SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 307 विशेषस्त्वनयोर्गत्योः, कश्चिन्नास्ति स्वरूपतः । प्रत्ययः कोऽत्र यद्येवं, तत्रोपायो निशम्यताम् ।। ५८० ॥ स्वस्वमण्डलपरिधिर्मण्डलच्छेदराशिना । विभज्यते यल्लब्धं तत्सुधिया ताड्यते किल ॥ ५८१ ॥ उक्तेन्दर्कोडूभागात्ममुहूर्त्तगतिराशिभिः । मुहूर्त्तगतिरेषां स्यात् पूर्वोक्ता योजनात्मिका ॥ ५८२ ॥ त्रैराशिकेन यदिवा, प्रत्ययोऽस्या विधीयताम् । किं तत् त्रैराशिकमिति, यदीच्छा तन्निशम्यताम् ॥ ५८३॥ स्यात् मण्डलापूर्त्तिकालो, विधोः प्रागवत् स वर्णितः । पञ्चविंशाः शताः सप्त, सहस्राश्च त्रयोदश ॥ ५८४ ॥ अस्योपपत्तिर्योजनात्मकमुहूर्त्तगत्यवसरे दर्शितास्ति ॥ ततश्च, पञ्चविंशसप्तशतत्रयोदशसहस्रकैः मुहूर्ताशैर्लक्षमष्टानवतिश्च शता यदि ।। ५८५ ।। मण्डलांशा अवाप्यन्ते, ब्रूताऽऽप्यन्ते तदा कति । एकेनान्तर्मुहूर्त्तेन, राशित्रयमिदं लिखेत् ॥ ५८६ ।। आयो राशि मुहूर्तांशरूपोन्त्यस्तु मुहूर्त्तकः । सावर्ण्यार्थमेकविंशद्विशत्याऽन्त्यो निहन्यते ॥ ५८७ ॥ एकविंशा द्विशती स्यात्, मध्यराशिरथैतया । हतः कोटिद्वयं लक्षा, द्विचत्वारिंशदेव च ॥ ५८८ ॥ पञ्चषष्टिः सहस्राणि, शतान्यष्ट भवन्त्यतः । पञ्चविंशसप्तशतत्रयोदशसहस्रकैः ।। ५८९ ।। एषां भागे हृते लब्धा, मुहूर्तगतिरैन्दवी । भागात्मिका यथोक्ता च सा खेरपि भाव्यते ।। ५९० ।। पूर्वोक्तो मण्डलच्छेदराशि: षष्ट्या मुहूर्त्तकैः । यद्याप्यते मुहूर्त्तेन, तदैकेन किमाप्यते ॥ ५९१ ॥ गुणितोऽन्त्येनैककेन, मध्यराशिस्तथा स्थितः । अष्टादशशतीं त्रिंशां, यच्छत्याद्येन भाजितः ॥ ५९२ ॥ भमण्डलपूर्तिकालमानं भवेत् सवर्णितम् । षष्टीयुक्ता नवशती, सहस्राश्चैकविंशतिः ॥ ५९३ ॥ उपपत्तिरस्य योजनात्मकगत्यवसरे दर्शितास्ति ॥ ततश्च, एतावद्भिर्मुहूर्त्ताशैर्मण्डलच्छेदसंचयः । प्रागुक्तश्वेल्लभ्यते, तन्मुहूर्त्तेन किमाप्यते ॥ ५९४ ॥ सावर्ण्ययाद्यान्तिमयोः, गुण्यतेऽन्तिम एककः । ससप्तषष्ट्या त्रिशत्या, तादृगुपः स जायते ।। ५९५ ।। हतोऽनेन मध्यराशिश्चतस्रः कोटयो भवेत् । द्वे लक्षे षण्णवतिश्च, सहस्राः षट् शतानि च ।। ५९६ ।। तस्याद्यराशिना भागे, लब्धा भानां लवात्मिका । अष्टादशशती पञ्चत्रिंशा मुहूर्त्तजा गतिः ।। ५९७ ॥ इति दिग्योगस्तत्प्रसंगात् सीमाविष्कम्भादिनिरूपणं च ॥ ८ ॥ ब्रह्मा विष्णुर्वसुश्चैव वरुणाजाभिवृद्धयः । पूषाश्वश्च यमोऽग्निश्च प्रजापतिस्ततः परम् ॥ ५९८ ॥ सोमो रुद्रोऽदितिश्चैव, बृहस्पतिस्तथापरः । सर्पोऽपरः पितृनामा, भगोऽर्यमाभिधोऽपि च ।। ५९९ ।। सूरस्त्वष्टा तथा वायुरिन्द्राग्नी एकनायकौ । मित्रेन्द्रनैऋता आपो, विश्वेदेवास्त्रयोदश ॥ ६०० ॥ अभिवृद्धेरहिर्बुध्न्यः इत्याख्यान्यत्र गीयते । सोमश्चन्द्रो रविः सूर, ईदृशाख्या परे सुराः ॥ ६०१ ॥ बृहस्पतिरपि प्रसिद्धो ग्रह एव ॥ अमी अभिजिदादीनामुडूनामधिपाः स्मृताः । येषु तुष्टेषु नक्षत्रतुष्टी रुष्टेषु तद्रुषः ॥ ६०२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy