________________
304
उपपत्तिश्चात्रनक्षत्रं सर्वमप्यत्र, पूरयेत् स्वस्वमण्डलम् । मुहूत्तैरेकोनषष्ट्या , मुहूर्तस्य तथा लवैः ॥ ५०४ ॥ ससप्तषष्टित्रिशतविभक्तस्य त्रिभिः शतैः । सप्तोत्तरैः प्रत्ययश्च, त्रैराशिकात्तदुच्यते ॥ ५०५ ॥ नक्षत्रार्धमण्डलानां, संपूर्णयुगवर्तिनाम् । पञ्चत्रिंशत्समधिकर्यद्यष्टादशभिः शतैः ॥ ५०६ ॥ अष्टादशशती त्रिंशाहोरात्राणामवाप्यते । द्वाभ्यामर्धमण्डलाभ्यां, किमाप्यते तदा वद ॥ ५०७ ॥ अत्रान्त्यराशिना राशौ, मध्यमे गुणिते सति । त्रिसहस्री षट्शती च, जाता षष्ट्यधिका किल ॥ ५०८ ॥ पञ्चत्रिंशत्समधिकेनाष्टादशशतात्मना । आद्येन राशिना भागे, रात्रिंदिवमवाप्यते ॥ ५०९ ॥ अष्टादशशती शेषा, पञ्चविंशतियुक् स्थिता । मुहूर्तानयनायैषा, त्रिंशता गुणिताऽभवत् ॥ ५१० ॥ चतुःपञ्चाशत्सहस्राः, सार्द्धा सप्तशतीति च । एषां भागेऽष्टादशभिः पञ्चत्रिंशद्युतैः शतैः ॥ ५११ ॥ लब्धा मुहूर्ता एकोनत्रिंशत् ततोऽपवर्तनम् । छेद्यछेदकयो: राश्योः, पञ्चभिस्तौ ततः स्थितौ ॥ ५१२ ॥ सप्ताढ्या त्रिशती भाज्यो, भाजकः सप्तषष्टियुक् । त्रिशती येऽत्र लब्धाश्चैकोनत्रिंशत् मुहूर्त्तकाः ॥ ५१३ ॥ त्रिंशन्मुहूर्तरूपेऽहोरात्रे पूर्वागतेऽन्विताः । ते मुहूर्ताः स्युरेकोनषष्टी राशिरसौ पुनः ॥५१४ ॥ गुण्यते भागसाम्याय, सप्तषष्टिसमन्वितैः । त्रिभिः शतैः क्षिप्यतेऽस्मिन, सप्ताढ्यांशशतत्रयी ॥ ५१५ ॥ सषष्टिर्नवशत्येवं, सहस्राश्चैकविंशतिः । अयं च राशि: परिधेर्भाजकः प्रतिमण्डलम् ॥ ५१६ ॥ तिम्रो लक्षाः पञ्चदश, सहस्राणि तथोपरि । नवाशीतिः परिक्षेपः, सर्वाभ्यन्तरमण्डले ॥ ५१७ ॥ राशियोजनरूपोऽयं, भागात्मकेन राशिना । कथं विभाज्योऽसदृशस्वरूपत्वादसौ ततः ॥ ५१८ ॥ तेनैवार्हति गुणनं, गुणितो येन भाजकः । ततस्त्रिभिः शतैः सप्तषष्ट्याढ्यैरेष गुण्यते ॥ ५१९ ॥ जाता एकादश कोट्यः, षट्पञ्चाशच्च लक्षकाः । सप्तत्रिंशत्सहस्राणि, षट्शती च त्रिषष्टियुक् ॥ ५२० ॥ सहजैरेकविंशत्या, षष्ठ्याढ्यैर्नवभिः शतैः । भागेऽस्य राशेः प्रागुक्ता, मुहूर्तगतिराप्यते ॥ ५२१ ॥ तथा योजनानां त्रिपञ्चाशच्छती सैकोनविंशतिः । सहरेकविंशत्या, षष्ट्याढ्यैर्नवभिः शतैः ॥ ५२२ ॥ भक्तस्य योजनस्यांशसहस्रा: षोडशोपरि । सपञ्चषष्टिस्त्रिशती, गतिः सर्वान्त्यमण्डले ॥ ५२३ ॥ तथाहि, लक्षत्रयं योजनानामष्टादशसहस्रयुक् । शतत्रयं पञ्चदश, परिक्षेपोन्त्यमण्डले ॥ ५२४ ॥ अयं त्रिभिः सप्तषष्टिसहितैः ताडित: शतैः । कोट्य एकादश लक्षा, अष्टषष्टिः किलादिकाः ॥ ५२५ ॥ सहनैरेकविंशत्या, शतैः षड्भिः सपञ्चभिः । राशेरस्यैकविंशत्या, सहनैनवभिः शतैः ॥ ५२६ ॥ हृते षष्ट्यधिकैर्भागे, मुहूर्त्तगतिराप्यते । नक्षत्राणां किल सर्वबाह्यमण्डलचारिणाम् ॥ ५२७ ॥ इति मुहूर्त्तगतिः ॥ ६ ॥ षट्सु शेषमण्डलेषु, मुहूर्तगतिसंविदे । सुख्खेन तत्तत्परिधिज्ञानाय क्रियतेऽधुना ॥ ५२८ ॥