________________
305
भमण्डलानां सर्वेषां, मण्डलेष्वमृतद्युतेः । समवतारस्तत्राद्यमाये शशाङ्कमण्डले ॥ ५२९ ।। भमण्डलं द्वितीयं च, तृतीये चन्द्रमण्डले । षष्ठे तृतीयं विज्ञेयं, लवणोदधिभाविनि ॥५३० ॥ चतुर्थं सप्तमे ज्ञेयं, तथा पञ्चममष्टमे । विज्ञेयं दशमे षष्ठमेकादशे च सप्तमम् ॥ ५३१ ॥ अष्टमं च पञ्चदशे, शेषाणि तु सदोडुभिः । सप्त चन्द्रमण्डलानि, रहितानि विनिर्दिशेत् ॥ ५३२ ॥ एषां चन्द्रमण्डलानां, परिक्षेपानुसारतः । पूर्वोक्तविधिना भानां, मुहूर्तगतिराप्यते ॥ ५३३ ॥ इति चन्द्रमण्डलावेशः ॥ ७ ॥ अभिजिच्छ्रवणश्चैव, धनिष्टा शततारिका । पूर्वोत्तरा भाद्रपदा, रेवती पुनरश्विनी ॥ ५३४ ॥ भरणी फाल्गुनी पूर्वा, फाल्गुन्येव तथोत्तरा । स्वातिश्च द्वादशैतानि, सर्वाभ्यन्तरमण्डले ॥ ५३५ ॥ चरन्ति तन्मण्डलार्धं, यथोक्तकालमानतः । पूरयन्ति तदन्याळू, तथा तान्यपराण्यपि ॥ ५३६ ॥ पुनर्वसूमघाश्चेति, द्वयं द्वितीयमण्डले । तृतीये कृत्तिकास्तूर्ये चित्रा तथा च रोहिणी ॥ ५३७ ॥ विशाखा पञ्चमे षष्ठेऽनुराधा सप्तमे पुन: । ज्येष्ठाष्टमे त्वष्ट भानि, सदा चरन्ति तद्यथा ॥ ५३८ ॥ आर्द्रा मृगशिरः पुष्पोऽश्लेषा मूलं करोऽपि च । पूर्वाषाढोत्तराषाढे, इत्यष्टान्तिममण्डले ॥ ५३९ ॥ पूर्वोत्तराषाढयोस्तु, चतुस्तारकयोरिह । ढे ढे स्तस्तारके मध्ये, बहिश्चाष्टममण्डलात् ॥ ५४० ॥ अष्टानां द्वादशानां च, बाह्याभ्यन्तरचारिणाम् । सर्वेभ्योऽपि बहिर्मूलं, सर्वेभ्योऽप्यन्तरेऽभिजित् ॥ ५४१ ॥ तथाहुः । “अह भरणि साइ उवरि बहि मूलोऽभिंतरे अभिई ॥” [बृहत्संग्रहणी गाथा ५०] यानि द्वादश ऋक्षाणि, सर्वाभ्यन्तरमण्डले ॥ तानि चन्द्रस्योत्तरस्यां, संयुज्यन्तेऽमुना समम् ॥ ५४२ ॥ एभिर्यदोडुभिः सार्धं, योगस्तदा स्वभावतः । शेषेष्वेव मण्डलेषु, भवेच्चारो हिमयुतेः ॥ ५४३ ॥ सर्वान्तर्मण्डलस्थानामेषामुत्तरवर्तिता । चन्द्रात् युक्ता तदेभ्यश्च, विधोदक्षिणवर्तिता ॥ ५४४ ॥ मध्यमीयमण्डलेषु, यान्युक्तान्यष्ट तेषु च । विना ज्येष्ठां त्रिधा योगः, सप्तानां शशिना समम् ॥ ५४५ ॥ औत्तराहो दाक्षिणात्यो, योग: प्रमर्दनामकः । आयो बहिश्चरे चन्द्रे, द्वितीयोन्तश्चरे स्वतः ॥ ५४६ ॥ प्रमो भविमानानि, भिन्त्वेन्दो: गच्छतो भवेत् । योगः प्रमर्द एव स्याज्ज्येष्ठायाः शशिना समम् ॥ ५४७ ॥ उडून्याद्यानि षट् भेषु, बाह्यमण्डलवर्तिषु । इन्दोर्दक्षिणदिक्स्थानि, संयुज्यन्तेऽमुना समम् ॥ ५४८ ॥ पूर्वोत्तराषाढ्योः तु बाह्यताराव्यपेक्षया । याम्यायां शशिना योगः, प्रज्ञप्तः परमर्षिभिः ॥ ५४९ ॥ द्वयोर्दयोस्तारयोस्तु, चन्द्रे मध्येन गच्छति । भवेत् प्रमर्दयोगोऽपि, ततो योगोऽनयोर्दिधा ॥ ५५० ॥ उदीच्यां दिशि योगस्तु, संभवेन्नानयोर्भयोः । यदाभ्यां परतश्चारः, कदापीन्दोर्न वर्त्तते ॥ ५५१ ॥ विभिन्नमण्डलस्थानां, पृथक्मण्डलवर्तिना । नक्षत्राणां चन्द्रमसा, यथा योगस्तथोच्यते ॥ ५५२ ।। स्वस्वकालप्रमाणेनाष्टाविंशत्या किलोडुभिः । निजगत्या व्याप्यमानं, क्षेत्रं यावद्भिभाव्यते ॥ ५५३ ॥