________________
302
हृते भाज्याड्रेऽयनानि, लब्धान्येकोनविंशतिः । शेषा भागसप्तशती, द्विसप्तत्यधिका स्थिता ॥ ४६८ ॥ अस्या भागे सप्तषष्ट्या, लब्धा रुद्रमिता दिनाः । शेषाः पञ्चत्रिंशदंशास्तिष्ठन्ति सप्तषष्टिजाः ॥ ४६९ ॥ चन्द्रायणान्यतीतानीत्येवमेकोनविंशतिः । अनन्तरमतीतं यत्तच्चन्द्रस्योत्तरायणम् ॥ ४७० ॥ वर्त्तमानस्य च याम्यायनस्य वासरा गताः । एकादश लवाः पञ्चत्रिंशच्च सप्तषष्टिजा: ॥ ४७१ ॥ अत्र पूर्णा भविष्यन्ति, समाप्ते पञ्चमे तिथौ । एवमन्यत्रापि भाव्यं, करणं गणकोत्तमैः ॥ ४७२ ॥ इन्दुः तत्परिवारच, रूपकान्त्यादिभिः भृशम् । सश्रीक इति विख्यातः, शशी प्राकृतभाषया ॥ ४७३ ॥ मृगश्चिन्हं विमानेऽस्य, पीठिकायां प्रतिष्ठितम् । मृगाङ्कितविमानत्वात्, मृगाङ्क इति वोच्यते ॥ ४७४ ॥ तथा च पञ्चमाङ्गे।
__“से केणटेणं भंते ! एवं वुच्चइ चंदे ससी? चंदे ससी गोयम ! चंदस्स णं ज्योतिसिंदस्स
जोतिसरण्णो मियंके विमाणे कन्ता देवा कन्ताओ देवीओ।” इत्यादि ॥ १२ श. ५ उ. । इति चन्द्रस्वरूपनिरूपणम् ॥ एवं संक्षेपतश्चन्द्रनिरूपणं यथा कृतम् । तथैव वर्णयामोऽथ, नक्षत्राणां निरूपणम् ॥ ४७५ ॥ आदौ संख्या मण्डलानां, तेषां क्षेत्रप्ररूपणा । एक ऋक्षविमानानां, तथाऽन्तरं परस्परम् ॥ ४७६ ॥ सुमेरोमण्डलाबाधा, विष्कम्भादि च मण्डले । मुहूर्त्तगतिरावेशः, शशाङ्कमण्डलैः सह ॥४७७ ॥ दिग्योगो देवतास्तारासंख्योडूनां तथाकृतिः । सूर्येन्दुयोगाद्धामानं, कुलाद्याख्यानिरूपणम् ॥ ४७८ ॥ अमावास्यापूर्णिमानां, नक्षत्रयोगकीर्त्तनम् । प्रतिमासमहोरात्रसमापकानि तानि च ॥ ४७९ ॥ एभिश्च पञ्चदशभिरैः पूर्गोपुरैरिव । गम्योडूपरिपाटीति, तामेव प्रथमं ब्रुवे ॥ ४८० ॥ अभिजित् श्रवणं चैव, धनिष्ठा शततारिका । पूर्वा भद्रपदा सैवोत्तरादिकाथ रेवती ॥ ४८१ ॥ अश्विनी भरणी चैव, कृत्तिका रोहिणी तथा । मृगशीर्षं तथा चार्द्रा, पुनर्वसू ततः परम् ॥ ४८२ ॥ पुष्योऽश्लेषा मघा: पूर्वाफाल्गुन्युत्तरफाल्गुनी । हस्तश्चित्रा तथा स्वातिविशाखा चानुराधिका ॥ ४८३॥ ज्येष्ठा मूलं तथा पूर्वाषाढा सैवोत्तरापि च । जिनप्रवचनोपज्ञो, नक्षत्राणामयं क्रमः ॥ ४८४ ॥ अश्विन्याः कृत्तिकाया: यत्, प्रसिद्धं लौकिकक्रमम् । उल्लंध्यात्र प्रवचने, यदेतत् क्रमदर्शनम् ॥ ४८५ ॥ तत्र हेतुः प्रथमतः, संयोग: शशिना समम् । युगस्यादावभिजितः, शेषाणां तु ततः क्रमात् ॥ ४८६ ॥ कृत्तिकादिक्रमस्तु लोके सप्तशलाकचक्रादिष्वेव स्थानेषूपयोगी श्रूयते । आरभ्य नन्वभिजितो, नक्षत्रानुक्रमो यदि । शेषोडूनामिव कथं, व्यवहार्यत्वमस्य न ? ॥ ४८७ ॥ अत्रोच्यतेऽस्य शशिना, योगो यदल्पकालिकः । ऋक्षान्तरानुप्रविष्टतयास्य तद्विचक्षणम् ॥ ४८८ ॥