________________
297
एषा मुहूर्त्तद्वाषष्टिः, सवर्णनाय गुण्यते । एकविंशाभ्यां शताभ्यां, ये चोपरितना लवाः ॥ ३६४ ॥ त्रयोविंशतिरुक्ताः प्राक्, ते क्षिप्यन्ते भवेत्तत: । त्रयोदश सहस्राणि, सतत्त्वा सप्तशत्यपि ॥ ३६५ ॥ सर्वान्तर्मण्डलस्थस्य, परिधिर्य: पुरोदित: । एकविंशत्यधिकाभ्यां, शताभ्यां सोऽपि गुण्यते ॥ ३६६ ॥ जाता: षट् कोटय: षण्णवतिर्लक्षाः स्वरूपतः । चतुस्त्रिंशत् सहस्राणि, षट्शत्येकोनसप्ततिः ॥ ३६७ ॥ सहस्त्रयोदशभिः, सतत्त्वैः सप्तभिः शतैः । एषां भागे हृते लब्धा, मुहूर्त्तगतिरैन्दवी ॥ ३६८ ॥ योजनानां सहस्राणि, पञ्चोपरि त्रिसप्ततिः । चतुश्चत्वारिंशान्यंशशतानि सप्तसप्ततिः ॥ ३६९ ॥ मुहुर्तगतिरित्येवं, भाव्येन्द्रोः प्रतिमण्डलम् । विभाज्योक्त भाजकेन, प्राग्वत् परिरयं निजम् ॥ ३७० ॥ मुहूर्तीयगतौ यद्धा, वर्धन्ते प्रतिमण्डलम् । त्रियोजनी पञ्चपञ्चाशांश्च षण्णवति शताः ॥ ३७१ ॥ भागा एकयोजनस्य, विभक्तस्य सहस्रकैः । त्रयोदशमितैः सप्तशत्या च पञ्चविंशया ॥ ३७२ ॥ अत्रोपपत्तिः, योजनदिशती त्रिंशा, या वृद्धिः प्रतिमण्डलम् । उक्ता परिरये गुण्या, सा द्विशत्येकविंशया ॥ ३७३ ॥ भक्ता त्रयोदशसहस्रादिना राशिना च सा । दत्ते त्रियोजनी शेषानंशानपि यथोदितान् ॥ ३७४ ॥ सर्वान्तर्मण्डले चन्द्रौ, जनानां दृष्टिगोचरौ । सहस्रैः सप्तचत्वारिंशता त्रिषष्टियुक्तया ॥ ३७५ ॥ द्विशत्या च योजनानां, एकस्य योजनस्य च । षष्ट्यशैरेकविंशत्या, तत्रोपपत्तिरुच्यते ॥ ३७६ ॥ अन्तर्मण्डलपरिधेर्दशांशे त्रिगुणीकृते । इन्द्रोः प्रकाशक्षेत्रं स्यात्, तापक्षेत्रमिवार्कयोः ॥ ३७७ ॥ अर्धं प्रकाशक्षेत्रस्य, पूर्वतोऽपरतोऽपि च । इन्दोरपि दृष्टिपथप्राप्तिर्विवस्वतोरिव ॥ ३७८ ॥
तथा च जम्बूदीपप्रज्ञप्तिसूत्रम् । “तयाणं इहगयस्स मणूसस्स सीयालीसाहे जोअणसहस्सेहिं दोहियतेवढेहिं जोअणसएहिं एगवीसाए सठ्ठिभाएहिं जोअणस्स चंदे चक्नुफासं हब्बमागच्छइ ॥”
जम्बूद्धीपप्रज्ञप्तिसूत्रवृत्तौ च “यत्तु षष्टिभागीकृतयोजनसत्कैकविंशतिभागाधिकत्वं तत्तु संप्रदायगम्यम् । अन्यथा चन्द्राधिकारे साधिकद्धाषष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेन भणनात् सूर्याधिकारसत्कषष्टि-मुहूर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेनानुपपद्यमानत्वात्”
इति दृश्यते । तदत्र तत्त्वं बहुश्रुतगम्यम् ॥” . पञ्चयोजनसहस्राः, पञ्चविंशतियुक्शतम् । योजनस्य तथैकस्य, पञ्चविंशतिसंयुतैः ॥ ३७९ ॥ त्रयोदशभिः सहस्रैर्भक्तस्य सप्तभिः शतैः । भागा नवत्यधिकानि, शतान्येकोनसप्ततिः ॥ ३८० ॥ मुहूर्त्तगतिरेषेन्द्रोः, सर्वपर्यन्तमण्डले । अथात्रैव दृष्टिपथप्राप्तिर्विविच्यतेऽनयोः ॥ ३८१ ॥ एकत्रिंशता योजनसहभैरष्टभिः शतैः । एकत्रिंशः सर्वबाह्ये, दृश्येते मण्डले विधू ॥ ३८२ ॥
“अत्र सूर्याधिकारोक्तम् तीसाए सट्ठिभाएहिं इत्यधिकं मन्तव्यम्” । इति जम्बूदीपप्रज्ञप्तिवृत्तौ ॥