________________
295
३११ ॥
अष्टावेकषष्टिभागा, जायन्ते सप्तभाजिताः । द्वाषष्टिरेते स्युः प्राच्यचतुःपञ्चाशता युताः ॥ एकषष्ट्यैषां च भागे, प्राप्तं सैकांशयोजनम् । योज्यतेऽशश्चांशराशौ, योजनं योजनेषु च ॥ ३१२ ॥ एवं च । योजनानां पञ्चशती, दशोत्तरैकषष्टिजाः । अष्टचत्वारिंशदंशाः, मण्डल क्षेत्रसंमितिः ॥ ३१३ ॥ कृतैवं मण्डलक्षेत्र - परिमाण प्ररूपणा । संख्याप्ररूपणा त्वेषामाहुः पञ्चदशात्मिकाम् ॥ ३१४ ॥ तत्र पञ्चमण्डलानि, जम्बूद्वीपे जिना जगुः । शेषाणि तु दशाम्भोधौ, मण्डलान्यमृतद्युतेः ॥ ३१५ ॥ बाधा तु त्रिधा प्राग्वत्, तत्राद्या मेर्वपेक्षया । ओघतो मण्डलक्षेत्राबाधाऽन्या प्रतिमण्डलम् ॥ ३१६ ॥ तृतीया तु मिथोऽबाधा, शशिनोः प्रतिमण्डलम् । तत्रौघतोऽर्कवत् मेरोर्मण्डलक्षेत्रमीरितम् ॥ ३१७ ॥ चतुश्चत्वारिंशतैव, सहसैरष्टभिः शतैः । विंशत्याढ्यैर्योजनानामियतैवाद्यमण्डलम् ॥ ३१८ ।। षट्त्रिंशद्योजनान्येकषष्ट्यंशाः पञ्चविंशतिः । एकस्यैकषष्टिजस्य, चत्वारः सप्तजाः लवाः ॥ ३१९ ॥ वर्धतेन्तरमेतावत्, प्रतिमण्डलमादिमात् । सर्वान्त्यमण्डलं यावत्, ततो द्वितीयमण्डलम् ॥ ३२० ॥ सत्सहस्रैश्चतुश्चत्वारिंशताऽचाष्टभिः शतैः । षट्पञ्चाशैरेकषष्टिभागैस्तत्त्वमितैस्तथा ॥ ३२१ ॥ एकस्यैकषष्टिजस्य, चतुर्भिः सप्तजैर्लवैः । स्यात् मन्दरादन्तरितमेकतोपरतोऽपि च ॥ ३२२ ॥ सर्वबाह्यमण्डलं तु, स्थितं दूरे सुमेरुतः । सहसैः पञ्चचत्वारिंशता त्रिंशैस्त्रिभिः शतैः ॥ ३२३ ॥ योजनानां योजनैकषष्टिभागाष्टकोज्झितैः । अथो मिथोऽन्तरं वक्ष्ये, शशिनोः प्रतिमण्डलम् ॥ ३२४ ॥ इन्दोर्मिथोर्कवत्सर्वान्तरङ्गमण्डलेऽन्तरम् । सहस्रा नवनवतिश्चत्वारिंशा च षट्शती ॥ ३२५ ॥ इतश्च द्वासप्ततियोजनानामेकपञ्चाशदंशकाः । एकषष्टिभवाः सप्तभक्तस्यास्य लवोऽपि च ॥ ३२६ ॥ एतावदन्तरं ग्लावौः, वर्द्धते प्रतिमण्डलम् । बहिर्निष्क्रमतोरन्तर्विशतोः परिहीयते ॥ ३२७ ॥ एतच्च यत्पुरा प्रोक्तं, प्रतिमण्डलमेकतः । अन्तरं तद् द्विगुणितं भवेत्पार्श्वद्धयोद्भवम् ॥ ३२८ ॥ एवं च सहसा नवनवतिर्योजनानां शतानि च । द्वादशोपेतानि सप्त, विभागाश्चैकषष्टिजाः ॥ ३२९ ॥ एक पञ्चाशदेकोंश, एकषष्टिलवस्य च । सप्तभागीकृतस्यैतत्, द्वितीयमण्डलेऽन्तरम् ॥ ३३० ॥ सर्वान्तिमेऽन्तरं लक्षं, सषष्टीनि शतानि षट् । योजानानामेकषष्टिभागैः षोडशभिर्विना ॥ ३३१ ॥ अष्टांशोरुव्यासमिह, मण्डलं भानुमण्डलात् । अष्टाष्टार्वाक् क्षेत्रभागाराभ्यां रुद्धास्ततोऽधिकाः ॥ ३३२ ॥ ततः षोडशभिर्भागैर्न्यूनं परममन्तरम् । सर्वान्त्यमण्डले ग्लावोरर्कयोः परमान्तरात् ॥ ३३३ ॥ एवं कृता चन्द्रमसोर्मिथोऽबाधाप्ररूपणा । साम्प्रतं मण्डलचारप्ररूपणा प्रपञ्च्यते ॥ ३३४ ॥ परिक्षेपा मण्डलानां, मुहूर्त्तगतिरत्र च । मण्डलार्धमण्डलयोः, कालसंख्याप्ररूपणा ॥ ३३५ ॥ साधारणासाधारणमण्डलानां प्ररूपणा । एवं चत्वार्यनुयोगद्वाराण्यत्र जिना जगुः ॥ ३३६ ॥ विष्कम्भायामतस्तत्र, सर्वाभ्यन्तरमण्डलम् । सहस्रा नवनवतिश्चत्वारिंशा च षट्शती ॥ ३३७ ॥