________________
300
कदाचित् ग्रहण इव, विमानमुपलभ्यते । वृत्ताकृति ध्रुवराहोः, कदाचित् न तथा च किम् ? ॥ ४२३ ॥ दिनेषु येषु तमसाभिभूतः स्यात् भृशं शशी । तेषूपलभ्यते वृत्तं, विमानमस्य येषु च ॥ ४२४ ॥ शशी विशुद्धकान्तित्वात्, तमसा नाभिभूयते । वृत्तं विमानं नैतस्य, दिनेषु तेषु दृश्यते ॥ ४२५ ॥
तथोक्तम्, “वट्टच्छेओ कइवइ, दिवसे धुवराहुणो विमाणस्स । दिसइ परं न दिसइ, जह गहणे पव्वराहुस्स ॥” “अच्चच्छं न हि तमसाभिभूयते जं ससी विसुज्झन्तो । तेण न वट्टच्छेओ,
गहणे उ तमोतमो बहुलो” ॥ इति भगवतीवृत्तौ ॥ यदा तु लेश्यामावृण्वन्, पर्वराहुजत्यधः । पुष्पदन्तमण्डलयोर्यथोक्तकालमानतः ॥ ४२६ ॥ तदा भवत्युपरागो, यथार्ह चन्द्रसूर्ययोः । जनैर्ग्रहणमित्यस्य, प्रसिद्धिः परिभाव्यते ॥ ४२७ ॥ जघन्यतस्तत्र षण्णां, मासामन्ते शशिग्रहः । उत्कर्षतो द्विचत्वारिंशतो मासामतिक्रमे ॥ ४२८ ॥ मासैर्जघन्यतः षड्भिर्जायते तरणिग्रहः । संवत्सरैरष्टचत्वारिंशतोत्कर्षतः पुनः ॥ ४२९ ॥ यदा स्वर्भानुरागच्छन्, गच्छन् वा पुष्पदन्तयोः । लेश्यामावृणुयात्तर्हि, वदन्ति मनुजा भुवि ॥ ४३० ॥ चन्द्रो रवि, तमसा, गृहीत इति यद्यथ । लेश्यामावृत्य पार्श्वन, गच्छत्यर्कशशाङ्कयोः ॥ ४३१ ॥ तदा वदन्ति मनुजा, रविणा शशिनाथवा । राहोः कुक्षिभिन्न इति, यदा पुनर्विधुन्तुदः ॥ ४३२ ॥ अर्केन्दुलेश्यामावृत्यापसर्पति तदा भुवि । वदन्ति मनुजा वान्तौ, राहुणा शशिभास्करौ ॥ ४३३ ॥ यदा तु गच्छन् वाऽऽगच्छन्, राहुश्चन्द्रस्य वा रखे: । लेश्यामावृत्य मध्येन, गच्छत्याहुर्जनास्तदा ॥ ४३४ ॥ राहुणा रविरिन्दुर्वा, विभिन्न इति चेत्पुनः । सर्वात्मना चन्द्रसूर्यलेश्यामावृत्य तिष्ठति ॥ ४३५ ॥ वावदन्तीह मनुजाः, परमार्थाविदस्तथा । राहुणा क्षुधितेनेव, ग्रस्तश्चन्द्रोऽथवा रविः ॥ ४३६ ॥ श्रृङ्गाटकश्च जटिल:, क्षेत्रक: खरकस्तथा । दुर्धरः सगरो मत्स्यः, कृष्णसर्पश्च कच्छपः ॥ ४३७ ॥ इत्यस्य नव नामानि, विमानास्त्वस्य पञ्चधा । कृष्णनीलरक्तपीतशुक्लवर्णमनोहराः ॥ ४३८ ॥ इति भगवतीसूत्रशतक १२ षष्ठोद्देशके ॥
सम्पूर्णसर्वावयवो, विशिष्टालङ्कारमाल्याम्बररम्यरूपः ।
महर्टिको राजति राहुरेष, लोक प्रसिद्धो न तु मौलिमात्रः ॥ ४३९ ॥ किञ्च, विधोरेकैकमयनमहोरात्रांस्त्रयोदश । चतुश्चत्वारिंशदहोरात्रांशाः सप्तषष्टिजाः ॥ ४४० ॥ द्वाभ्यां चन्द्रायणाभ्यां स्यात्, भमास: सप्तविंशतिः । अहोरात्राः सप्तषष्टिभागास्तत्रैकविंशतिः ॥ ४४१ ॥ अत्रोपपत्तिस्त्वेवम् । सर्वोडूनां चन्द्रभोगो, वक्ष्यमाणः समुच्चित: । मुहूर्तानां शतान्यष्टकोनविंशान्यथो लवा: ॥ ४४२ ॥ स्युः सप्तविंशतिः सप्तषष्टिजास्त्रिंशता तत: । मुहूर्ताले हते लब्धाहोरात्रसप्तविंशतिः ॥ ४४३॥