SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 306 तावन्मानमेकमद्धमण्डलं कल्प्यते धिया । द्वितीयोडुकदम्बेन, द्वितीयमद्धमण्डलम् ॥५५४ ॥ अष्टानवतिशताढ्य, लक्षं सम्पूर्णमण्डलेषु । स्युः सर्वेष्वंशा एष च, विज्ञेयो मण्डलच्छेदः ॥ ५५५ ॥ ननु च मण्डलेषु येषु यानि, चरन्त्युडूनि तेष्वियम् । चन्द्रादियोगयोग्यानां, भांशानां कल्पनोचिता ॥ ५५६ ॥ सर्वेष्वपि मण्डलेषु, सर्वोडुभागकल्पना । इयर्ति कथमौचित्यमिति चेत् श्रूयतामिह ॥५५७ ॥ भानां चन्द्रादिभियोगो, नैवास्ति नियते दिने । न वा नियतवेलायां, दिनेऽपि नियते न सः ॥ ५५८ ॥ तेन तत्तन्मण्डलेषु, यथोदितलवात्मसु । तत्तन्नक्षत्रसम्बन्धिसीमाविष्कम्भ आहितः ॥ ५५९ ॥ प्राप्तौ सत्यां मृगाङ्कादेर्योग: स्यादुडुभिः सह । एवमर्कस्यापि योगो, भिन्नमण्डलवर्तिनः ॥ ५६० ॥ एवं भसीमाविष्कम्भादिषु प्राप्तप्रयोजनः । प्रागुक्तो मण्डलच्छेद, इदानीमुपपाद्यते ॥ ५६१ ॥ त्रिविधानीह ऋक्षाणि, समक्षेत्राणि कानिचित् । कियन्ति चार्धक्षेत्राणि, सार्द्धक्षेत्राणि कानिचित् ॥ ५६२ ॥ क्षेत्रमुष्णत्विषा यावदहोरात्रेण गम्यते । तावत्क्षेत्रं यानि भानि, चरन्ति शशिना समम् ॥ ५६३ ॥ समक्षेत्राणि तानि स्युरर्धक्षेत्राणि तानि च । अर्धं यथोक्तक्षेत्रस्य, यान्ति यानीन्दुना सह ॥ ५६४ ॥ यथोक्तं क्षेत्रमध्यधु, प्रयान्ति यानि चेन्दुना । स्युस्तानि सार्धक्षेत्राणि, वक्ष्यन्तेऽग्रेऽभिधानतः ॥ ५६५ ॥ तत्र पञ्चदशाद्यानि, षट्कं षट्कं परद्वयम् । अहोरात्रः सप्तषष्टिभागीकृतोऽत्र कल्प्यते ॥ ५६६ ॥ ततः समक्षेत्रभानि, प्रत्येकं सप्तषष्टिधा । कल्प्यानीति पञ्चदश, सप्तषष्टिगुणीकृताः ॥ ५६७ ॥ जातं सहसपञ्चाढ्यमद्धक्षेत्रषु भेषु च । सास्त्रियस्त्रिंशदंशाः, प्रत्येकं कल्पनोचिताः ॥ ५६८ ॥ ततश्च षडजाः सार्धास्त्रयस्त्रिंशज्जातं सैकं शतद्धयम् । सार्धक्षेत्रेषु प्रत्येकं, भागाश्चा(शयुक्शतम् ॥ ५६९ ॥ सार्धक्षेत्राणि षडिति, त एते षड्गुणीकृताः । सत्रीणि षट्शतान्येकविंशतिश्चाभिजिल्लवाः ॥ ५७० ॥ अष्टादश शतान्येवं, त्रिंशानि सर्वसंख्यया । एतावदंशप्रमितं, स्यादेकमद्धमण्डलम् ॥ ५७१ ॥ तावदेवापरमिति, द्वाभ्यामिदं निहन्यते । षष्ट्यधिकानि षट्त्रिंशच्छतानीत्यभवन्निह ॥ ५७२ ॥ त्रिंशन्मुहूर्ता एकस्मिन्नहोरात्र इति स्फुटम् । सषष्टिषत्रिंशदंशशतेषु कल्पनोचिता ॥ ५७३॥ त्रिंशात् विभागाः प्रत्येकं, गुण्यन्ते त्रिंशतेति ते । जातं लक्षमेकमष्टानवत्या संहितं शतैः ॥ ५७४ ॥ एतस्मात् मण्डलछेदमानादेव प्रतीयते । शशाङ्कभास्करोडूना, गत्याधिक्यं यथोत्तरम् ॥ ५७५ ॥ तथाहि । ऐकैकेन मुहूर्तेन, शशी गच्छति लीलया । प्रकान्तमण्डलपरिक्षेपांशानां यदा तदा ॥ ५७६ ॥ अष्टषष्ट्या समधिकैरधिकं सप्तभिः शतैः । सहस्रमेकमर्कस्तु, मुहूर्तेनोपसर्पति ॥५७७ ॥ त्रिंशान्यष्टादश शतान्युडूनि संचरन्ति च । पञ्चत्रिंशत्समधिकान्यष्टादशशतानि वै ॥ ५७८ ॥ उक्तेन्दुभास्करोडूनां, गति: प्राक् योजनात्मिका । इयं त्वंशात्मिका चिन्त्यं, पौनरुक्त्यं ततोऽत्र न ॥ ५७९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy