SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 299 द्वौ भागौ तिष्ठतः शेषौ, सदैवानावृतौ च तौ । एषा कला षोडशीति, प्रसिद्धिमगमत् भुवि ॥ ४०४ ॥ कल्प्यन्तेऽशा: पञ्चदश, विमाने राहवेऽथ स: । जयत्येकैकांशवृद्ध्या, नीतिज्ञोऽरिमिवोडुपम् ॥ ४०५॥ तच्चैवम्, स्वीयपञ्चदशांशेन, कृष्णप्रतिपदि ध्रुवम् । मुक्त्वांशी द्वावनावायौ, शेषषष्टेः सितत्विषः ॥ ४०६ ॥ चतुर्भागात्मकं पञ्चदशं भागं विधुतुदः । आवृणोति द्वितीयायां, निजभागद्येन च ॥ ४०७ ॥ अष्टभागात्मकौ पञ्चदशांशौ द्वौ रुणद्धि स: । षष्टि भागानित्यमायां, स्वैः पञ्चदशभिर्लवैः ॥ ४०८ ॥ तत: शुक्लप्रतिपदि, चतुर्भागात्मकं लवम् । एकं पञ्चदशं व्यक्तीकरोत्यपसरन् शनैः ॥ ४०९ ॥ द्वितीयायां द्रौ विभागौ, पूर्णिमायामिति क्रमात् । द्वाषष्ट्यंशात्मकः सर्वः, स्फुटीभवति चन्द्रमा: ॥ ४१० ॥ इन्दोश्चतुर्लवात्मांशो, यावत्कालेन राहुणा । पिधीयते मुच्यते च, तावत्कालमिता तिथि: ॥ ४११ ॥ इन्दो: पिधीयमानाः स्युः, कृष्णाः प्रतिपदादिकाः । तिथयो मुच्यमाना: स्युः, शुक्ला: प्रतिपदादिका: ॥ ४१२ ॥ तथाहुः, “कालेण जेण हायइ, सोलसभागो तु सा तिही होइ । तह चेव य वुढीए, एवं तिहिणो समुप्पत्ती ॥ एकोनत्रिंशता पूर्णैर्मुहूत्तैश्च द्विषष्टिजैः । द्वात्रिंशता मुहूर्ताशेरेकैको रजनीपतेः ॥ ४१३ ॥ चतुर्धा षष्टयंशरूपो, राहुणा छाद्यते लव: । मुच्यते च तदैतावन्मानाः स्युर्तिथयोऽखिलाः ॥ ४१४ ॥ एवं च, द्वाषष्टिभक्ताहोरात्रस्यैकषष्टया लवैर्मिता । तिथिरेवं वक्ष्यते यत्तद्युक्तमुपपद्यते ॥४१५ ॥ तिथिमानेऽस्मिंश्च हते, त्रिंशता स्याद्यथोदितः । मासश्चान्द्र एवमपि, त्रिंशत्तिथिमितः खलु ॥ ४१६ ॥ ननु राहुविमानेन, योजनार्धमितेन वै । षट्पञ्चाशद्योजनैकषष्टिभागमितं खलु ॥ ४१७ ॥ कथमाच्छादितुं शक्यं, गरीयः शशिमण्डलम् ? । लधीयसा गरीयो हि, दुरावारमिति स्फुटम् ॥ ४१८ ॥ एवमुत्तरयन्त्यत्र, केचित् प्राक्तनपण्डिताः । लधीयसोऽप्यस्य कान्तिजालैरत्यन्तमेचकैः ॥ ४१९ ॥ आच्छाद्यते महदपि, शशिबिम्ब प्रसृत्वरैः । दावानलोच्छलभृमस्तोमैरिव नभोङ्गणम् ॥ ४२० ॥ अन्ये त्वभिदधु(राोजनार्धं यदुच्यते । मानं ग्रहविमानस्य, तदेतत्प्रायिकं ततः ॥ ४२१ ॥ योजनायामविष्कम्भं, तत् द्वात्रिंशांशमेदुरम् । स्वर्भानुमण्डलं तेन, विधुराव्रियते सुखम् ॥ ४२२ ॥ तथा चाहुः, “आयामो विक्खंभो, जोअणमेगं तु तिगुणिओ परिही । अड्ढाइज्जधणुसया, राहुस्स विमाणबाहल्लम्” ॥ संग्रहण्यादर्श प्रक्षेपगाथेयं दृश्यते ॥ भगवतीवृत्तावपि एतस्याश्चालनाया एवं प्रत्यवस्थानम् । “यदिदं ग्रहविमानमर्धयोजनप्रमाणमिति तत् प्रायिकम् ॥ ततश्च राहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते । अन्ये पुनराहुः लधीयसोऽपि राहुविमानस्य महता तमिस्ररश्मिजालेन तदावियते । इति भगवतीसूत्रवृत्तौ १२ शतके पञ्चमोद्देशके । तत्त्वं तु केवलिनो विदन्ति ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy