________________
296
तिम्रो लक्षाः पञ्चदश, सहस्रा योजनान्यथ । नवाशीतिः परिक्षेपोऽधिकोऽभ्यन्तरमण्डले ॥ ३३८ ॥ भावना तूभयोरपि सूर्याभ्यन्तरमण्डलवत् ॥ द्वितीयमण्डलव्यासं, विभाव्योक्तानुसारतः । भावनीय: परिक्षेपः, स चायमुपपद्यते ॥ ३३९ ॥ तिम्रो लक्षा: पञ्चदश, सहस्राणि शतत्रयम् । योजनान्येकोनविंश, साधिकं किञ्चनाथवा ॥ ३४०॥ पूर्वमण्डलविष्कम्भात्, परमण्डलविस्तृतौ । दासप्ततिर्योजनानि, वृद्धिः प्राक् प्रत्यपादि या ॥ ३४१ ॥ तस्याः पृथक् परिक्षेपः, कर्त्तव्यः कोविदेन्दुना । द्वे शते त्रिंशदधिके, योजनानां भवेदसौ ॥ ३४२ ॥ पूर्वपूर्वपरिक्षेपे, यद्ययं क्षिप्यते तदा । परापरपरिक्षेपा, भावनीया यथोत्तरम् ॥ ३४३ ॥ इयमिन्दुमण्डलानां, परिक्षेपप्ररूपणा । मुहूर्त्तगतिमाख्यामि, संप्रति प्रतिमण्डलम् ॥ ३४४ ।। उपसंक्रान्तयोरिन्द्रोः, सर्वाभ्यन्तरमण्डले । पञ्च पञ्च सहस्राणि, योजनानां त्रिसप्ततिः ॥ ३४५ ॥ सहस्रेस्त्रयोदशभिः, सतत्त्वैः सप्तभिः शतैः । छिन्नस्य योजनस्यांशशताश्च सप्तसप्ततिः ॥ ५४६ ॥ चतुश्चत्वारिंशदाढ्या, मुहूर्तगतिरेषिका । जिज्ञास्यतेऽस्याश्चेत् बीजं, श्रूयतां तर्हि भावना ॥ ३४७ ॥ इहैकैकोऽप्यमृतांशुरेकै कमर्धमण्डलम् । एक नाहोरात्रेणैकमुहूर्त्ताधिक्यशालिना ॥ ३४८ ॥ शताभ्यामेकविंशाभ्यां, दाभ्यां छिन्नस्य निश्चितम् । मुहूर्त्तस्यैकादशभिः, साधैर्भागः प्रपूरयेत् ॥ ३४९ ॥ एवं शशी द्वितीयोऽपि, द्वितीयमर्धमण्डलम् । कालेनैतावतैव द्राक्, भ्रमणेन प्रपूरयेत् ॥ ३५० ॥ संपूर्णस्य मण्डलस्य, पूर्तिकालो यदेष्यते । अहोरात्रद्वयं द्वाभ्यां, मुहूर्ताभ्यां युतं तदा ॥ ३५१ ॥ एकविंशत्यधिकाभ्यां, शताभ्यां चूर्णितस्य च । त्रयोविंशतिरंशानां, मुहूर्त्तस्य विनिर्दिशेत् ॥ ३५२ ॥ मण्डले पूर्तिकालेऽत्र, प्रत्यय: केन चेदिति । त्रैराशिकेन तदपि, श्रूयतां यदि कौतुकम् ॥ ३५३ ॥ भानुर्लघुविमानत्वाच्छीघ्रगामितयापि च । षष्ट्या मुहूत्तैरेकैकं, मण्डलं परिपूरयेत् ॥ ३५४ ॥ तद्वैपरीत्या द्राषष्ट्या, साग्रया तैर्विधुस्तु तत् । साष्टषष्टिः सप्तदशशती तानि युगे तत: ॥ ३५५ ॥ एकचन्द्रापेक्षयार्धमण्डलानि भवन्ति हि । तावन्त्येव च पूर्णानि, द्वयोरिन्दोरपेक्षया ॥ ३५६ ॥ ततश्च साष्टषष्टिसप्तदशशतमानार्धमण्डलैः । युगान्त विभी रात्रिंदिवानां यदि लभ्यते ॥ ३५७ ॥ अष्टादशशती त्रिंशा, तदा ननु किमाप्यते । दाभ्यामर्धमण्डलाभ्यामिति राशिवयं लिखेत् ॥ ३५८ ॥ अन्त्येन राशिना राशौ, मध्यमे गुणिते सति । जातः शतानि षट्त्रिंशत्, सषष्टीन्येष भज्यते ॥ ३५९ ॥ साष्टषष्टिसप्तदशशतात्मकायराशिना । अहोरात्रद्वयं लब्धं, चतुर्विशं शतं स्थितम् ॥ ३६० ॥ अहोरात्रस्य च त्रिंशन्मुहूर्ता इति ताडितम् । त्रिंशताभूत् विंशतीयुक्, सप्तत्रिंशच्छतात्मकम् ॥ ३६१ ॥ अस्मिन् साष्टषष्टिसप्तदशशत्या हते द्रयम् । लब्धं मुहूर्तयोः शेष, शतं चतुरशीतियुक् ॥ ३६२ ॥ भागाप्राप्ताऽपवय॑ते, अष्टभिर्भाज्यभाजको । त्रयोविंशतिरेकोन्यश्चैकविंशं शतद्वयम् ॥ ३६३ ॥