SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 303 यदुक्तं समवायाङ्गे सप्तविंशे समवाये । “जम्बुद्दीवे दीवे अभीइवज्जेहिं सत्ताविसाहिं णक्वत्तेहिं संववहारे वट्टइ” ॥ एतवृत्तिर्यथा । “जम्बूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः । सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्त्तते अभिजिन्नक्षत्रस्य उत्तराषाढाचतुर्थपादानुप्रवेशनात् । इति ॥ लोके तु, औत्तराषाढमन्त्यांहिचतमश्च श्रुतेर्घटी: । वदन्त्यभिजितो भोगं, वेधसत्ताद्यवेक्षणे ॥ ४८९ ॥ अष्टावेव मण्डलानि, स्युरष्टाविंशतेरपि । उडूनां तत्र चारस्तु, नियते स्वस्वमण्डले ॥ ४९० ॥ इति मण्डलसंख्या ॥ १ ॥ साशीतियोजनशते, द्वीपस्यान्तरवर्तिनि । उक्तं मुक्तिवधुकान्तैर्नक्षत्रमण्डलद्धयम् ॥ ४९१ ॥ त्रिंशे च योजनशतत्रये लवणवारिधेः । षड् नक्षत्रमण्डलानि, दृष्टानि विष्टपेक्षिभिः ॥ ४९२ ॥ नक्षत्रमण्डलं चक्रवालविष्कम्भतो भवेत् । गव्यूतमेकं प्रत्येकं, गव्यूतार्धं च मेदुरम् ॥ ४९३ ॥ एवं नक्षत्रजातीयमण्डलक्षेत्रसंमितिः । दशोत्तरा पञ्चशती, योजनानां निरूपिता ॥ ४९४ ॥ न त्वैकैकस्य ऋक्षस्य, मण्डलक्षेत्रसम्भव: । रवेरिवायनाभावात्, सदा चारात् स्वमण्डले ॥ ४९५ ॥ इति मण्डलक्षेत्रम् ॥ २ ॥ यत्र यत्र यानि यानि, वक्ष्यन्ते भानि मण्डले । स्यात्तदीयविमानानां, वे योजने मिथोन्तरम् ॥ ४९६ ॥ मिथोऽन्तरमुडूनां, चेदिदमेव भवेत्तदा । मण्डलक्षेत्रमन्यत् स्यात्, भूशून्यं तच्च नेष्यते ॥ ४९७ ॥ यत्तु “दो जोअणाइं णक्खत्तमंडलस्स णक्खत्तमण्डलस्स य अबाहाए अंतरे पण्णत्ते" इत्येतत् जम्बूदीपप्रज्ञप्तिसूत्रं तत् अष्टास्वपि मण्डलेषु यत्र यत्र मण्डले यावन्ति नक्षत्राणां विमानानि तेषामन्तरबोधकम् ॥ यच्च अभिजिन्नक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमन्तरं ढे योजने इति उपाध्यायश्रीशान्तिचन्द्रगणिभः स्वकृतवृत्तौ व्याख्यायि तदभिप्रायं सम्यक् न विद्मः । यद्यप्युपाध्यायश्रीधर्मसागरगणिभिः स्वकृतवृत्तौ एतत्सूत्रव्याख्याने द्वे योजने नक्षत्रस्य नक्षत्रस्य चाबाधया अन्तरं प्रज्ञप्तमित्येव लिखितमस्ति तदप्यभिप्रायशून्यमेव ॥ चतुश्चत्वारिंशतैव, सहरष्टभिः शतैः । विंशैश्च योजनैमरोः, सर्वान्तरं भमण्डलम् ॥ ४९८ ॥ सहनैः पञ्चचत्वारिंशता विशैस्त्रिभिः शतैः । योजनैर्मरुतः सर्वबाह्यं नक्षत्रमण्डलम् ॥ ४९९ ॥ इति मेरोखाधा ॥ ४ ॥ विष्कम्भायामपरिधिप्रमुखं मानमेतयोः । रवेः सर्वान्तरसर्वबाह्यमण्डलयोरिव ॥ ५०० ॥ इति मण्डलविष्कम्भादि ॥५॥ सहस्राणि पञ्च शतद्वयं च पञ्चषष्टियुक् । योजनानि योजनस्य, भक्तस्यैकस्य निश्चितम् ॥ ५०१ ॥ एकविंशत्या सहनैः, षष्ट्याढ्यैर्नवभिः शतैः । विभागाश्च समधिकाः, पूर्वोक्तयोजनोपरि ॥ ५०२ ॥ अष्टादश सहस्राणि, शतद्वयं त्रिषष्टियुक् । सर्वान्तर्मण्डलोडूनां, मुहूर्तगतिरेषिका ॥ ५० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy