SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 301 मुहूर्त्ता नव शिष्यन्ते, भागाश्च सप्तविंशतिः । मुहूर्ताः सप्तषष्टिनाः, कार्याः कर्तुं सवर्णनम् ॥ ४४४ ॥ षट्शती व्युत्तरां स्यात् सा, सप्तविंशतिभागयुक् । बभूव षट्शती विशा, भागोऽस्यास्त्रिंशता पुनः ॥ ४४५ ॥ सप्तषष्टिभवा भागा, लभ्यन्ते एकविंशतिः । यथोक्तोऽयं भमासोऽस्यार्धाधु याम्योत्तरायणे ॥ ४४६ ॥ चन्द्रोत्तरायणारम्भो, युगादिसमये भवेत् । प्रागुत्तरायणं पश्चाद्याम्यायनमिति क्रमः ॥ ४४७ ॥ प्रवृत्तिः स्याद्यतो ज्योतिश्चक्रचारैकमूलयोः । सूर्ययाम्यायनशीतांशूत्तरायणयोः किल ॥ ४४८ ॥ युगादावेव युगपत्तत्रार्क दक्षिणायनम् । पुष्यसप्तषष्टिजांशत्रयोविंशत्यतिक्रमे ॥ ४४९ ॥ युगादावभिजिद्योगप्रथमक्षण एव तु । चन्द्रोत्तरायणारम्भस्ततो युक्तं पुरोदितम् ॥ ४५० ॥ ____ तथोक्तं जम्बूदीपप्रज्ञप्तिसूत्रवृत्तौ । “सकलज्योतिश्चारमूलस्य सूर्यदक्षिणायनस्य चन्द्रोत्तरायणस्य च युगपत्प्रवृत्तियुगादावेव । सोऽपि चन्द्रायणस्याभिजिद्योगप्रथम समय एव । सूरायणस्य तु पुष्यस्य त्रयोविंशतौ सप्तषष्टिभागेषु व्यतीतेषु । तेन सिद्धं युगस्यादित्वमिति” ॥ पुष्यस्य सप्तषष्ट्युत्थविंशत्यंशाधिके ततः । मुहूर्त्तदशके भुक्ते, मुहूत्तैकोनविंशतौ ॥ ४५१ ॥ भोग्यायां सप्तचत्वारिंशदंशायां समाप्यते । विधुनोदीच्यमयनं, याम्यमारभ्यतेऽपि च ॥ ४५२ ॥ एवं च सर्वनक्षत्रभोगार्धानुभवात्मके । सामर्थ्यादवसीयेते, याम्योत्तरायणे विधोः ॥ ४५३ ॥ न त्वाद्यान्त्यमण्डलाभिमुखप्रसरणात्मके । याम्योत्तरायणे स्यातां, भानोरिव विधोरपि ॥ ४५४ ॥ किञ्च, लोकप्रसिद्धमकरकर्कराशिस्थितस्तत: । औदिच्यं याम्यमयनं, विधुरारभते क्रमात् ॥ ४५५ ॥ युगे युगे चतुस्त्रिंशं, शतं चन्द्रायणानि वै । त्रिंशान्यष्टादशशतान्येभिश्च युगवासराः ॥ ४५६ ॥ युगातीतपर्वसंख्या, कार्या पञ्चदशाहता । क्षिप्यन्ते तत्र तिथयः, पर्वोपरिगतास्ततः ॥ ४५७ ॥ राशेरस्माद्धिवर्ण्यन्तेऽवमरात्रास्ततः परम् । ऋक्षमासार्धेन भागे, यल्लब्धं तद्धिचार्यते ॥ ४५८ ॥ लब्धे समेऽके विज्ञेयमतीतं दक्षिणायनम् । विषमेऽके पुनर्लब्धे, व्यतीतमुत्तरायणम् ॥ ४५९ ॥ शेषांस्तूद्धरितानंशान्, सप्तषष्ठ्या हरेत् बुधः । लब्धाङ्कप्रमिता वर्तमानायनदिना गताः ॥ ४६० ॥ तत्राप्युद्धरिता येऽड्कास्ते विज्ञेया विशारदैः । दिनस्य सप्तषष्ट्यंशा, दर्श्यतेऽत्र निदर्शनम् ॥ ४६१ ॥ यथा युगादेरारभ्य, नवमासव्यतिक्रमे । पञ्चम्यां केनचित् पृष्टं, किं चन्द्रायणमस्ति भोः? ॥ ४६२ ॥ कुर्यात् पञ्चदशजानि, पर्वाण्यष्टादशात्र च । क्षिपेत् गतान् पञ्चतिथीन्, त्यक्त्वावमचतुष्टयम् ॥ ४६३ ॥ एकसप्तत्या समेतं, संजातं शतयोर्द्धयम् । भाजकोऽस्य भमासा), पूर्णरूपात्मकं न तत् ॥ ४६४ ॥ किन्तु सप्तषष्टिभागः, कियद्भिरधिकं ततः । एष राशि: सप्तषष्टया, भागसाम्याय गुण्यते ॥ ४६५ ॥ अष्टादश सहस्राणि, सप्तपञ्चाशताधिकं । शतं जातमितचोडुमासार्द्धदिवसा अपि ॥ ४६६ ॥ सप्तषष्ट्या हता: शेषैर्वेदवेदलवैर्युताः । जाता: पञ्चदशाढ्यानि, शतानि नव तैः पुनः ॥ ४६७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy