________________
298
अत्र सर्वाभ्यन्तरसर्वबाह्यचन्द्रमण्डलयोदृष्टिपथप्राप्तिता दर्शिता । शेषमण्डलेषु सा चन्द्रप्रज्ञप्तिबृहत्क्षेत्रसमास-जम्बूद्धीपप्रज्ञप्तिसूत्रवृत्त्यादिग्रन्थेषु पूर्वैः क्वापि दर्शिता नोपलभ्यते । ततोऽत्रापि
न दर्शितेति ज्ञेयम् ॥ प्रतिमण्डलमित्येवं, मुहूर्तगतिरीरिता । मण्डलार्धमण्डलयोः, कालमानमथ ब्रुवे ॥ ३८३ ॥ नवशत्या विभक्तस्य, चञ्चत्पञ्चदशाढ्यया । विभागैर्मण्डलार्धस्य, किलैकत्रिंशतोनितम् ॥ ३८४ ॥ अर्धमण्डलमेकेनाहोरात्रेण समाप्यते । एकैकेन शशांकेन, यत्रकुत्रापि मण्डले ॥ ३८५ ॥ द्विचत्वारिंशदधिकैः, शतैश्चतुर्भिरेव च । अहोरात्रस्य भक्तस्य, लवैकत्रिंशताधिकौ ॥ ३८६ ॥ अहोरात्रौ पूर्तिकाल, एकस्मिन् मण्डले विधोः । रविस्तु पूरयेत् पूर्णाहोरात्रद्धितयेन तत् ॥ ३८७ ॥ मण्डलार्धमण्डलयोरुक्तैवं कालसंमितिः । साधारणासाधारणमण्डलानि ब्रवीम्यथ ॥ ३८८ ॥ प्रथमं च तृतीयं च, षष्ठं सप्तममष्टमम् । दशमैकादशे पञ्चदशमित्यष्टमण्डली ॥ ३८९ ॥ नक्षत्रैरविरहिता, सदापि तु हिमथुतेः । मण्डलेष्वेषु नक्षत्राण्यपि चारं चरन्ति यत् ॥ ३९० ॥ द्वितीयं च चतुर्थं च, पञ्चमं नवमं तथा । त्रीणि च द्वादशादीनि, किलैषा सप्तमण्डली ॥ ३९१ ॥ ऋक्षैः सदा विरहिता, मण्डलेष्वेषु नो भवेत् । कदापि चार ऋक्षाणामूषरेषु गवामिव ॥ ३९२ ॥ प्रथमं तृतीयमेकादशं पञ्चदशं तथा । रविचन्द्रोडुसामान्या, मण्डलानां चतुष्टयी ॥ ३९३ ॥ एतेषु मण्डलेष्विन्दुर्नक्षत्राणि तथा रवि: । चारं चरन्ति सर्वेऽपि, राजामार्ग जना इव ॥ ३९४ ॥ षष्ठादीनि पञ्च सूर्यचारहीनानि सर्वथा । शेषाणि मण्डलानीन्दोः, किञ्चित् भानुः स्पृशेदपि ॥ ३९५ ॥ साधारणासाधारणमण्डलान्येवमूचिरे । सम्प्रतीन्दोवृद्धिहानिप्रतिभासः प्ररूप्यते ॥ ३९६ ॥ अवस्थितस्वभावं हि, स्वरूपेणेन्दुमण्डलम् । सदापि हानिर्वृद्धिा, येदयते सा न तात्त्विकी ॥ ३९७ ॥ केवलं या शुक्लपक्षे, वृद्धिानिस्तथा परे । राहुविमानावरणयोगात् सा प्रतिभासते ॥ ३९८ ॥ तथाहि । ध्रुवराहुः पर्वराहुरेवं राहुर्बिधा भवेत् । ध्रुवराहोस्तत्र कृष्णतमं विमानमीरितम् ॥ ३९९ ॥ तच्च चन्द्रविमानस्य, प्रतिष्ठितमधस्तले । चतुरङ्गलमप्राप्तं, चारं चरति सर्वदा ॥ ४०० ॥ तेनापावृत्त्य चावृत्त्य, चरत्यधः शनैः शनैः । वृद्धिहानिप्रतिभासः, पोस्फुरीतीन्दुमण्डले ॥ ४० ॥
तथोक्तम्, “चंदस्स नेव हाणी, नवि बुढी वा अवढिओ चंदो । सुक्किलभावस्स पुणो, दीसइ बुढ़ी य हाणि य ॥ किन्हं राहुविमाणं, निच्चं चंदेण होइ अविरहियम् । चउरंगुलमप्पत्तं, हिठ्ठा चंदस्स तं च ॥ तेणं वड्ढ चंदो परिहाणी वावि होइ चंदस्स ॥” [बृहत्क्षेत्रसमास अधि. १.
श्लो. ३९६ टीकान्तर्गत श्लो. १,२] तत्र प्रकल्प्य द्वाषष्टि, भागान् शशाङ्कमण्डले । हियते पञ्चदशभिर्लभ्यतेऽशचतुष्टयम् ॥ ४०२ ॥ एतावदाव्रियते तत्, प्रत्यहं भरणीभुवा । अहोभिः पञ्चदशभिरेवमाव्रियतेऽखिलम् ॥ ४०३ ॥