________________
309
लोके तु स्त्नमालायाम्-तुरगमुखसदृक्षं योनिरूपं क्षुराभम् । शकटसममथैणस्योत्तमाङ्गेन तुल्यम् । मणिगृहशरचक्रनाभिशालोपमं भं, शयनसदृशमन्यच्चात्र पर्यकरूपम् ॥ हस्ताकारनिभं च मौक्तिकनिभं चान्यत् प्रवालोपमम्, धिष्ण्यं तोरणावत्स्थितं मणिनिभं सत्कुण्डलाभं परम् । क्रुध्यत्केसरिविक्रमेण सदृशं शय्यासमानं परम्, चान्यद्दन्तिविलासवस्थितमत: शृंगाटकव्यक्ति च ॥ त्रिविक्रमाभं च मृदङ्गरूपं, वृत्तं ततोऽन्यद्यमलद्धयाभम् । पर्यंङ्करूपं मुरजानुकारमित्येवमश्वादिभचक्ररूपम् ॥ इत्याकृतिः ॥ ११ ॥ सप्तषष्टिलवैः सप्तविंशत्याभ्यधिकान्यथ । योगो नवमुहूर्त्तानि,
शशिनाभिजितो मतः ॥ ज्येष्टाश्लेषाभरण्याा , स्वातिश्च शततारिका । मुहूर्तानि पञ्चदश, योग एषां सुधांशुना ॥ ६२४ ॥ उत्तरात्रितयं ब्राह्मी, विशाखा च पुनर्वसू । पञ्चचत्वारिंशदेषां, मुहूर्तान् योग इन्दुना ॥ ६२५ ॥ पञ्चदशानां शेषाणामुडूनां शशिना सह । योगस्त्रिंशन्मुहूर्तानीत्येवमाहुर्जिनेश्वराः ॥ ६२६ ॥ प्रयोजनं त्वेषाम् । मृते साधौ पञ्चदशमुहूर्त नैव पुत्रकः । एकः त्रिंशन्मुहूत्तैस्तु क्षेप्यः शेषैस्तु भैरुभौ ॥ एतान्यर्धसार्धसमक्षेत्राण्याहुर्यथाक्रमम् । अथैषां रविणा योगो, यावत्कालं तदुच्यते ॥ ६२७ ॥ मुहूत्तैरेकविंशत्याढ्यानि रात्रिंदिवानि षट् । अर्धक्षेत्राणामुडूनां, योगो विवस्वता सह ॥ ६२८ ॥ सार्धक्षेत्राणां तु भानां, योगो विवस्वता सह । त्रिभिर्मुहूत्तैर्युक्तानि, रात्रिंदिवानि विंशतिः ॥ ६२९ ॥ समक्षेत्राणामुडूनामहोरात्रांस्त्रयोदश । मुहूत्तैश्च द्वादशभिरधिकान् रविसंगतिः ॥ ६३०॥ रात्रिंदिवानि चत्वारि, षण्मुहूर्त्ताधिकानि च । नक्षत्राभिजित् चारं, चरत्युष्णरुचा सह ॥ ६३१ ॥ अत्रायमाम्नायः । सप्तषष्टयुद्भवानंशानहोरात्रस्य यावतः । यन्नक्षत्रं चरत्यत्र, रजनीपतिना सह ॥ ६३२ ॥ तन्नक्षत्रं तावतोऽहोरात्रस्य पञ्चमान् लवान् । भानुना चरतीत्यत्र, दृष्टान्तोऽप्युच्यते यथा ॥ ६३३ ॥ सप्तषष्टिलवानेकविंशतिं शशिना सह । चरत्यभिजिदण, तावतः पञ्चमान् लवान् ॥ ६३४ ॥ अहोरात्रस्येति शेषः ॥ अथैकविंशतिः पञ्चभक्ता दिनचतुष्टयम् । दद्यादेकोशकः शेषस्त्रिंशता स निहन्यते ॥ ६३५॥ जाता त्रिंशत् अर्थतस्याः, पञ्चभिर्भजने सति । षण्मुहूर्ता: करं प्राप्ता, एवं सर्वत्र भावना ॥ ६३६ ॥ तथाहुः । “जं रिक्खं जावइए, वच्चइ चंदेण भागसत्तठ्ठी । तं पणभागे राइंदियस्स सुरेण तावइए” ॥ सप्तषष्टिस्तदर्धं च, चतुस्त्रिंशं तथा शतम् । समाद्धसार्धक्षेत्रेषु, सप्तषष्टिलवाः क्रमात् ॥ ६३७ ॥ इति सूर्येन्दुयोगाद्धामानम् ॥ १२ ॥