलः समापयत्याद्यानाषाढस्य चतुर्दश । पूर्वाषाढा पञ्चदशोत्तराषाढान्त्यवर्त्तिनम् ॥। ६६९ ।। संग्रहश्चात्र । “सत्तठ्ठ अभिसवणे, तह सयभिसए य पुब्बभद्दवए । अद्दा पुण्णब्बसूए, राहा जेठा य अणुक्रमसो ॥ पन्नस्सदिणे सेसा, रत्तिविरामं कुणंति णक्खत्ता । उत्तरसाढा आसाढचरिमदिवसा गणिज्जंति” ॥ प्रयोजनं त्वेषाम् । यथा नभश्चतुर्भागमारूढेऽर्के प्रतीयते । प्रथमा पौरूषी मध्यमहश्च व्योममध्यगे ।। ६७० ।। चतुर्भागावशेषं च, नभः प्राप्तेऽन्त्यपौरूषी । ज्ञायन्ते रजनीयामा, अप्येभिरुडुभिस्तथा ॥ ६७१ ॥ तथाहुरुत्तराध्ययने । “जं णेइ जया रत्तिं, णक्खत्तं तं मिणह चउप्पभागे । संपत्ते विरमेज्जा सज्ज्ञाओ पओसकालंमि । तम्मेव य णख्खत्ते, गयण चउब्भागसावसेसंमि । वेरत्तियंपि कालं, पडिलेहित्ता मुणी कुणइ ॥ [ अध्ययन - २६, गाथा १९-२० ] ग्रन्थान्तरे च । दह तेरह सोलहमे, विसमेइ सूरियाओ णक्खत्ता । मत्थयगयंमि णेयं, स्यणी जा भाणपरिमाणम्” ॥ शीतकाले च दिनाधिकमानायां रात्रौ सूर्यभात् एकादशचतुर्दशसप्तदशैकविंशतितमैर्नक्षत्रैर्नभोमध्यं प्राप्तैर्यथाक्रमं प्रथमादिप्रहरान्तः स्यादिति संप्रदायः ॥ लोके च । “रविरिखाओ गणियं, सिररिखं जाव सत्तपरिहीणम् । सेसं दुगुणं किच्चा, तीया राई फुडा हवइ” ॥ इत्यादि बहुधा ॥ इत्यहोरात्रसमापकनक्षत्रकीर्तनम् ॥ १५ ॥ समाप्तं चेदं नक्षत्रप्रकरणम् ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy